________________
श.५: उ. १: सू.७-उ.२ सू.३१
५१२
भगवती वृत्ति
त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य ३३३३३ १, उभयमीलने त्वष्टसप्ततिः सहस्त्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनविभागश्चेति ७८३३३
। 'उक्कोसए अट्ठारसमुहत्ते दिवसे भवति' त्ति इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पंचषष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिक च तेषां शतं लवणसमुद्रस्य मध्ये भवति। तत्र च सर्वाभ्यन्तरे मण्डले यदा वर्तते सूर्यस्तदाऽष्टादशमुहूतों दिवसो भवति, कथम् ? यदा सर्वबाह्ये मण्डले वर्ततेऽसौ तदा सर्वजघन्यो द्वादश मुहूत्र्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततमे मण्डले षड् मुहूर्ता वर्धन्ते इत्येवमष्टादशमुहूत्तों दिवसो भवति, अतएव द्वादशमुहूर्ता रात्रिर्भ
वति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य। ५/८,९ 'अट्ठारसमुहत्ताणंतरे' ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले
वर्त्तते सूर्यस्तदा मुहूर्तेकषष्टिभागद्वयहीनाष्टादशमुहूतों दिवसो भवति, स चाष्टादशमुहूर्तादिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तरमिति व्यपदिष्टः ‘सातिरेगा दुवालसमुहुत्ता राइ' ति द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता 'राई भवति' त्ति रात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिनं हीयते तावता
रात्रिर्वर्द्धते, त्रिंशन्मुहूर्तत्वादहोरात्रस्येति। ५/१० ‘एवं एएणं कमेणं' एवमित्युपसंहारे 'एतेन' अनन्तरोक्तेन
'जया णं भंते! जंबूद्दीवे दीवे दाहिणड्डे' इत्यनेनेत्यर्थः 'ओसारेयव्वं' ति दिनमानं ह्रस्वीकार्य, तदेव दर्शयति'सत्तरसे' त्यादि। तत्र सर्वाभ्यान्तरमण्डलानन्तरमण्डलादारभ्यैकत्रिंशत्तममण्डला यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ता च रात्रिरिति। 'सत्तरसमुहुत्ताणंतरे' त्ति मुहूर्तेकषष्टिभागद्वयहीनसप्तदशमुहूर्त्तप्रमाणो दिवसः। अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध भवति। एवमनन्तरत्वमन्यत्राप्यूह्यं 'साइरेगतेरसमुहुत्ता राइ' त्ति मुहूर्तेकषष्टिभागद्वयेन सातिरेकत्वम्, एवं सर्वत्र ‘सोलसमुहुत्ते दिवसे' ति द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूत्तों दिवसो भवति। ‘पन्नरसमुहत्ते दिवसे' त्ति द्विनवतितममण्डलार्द्ध वर्त्तमाने सूर्ये 'चोद्दसमुहुत्ते दिवसे' त्ति द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्ते दिवसे' त्ति सार्धद्विपंचाशदुत्तरशततमे मण्डले, 'बारसमुहत्ते दिवसे' ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः।
कालाधिकारादिदमाह५/१३ 'जया णं भंते! जंबूद्दीवे द्दीवे दाहिणड्ढे वासाणं पढमे समए
पडिवज्जइ' इत्यादि वासाणं' ति चतुर्मासप्रमाणवर्षाकालस्य
सम्बन्धी 'प्रथम:' आद्यः 'समय:' क्षण: 'प्रतिपद्यते' संपद्यते भवतीत्यर्थ:-'अणंतरपुरक्खडे समयंसि' त्ति अनन्तरो--- निर्व्यवधानो दक्षिणार्द्ध वर्षाप्रथमतापेक्षया स चातीतोऽपि स्यादत आह--पुरस्कृत:-पुरोवर्ती भविष्यन्नित्यर्थः। समय:
प्रतीतः, तत: पदत्रयस्य कर्मधारयोऽतस्तत्र । ५/१४ 'अणंतरपच्छाकडसमयंसि' त्ति पूर्वापरविदेहवर्षाप्रथमसमयापेक्षया
योऽनन्तरपश्चात्कृतोऽतीत: समयस्तत्र दक्षिणोत्तरयोर्वर्षा
कालप्रथमसमयो भवतीति। ५/१५ ‘एवं जहा समएण' मित्यादि आवलिकाऽाभलापश्चैवम्
'जया णं भंते! जंबूद्दीवे दीवे दाहिणड्डे वासाणं पढमा आवलिया पडिवज्जति तया णं उत्तरड्डेवि, जया णं उत्तरड्डे वासाणं पढमावलिया पडिवज्जति तया णं जंबूद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं अणंतरपुरक्खड़समयंसि वासाणं पढमा आवलिया पडिवज्जइ? हंता गोयमा! इत्यादि। एवमानप्राणादिपदेष्वपि आवलिकाद्यर्थः पुनरयम्-आवलिका -असंख्यातसमयात्मिका आनप्राण:- उच्छ्वासनिःश्वासकाल: स्तोकः-सप्तप्राणप्रमाण: लवस्तु–सप्तस्तोकरूप:
मुहूर्त: पुनर्लवसप्तसप्ततिप्रमाण: ऋतुस्तु मासद्वयमानः। ५/१६ 'हेमंताणं' ति शीतकालस्य 'गिम्हाण व' त्ति उष्णकालस्य ५/१७, १८ ‘पढमे अयणे' त्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य
'जुएणविं' त्ति युगं पञ्चसंवत्सरमानं 'पुव्बंगेणवि' त्ति पूर्वाङ्ग चतुरशीतिवर्षलक्षाणां 'पुव्वेण वि' त्ति पूर्वपूर्वांगमेव चतुरशीतिवर्षलक्षेण गुणितमा एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति। चतुर्नवत्यधिकं चांकशतमन्तिमे
स्थाने भवतीति। ५/१९ 'पढमा ओसप्पिणि' त्ति अवसर्पयति भावानित्येवंशीलाऽवसर्पिणी
तस्याः प्रथमो विभागः प्रथमावसर्पिणी। 'उस्सप्पिणि' त्ति उत्सर्पयति भावानित्येवंशीला उत्सर्पिणी ति।
॥ पञ्चमशते प्रथमोद्देशकः ॥
द्वितीय उद्देशकः प्रथम उद्देशके दिक्ष दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव
वातं प्रतिपिपादयिषुर्वातभेदांस्तावदभिधातुमाह५/३१ 'रायगिहे' इत्यादि, 'अत्थि' त्ति अस्त्ययमर्थों-यदुत वाता
वान्तीति योगः, कीदृशाः? इत्याह-'ईसिं पुरेवाय' त्ति मनाक सत्रेहवाता:। 'पत्थावाय' त्ति पथ्या वनस्त्पत्यादिहिता वायवः, 'मंदावाय' त्ति मन्दाः शनैः संचारिणोऽमहावाता इत्यर्थः। 'महावाय' त्ति उद्दण्डवाता अनल्पा इत्यर्थः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org