________________
भगवती वृत्ति
५/३
अथ पञ्चमं शतकम् प्रथम उद्देशकः
चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसंग्रहाय गाथेयम्'चंपे' त्यादि, तत्र चंपायां रविविषयप्रश्ननिर्णयार्थ : प्रथम उद्देशक:, 'अनिल' त्ति वायुविषयप्रश्ननिर्णयार्थो द्वितीयः, 'गंठिय' त्ति जालग्रन्थिकाज्ञातज्ञापनीयार्थनिर्णयपरस्तृतीयः, 'सदे' त्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः, 'छउम'' त्ति छद्मस्थवक्तव्यतार्थः पञ्चमः, 'आउ' त्ति आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः, 'एयण' त्ति पुद्गलानामेजनाद्यर्थप्रतिपादकः सप्तमः, 'नियंठे' त्ति निर्ग्रन्थीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः, 'रायगिहं' ति राजगृहनगर विचारणपरो नवमः 'चंपाचंदिमा' य त्ति चम्पायां नगर्यां चन्द्रमसो वक्तव्यतार्थो दशमः ।
तत्र प्रथमोद्देशके किञ्चिल्लिख्यते
'सूरिय' त्ति द्वौ सूर्यौ, जम्बूद्वीपे द्वयोरेव भावात् 'उदीणपाईणं' ति उदगेव उदीचीनं प्रागेव प्राचीनम् उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः प्रत्यासन्नत्वाद् उदीचीनप्राचीनं — दिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः । ‘उग्गच्छ' त्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः 'पाईणदाहिणं' ति प्राचीनदक्षिणं दिगन्तरं पूर्वदक्षिणामित्यर्थः । 'आगच्छंति' त्ति आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमनं च द्रष्टृलोकविवक्षयाऽवसेयं, तथाहि — येषामदृश्यौ सन्तौ दृश्यौ तौ स्यातां ते तयोरुद्गमनं व्यवहरन्ति येषां तु दृश्यौ सन्तावदृश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयौ, आह च-
१. "जह जह समए समए पुरओ संचरइ भक्खरो गयणे । तह तह इओवि नियमा जायइ रयणी य भावत्थो । २. एवं च सइ नराणं उदयमत्थमणाई होतऽनिययाई । सइ देसभए कस्सइ किंची ववदिस्सए नियमा || ३. सइ चेव य निद्दिट्ठो भद्दमुहुत्तो कमेण सव्वेसिं । सिंचीदापि य विसयपमाणे रवी जेसिं ॥ " इत्यादि, अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्ता, ततश्च ये मन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन
१. अ. स प्रतौ 'छउमत्थ' त्ति
२. स प्रतौ 'चोद्गमनमस्तमयम्'
३. स प्रतौ 'होंतिऽनियया'
५११
Jain Education Intemational
श. ५: उ. १: सू. ३-७
गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं निषिद्धमिति । इह च सूर्यस्य सर्वतो गमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीति तं क्षेत्रभेदेन दर्शयन्नाह५/४,५. ‘जया ण’ मित्यादि इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्द्धे तथा उत्तरार्द्धे इत्युक्तं, तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् यतो यदि दक्षिणा उत्तरार्द्धे च समग्र एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात्, इतश्च दक्षिणार्द्धादिशब्देन दक्षिणादिदिग्भागमात्रमेवावसेयं न त्वर्द्धम्
५/६, ७ अतो यदापि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति, तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रिक्षेत्रं स्यात्, तथाहि – षष्ट्या मुहूर्तेः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूर्तेरुक्तम्, अष्टादश च षष्टेर्दशभागत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहूर्तो दिवसो भवति तदा रात्रिर्द्वादशमुहूर्त्ता भवति । द्वादश च षष्टेर्दशभागद्वयरूपा भवन्तीति, तत्र च मेरुं प्रति नव योजनसहस्त्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा योजनस्येत्येतत्सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भव ९४८६ कथम् ? मन्दरपरिक्षेपस्य किञ्चिन्नयूनत्रयो विंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्य ३१६२३ दशभिर्भागे हृते यल्लब्धं ३१६२ तस्य त्रिगुणितत्वे एतस्य भावादिति। तथा लवणसमुद्रं प्रति चतुर्नवतिर्योजनानां सहस्राणि अष्टौ शतान्यष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं भवति ९४८६२ कथम्? जम्बूद्वीपपरिधेः किंचिन्न्यूनाष्टविंशत्युत्तरशतद्वयाधिकषोडशसहस्त्रोपेतयोजनलक्षत्रयमानस्य ३१६२२८ दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणित्वे एतस्य भावादिति । जघन्यरात्रिक्षेत्रप्रमाणं चाप्येवमेव, नवरं परिधेर्दशभागो द्विगुणः कार्यः, तत्राद्यं षड् योजनानां सहस्त्राणि त्रीणि शतानिचतुर्विंशत्यधिकानि षट् च दशभागा योजनस्य ६३२४ ६ द्वितीयं तु त्रिषष्टिः सहस्राणि द्वे पंचचत्वारिंशदधिके योजनानां शते षट् च दशभागा योजनस्य ६३२४५ सर्वलघौ च दिवसे तापक्षेत्रमनन्तरोक्तरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रं त्वनन्तरोक्ततापक्षेत्रतुल्यमिति । आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पंचचत्वारिशद्योजनानां सहस्त्राणीति, लवणे च
For Private & Personal Use Only
www.jainelibrary.org