________________
श.३ : उ.१०: सू.८
भगवती वृत्ति
सायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासंख्येयानि अध्यवसायस्थानानामसंख्यातत्वादिति। 'अप्पबहु' ति लेश्यास्थानानामल्पबहुत्वं वाच्यं, तच्चैवम्-'एएसिणं भंते! कण्हलेसाठाणाणं जाव सुक्कलेसाठाणाणं य जहण्णगाणं दव्वट्ठयाए पएसट्ठयाए दव्वपएसट्ठयाए कयरे कयरेहितो अप्पा वा बहुया वा.... तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा जहण्णगा काउलेसाठाणा दव्वट्ठयाए, जहण्णगा नीललेसाठाणा दव्वट्ठयाए असंखेज्जगुणा, जहण्णगा कण्हलेसाठाणा दवट्ठयाए असंखेज्जगुणा, जहण्णगा तेउलेसाठाणा दव्वट्ठयाए असंखेज्जगुणा, जहण्णगा पम्हलेसाठाणा दव्वट्ठयाए असंखेज्जगुणा, जहण्णगा सुक्कलेसाठाणा दव्वट्ठयाए असंखेज्जगुणा इत्यादीनि।
॥ चतुर्थशते दशमोद्देशकः ॥
समाप्तं चतुर्थं शतम्
स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं विदृब्धा। दुग्धे सदा स्वादुतमे स्वभावात्, क्षेपो न युक्तः किमु शर्करायाः?।।
द्रष्टव्यम्-तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो भुज्जो परिणमति? हंता गोयमा! कण्हलेसा नीललेसं पप्प तारूवत्ताए ........... भुज्जो भुज्जो परिणमति। अयमस्य भावार्थ:यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्याणि गृहीत्वा कालं करोति तदा नीललेश्यापरिणत उत्पद्यते 'जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववज्जइ' ति वचनात्। अत: कारणमेव कार्यं भवति। 'कण्हलेसा नीललेसं पप्पे' त्यादि तु कृष्णनीललेश्ययो)दपरमपचारादुक्तमिति । 'से केणतुणं भंते! एवं वुच्चइ किण्हलेसा नीललेसं पप्प तारूवत्ताए ....... भुज्जो भुज्जो परिणामइ। गोयमा! से जहाणामए–खीरे दूसिं पप्प तक्रमित्यर्थः सुद्धे वा वत्थे रागं पप्प तारूवत्ताए...... भुज्जो भुज्जो परिणमइ। से एएणद्वेणं गोयमा! एवं वच्चइ-कण्हलेसे त्यादि। एतेनैवाभिलापेन नीललेश्या कापोती, कापोती तैजसी, तैजसी पद्मा, पद्मा शुक्लां प्राप्य तद्पत्वादिना परिणमतीति वाच्यम्। अथ कियद्दरमयमुद्देशको वाच्यः? इत्याह-'जावे' त्यादि ‘परिणाम त्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव तथा 'वण्ण' त्ति कृष्णादिलेश्यानां वों वाच्यः, स चैवम्-कण्हलेसा णं भंते! केरिसिया वण्णेणं पण्णत्ते? त्यादि उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत्, नीललेश्या नीला शृंगादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शशकरक्तादिवत्, पद्मा पीता चम्पकादिवत्, शुक्ला शुक्लाशंखादिवदिति। तथा 'रस' त्ति रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा निम्बादिवत्, नीला कटुकरसा नागरवत्, कापोती कषायरसा अपक्वबदरवत्, तेजोलेश्या आम्लमधुरा पक्वाम्रा देफलवत्, पद्मलेश्या कटुककषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत् 'गंध' त्ति लेश्यानां गन्धो वाच्यः तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितरा: ‘सुद्ध' त्ति अन्त्याः शुद्धा आद्यास्त्वितरा: 'अपसत्थ' त्ति आद्या अप्रशस्ता अन्त्यास्तु प्रशस्ता: 'संकिलिट्ठ' त्ति आद्याः संक्लिष्टा अन्त्यास्त्वितरा: 'उण्ह' ति अन्त्या उष्णा: स्निग्धाश्च आद्यास्तु शीता रूक्षाश्च 'गति' ति आद्या दुर्गतिहेतवोऽन्त्यास्तु सुगतिहेतवः 'परिणाम' त्ति लेश्यानां कतिविधः परिणामः? इति वाच्यं, तत्रासौ जघन्यमध्यमोत्कृष्टभेदास्त्रिधा उत्पातादिभेदाद्वा विधेति ‘पएस' त्ति आसां प्रदेशा वाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति 'ओगाह' त्ति अवगाहना आसां वाच्या तत्रैता असंख्यातक्षेत्रप्रदेशावगाढा: 'वग्गण' त्ति वर्गणा आसां वाच्याः। तत्र वर्गणाः कृष्णलेश्यादियोग्यद्रव्यवर्गणाः ताश्चानन्ता औदारिकादिवर्गणावत् 'ठाण' त्ति तारतम्येन विचित्राध्यव
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org