________________
श. ५: उ.२: सू.५५-उ.४: सू.६४
५१४
भगवती वृत्ति
५/५५ 'लवणे ण' मित्यादि। ‘एवं णेयव्वं' ति उक्ताभिलापानुगुणतया
नेतव्यं, जीवाभिगमोक्तं लवणसमुद्रसूत्रम्। किमन्तमित्याह'जाव लोगे त्यादि, तच्चेदम्-केवइयं परिक्खेवेणं? गोयमा! दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरस सयसहस्साई एक्कासीयं च सहस्साई सयं च इगुणयालं किंचिविसेसूणं परिक्खेवेणं पण्णत्ते' इत्यादि, एतस्य चान्ते कम्हा णं भंते! लवणसमुद्दे जंबूद्दीवं दीवं नो उव्वीलेइ इत्यादौ प्रश्ने गोयमा! जंबूद्दीवे दीवे भरहेरवएसु वासेसु अरहंता चक्कवट्टी' त्यादेरुत्तरग्रन्थस्यान्ते 'लोगट्ठिई' इत्यादि द्रष्टव्यमिति।
॥ पञ्चमशते द्वितीयोद्देशकः ॥
तृतीय उद्देशकः अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यग्ज्ञानिप्रतिपादित्वात् , मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शयंस्तृतीयोद्देशक
स्यादिसूत्रमिदमाह५/५७ 'अण्णउत्थियाण' मित्यादि 'जालगंठिय' त्ति जालं
मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिकाजालिका, किंस्वरूपा सा? इत्याह-'आणुपुट्विंगढिय' त्ति आनुपूर्व्या-परिपाट्या ग्रथिता-गुम्फिता आधुचितग्रन्थीनामादौ विधानाद् अन्तोचितानां च क्रमेणान्त एव करणात्। एतदेव प्रपञ्चयन्नाह–'अनन्तरगढिय' त्ति प्रथमग्रन्थीनामन्तरव्यवस्थापितैन्थिभिः सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैःव्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति? 'अण्णमण्णगढिय' त्ति अन्योऽन्यं—परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येव ग्रथिता अन्योऽन्यग्रथिता एवं च 'अण्णमण्णगरुयत्ताए' त्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता–विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अण्णमण्णभारियत्ताए' त्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिकं तद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह-'अण्णमण्णगरुयसंभारियत्ताए' त्ति अन्योऽन्येन गुरुकं यत्सम्भारिकं च तत्तथा सद्भावस्तत्ता तया अण्णमण्णघडताए' त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया 'चिट्ठई' त्ति आस्ते इति दृष्टान्तोऽथ दार्टान्तिक उच्यते—'एवामेव' त्ति अनेनैव न्यायेन बहूनां जीवानां सम्बन्धीनि। 'बहूसु आजाइसहस्सेसु' त्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्त्राणि ततस्वामिजीवानामाजातीनां च बहुशतसहस्रसंख्यत्वात् , आनुपूर्वीग्रथिता
नीत्यादि पूर्ववद्व्याख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम्। अथैतेषामायुषां को वेदनविधिः? इत्याह--‘एगेऽवि ये' त्यादि, एकोऽपि च जीव आस्तामनेक: एकेन समयेनेत्यादि
प्रथमशतकवत् । अत्रोत्तरं५/५८ 'जे ते एवमाहंसु' इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि
बहूनां जीवानां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा? यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रंथिककल्पना कल्पयितुं शक्या? तथाऽपि तत्कल्पने जीवानामपि जालग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वभवभवनप्रसंग इति। अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेति। यच्चोक्तं एको जीव एकेन समयेन द्वे आयुषी वेदयति तदपि मिथ्या, आयुट्टयसंवेदने युगपद्भवद्वयप्रसंगादिति। अहं पुण गोयमे' त्यादि इह पक्षे जालग्रन्थिका–संकलिकामात्रम् , 'एगमेगस्से' त्यादि एकैकस्य जीवस्य न तु बहूनां बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालकेषु तत्कालापेक्षया सत्सु बहून्यायु: सहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वाणि परस्परं प्रतिबद्धानि भवन्ति न पुनरेकभव एव बहूनि- 'इहभवियाउयं व' त्ति वर्तमानभवायु: ‘परभवियाउयं व' त्ति परभवप्रायोग्य यद्वर्त्तमानभवे निबद्धं तच्च परभवे गतो, यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं व' त्ति।
आयुः प्रस्तावादिदमाह५/५९ 'जीवे ण' मित्यादि, से णं भंते! त्ति अथ तद्भदन्त!' ५/६० 'कहिं कडे' त्ति क्व भवे बद्धं 'समाइण्णे' त्ति समाचरितं
तद्धेतुसमाचरणात्। ५/६२ 'जे जंभविए जोणिं उववज्जित्तए' त्ति विभक्तिपरिणामाद्यो
यस्यां योनावुत्पत्तुं योग्य इत्यर्थः ‘मणुस्साउयं दुविहं' ति संमूर्छिमगर्भव्युत्क्रान्तिकभेदाविधा 'देवाउयं चउव्विहं' ति भवनपत्यादिभेदादिति।
॥ पञ्चमशते तृतीयोद्देशकः ।।
चतुर्थ उद्देशकः अनन्तरोद्देशकेऽन्ययूथिकछद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तु मनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते इत्येवं
सम्बन्धस्यास्येदमादिसूत्रम्५/६४ 'छउमत्थे ण' मित्यादि 'आउडिज्जमाणाई' ति जुड बन्धने
इति वचनाद् 'आजोड्यमानेभ्यः' संबध्यमानेभ्यो मुखहस्त
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org