________________
भगवती वृत्ति
श.५: उ.२: सू.३२-५४
५/३२ 'पुरच्छिमेणं' ति सुमेरो: पूर्वस्यां दिशीत्यर्थः ५/३३ 'एवमेतानि दिगविदिगपेक्षयाऽष्टौ सूत्राणि । उक्तं दिग्भेदेन
वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह-- ५/३४ 'जया ण' मित्यादि। इह च द्वे दिक्सूत्रे द्वे विदिक्सूत्रे इति ।
अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्रं, तत्र५/३६ “दीविच्चग' त्ति द्वैप्याद्वीपसम्बन्धिनः ३/३७ 'सामुद्दय' त्ति समुद्रस्यैते सामुद्रिकाः ५/३९ 'अण्णमण्णविवच्चासेणं' ति अन्योऽन्यव्यत्यासेन यदैके
ईषत्पुरोवातादिविशेषणा वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं नाइक्कमइ' त्ति तथाविधवातद्रव्यसामर्थ्याद् वेलायास्तथास्वभावत्वाच्चेति। अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेण
दर्शयन्नाह५/४० 'अत्थि ण' मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थमिति न
पुनरुक्तमित्याशंकनीयम् ५/४१ 'अहारियं रियंति' ति रीतं रीति: स्वभाव इत्यर्थः तस्यानतिक्रमण
यथारीतं 'रीयते' गच्छति यदा स्वाभाविक्या गत्या गच्छतीत्यर्थः ५/४३ 'उत्तरकिरियं' ति वायुकायस्य हि मूलशरीरमौदारिकमुत्तरं तु
वैक्रियमत उत्तरा-उत्तर-शरीराश्रया क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियम्। तद्यथा भवतीत्येवं रीयते गच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाचनान्तरे त्वाद्यं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जितानां, तृतीयं तु चतुर्णामप्युक्तमिति।
वायुकायाधिकारादेवेदमाह५/४६ 'वाउयाए ण' मित्यादि 'जहा खंदए' इत्यादि, तत्र प्रथमो
दर्शित एव ५/४७ 'अणेगे' त्यादिर्द्वितीयः, स चैवम्-'वाउयाए' णं भंते!
वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव
भुज्जो-भुज्जो पच्चायाइ ? हंता गोयमा!' ५/४८ 'पुढे उद्दाइ' त्ति तृतीयः स चैवम्-'से भंते! किं पुढे उद्दाइ
अपुढे उद्दाइ?' -
गोयमा! पुढे उद्दाइ नो अपुढे', ५/४९ ‘ससरीरी' त्यादि: चतुर्थः, स चैवम्—'से भंते! किं ससरीरी
निक्खमइ असरीरी? गोयमा! सिय ससरीरी' त्यादि। वायुकायश्चिन्तितः, अथ वनस्पतिकायादीन् शरीरतश्चिन्त
यन्नाह५/५१ 'अहे' त्यादि 'एए णं' ति एतानि णमित्यलंकारे 'किंसरीर'
त्ति केषां शरीराणि किंशरीराणि? 'सराए य जे घणे' त्ति सुरायां द्वे द्रव्ये स्यातां-घनद्रव्यं द्रवद्रव्यं च, तत्र यद् घनद्रव्यम्। 'पुव्वभावपण्णवणं पडुच्च' त्ति अतीतपर्यायप्ररूपणामंगीकृत्य वनस्पतिशरीराणि, पूर्वं हि ओदनादयो वनस्पतयः 'तओ पच्छ' ति वनस्पतिजीव-शरीरवाच्यत्वानन्तरमग्निजीवशरीराणीति वक्तव्यं स्यादिति सम्बन्धः, किं भूतानि संति? इत्याह-'सत्यातीय' त्ति शस्त्रेण-उद्खलमुशलयंत्रकादिना करणभूतेन अतीतानि-अतिक्रान्तानि पूर्वपर्यायमिति शस्त्रातीतानि 'सत्थपरिणामिय' त्ति शस्त्रेण परिणामितानि–कृतानि नवपर्यायाणि शस्त्रपरिणमितानि ततश्च–'अगणिज्झामिय' त्ति वह्मिना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याजनात्, तथा अग्निना झोषितानि पूर्वस्वभावक्षपणात् , अग्निना सेवितानि वा 'जुषी प्रीतिसेवनयो: इत्यस्य धातोः प्रयोगात् 'अगणिपरिणामियाई ति' सजाताग्निपरिणामानि उष्णयोगादिति। अथवा 'सत्थातीता' इत्यादी
शस्वमग्निरेव, 'अगणिज्झामिया' इत्यादि तु तद्व्याख्यानमेवेति । ५/५२ 'उवले' त्ति इह.दग्धपाषाण: 'कसट्टिय' ति कट्टः। ५/५३ 'अट्टिज्झामि' ति अस्थि च तद्ध्यामं च-अग्निना
ध्यामलीकृतम्-आपादितपर्यायान्तरमित्यर्थः ५/५४ 'इंगाले' इत्यादि अंगार: निलितेन्धनं, 'छारिए' त्ति क्षारकं
भस्म ‘भुसे' त्ति बुसं 'गोमयं' त्ति छगणम् , इह च बुसगोमयौ भूतपर्यायानुवृत्या दग्धावस्थौ ग्राह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति। एते पूर्वभावप्रज्ञापनां प्रतीत्यैकेन्द्रियजीवैः शरीरतया प्रयोगेण-स्वव्यापारेण परिणाभिता ये ते तथा एकेन्द्रियशरीराणीत्यर्थ: अपि समुच्चये, यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्यम्, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासंभवमेव न तु सर्वपदेष्विति। तत्र पूर्वमंगारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात्। बुसं तु यवगोधूमहरितावस्थायामेकेन्द्रियशरीरम् गोमयस्तु तृणाद्यवस्थायमेकेन्द्रियशरीरम्। द्वीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति। पृथिव्यादिकायाधिकारदप्कायरूपस्य लवणोदधे: स्वरूपमाह
१. स प्रती कृताभिनवपर्यायाणि २. क्वचित् अग्निना शोषितानि
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org