________________
भगवती वृत्ति
५०९
श.४ : उ.१: सू.१ - उ.१०: सू.८
११. पुव्वेण ऊ अतिविसाला उ दाहिणे पासे।
सेज्जप्पभाऽवरेणं अमुया पुण उत्तरे पासे।।'' इति। इह च ग्रन्थे सौधर्मावतंसकादीशानावतंसकाच्चासंख्येया योजनकोटी~तिक्रम्य प्रत्येकं पूर्वादिदिक्षु स्थितानि यानि सन्ध्याप्रभादीनि सुमनःप्रभृतीनि च विमानानि तेषां अधोऽसंख्याता योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता तत: कथं न विरोध: इति? अत्रोच्यते अन्यास्ता नगर्यो या: कुण्डलेऽभिधीयन्ते एताश्चान्या इति, तथा शक्रेशानाग्रमहिषीणां नन्दीश्वरद्वीपे कुण्डलद्वीपे चेति।
॥ चतुर्थशते अष्टमोद्देशकः ॥
४/७
अथ चतुर्थशतकम् प्रथमः- चतुर्थ उद्देशकः तृतीयशते प्रायेण देवाधिकार उक्तोऽतस्तदधिकारवदेव चतुर्थ
शतम्। तस्य पुनरुद्देशकार्थाधिकारसंग्रहाय गाथा४/१ 'चत्तारीत्यादि व्यक्तार्था ४/४ 'अच्चणिय' ति सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य
सोमाख्यलोकपालस्येति। ४/५ चतुर्थशते चत्वारः
॥ चतुर्थशते चतुर्थोद्देशकः ॥
पञ्चमः- अष्टम उद्देशकः ४/६ 'रायहाणीस चत्तारि उद्देसया भाणियव्वा' ते चैवम्—'कहिं
णं भंते! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारन्नो सोमानामं रायहाणी पण्णत्ता? गोयमा! सुमणस्स महाविमाणस्स अहे सपक्खिं इत्यादिपूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति। नन्वेता राजधान्य: किल सोमादीनां शक्रस्येशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं चतस्त्र एकादशे कुण्डलवराभिधानद्वीपे द्वीपसागरप्रज्ञप्त्यां श्रूयन्ते, उक्तं हि तत्संग्रहिण्याम्१. "कुण्डलनगस्स अभिंतरपासे होंति रायहाणीओ।
सोलस्स उत्तरपासे सोलस पुण दक्खिणे पासे ॥ २. जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं।
सक्कस्स लोगपालाण दक्खिणे सोलस हवंति॥"
एताश्च सोमप्रभयमप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम्३. 'मज्झे होइ चउण्हं वेसमणपभो नगुत्तमो सेलो।
रइकरयपव्वयसमो उव्वेहुच्चत्तविक्खंभे।। ४. तस्स य नगुत्तमस्स उ चउद्दिसिं होंति रायहाणीओ।
जंबूद्दीवसमाओ विक्खंभायामओ ताओ । ५. पुव्वेण अयलभद्दा समक्कसा रायहाणि दाहिणओ।
अवरेण उ कुबेरा धणप्यभा उत्तरे पासे । ६. एएणेव कमेणं वरुणस्सवि होति अवरपासंमि।
वरुणप्पभसेनस्सवि चउद्दिसिं रायहाणीओ॥ ७. पुव्वेण होइ वरुणा वरुणपभा दक्खिणे दिसीभाए।
अवरेण होति कुमुया उत्तरओ पुंडरीगिणीया।। ८. एएणेव कमेणं सोमस्सवि होति अवरपासंमि।
सोमप्पभसेलस्सवि चउद्दिसिं रायहाणीओ॥ ९. पुव्वेण होइ सोमा सोमप्पभा दक्खिणे दिसीभाए।
सिवपागारा अवरेण होइ नलिनाय उत्तरओ। १०. एएणेव कमेणं अंतकरस्सवि य होंति अवरेणं।
समवित्तिप्पभसेलस्स चउद्दिसिं रायहाणीओ। १. अ स प्रतो 'अयलनद्दा' इति
नवम उद्देशकः अनन्तरं देववक्तव्यतोक्ताऽथ वैक्रियशरीरसाधान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम्'नेरइए ण' मित्यादि ‘लेस्सापए' त्ति सप्तदशपदे 'तइओ उद्देसओ भाणियब्वो' ति क्वचिद् द्वितीय इति दृश्यते स चापपाठ इति स चैवम्-गोयमा! नेरइए नेरइएसु उववज्जइ नो अणेरइय नेरइएसु उववज्जइ इत्यादि। अयं चास्यार्थ:नैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत् ? उच्यते, यस्मान्नारकादिभवोपग्राहकमायुरेवातो नारकाद्यायुःप्रथमसमयसंवेदनकाल एवं नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन यत उक्तं-नयविद्भिर्ऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः१. "पलालं न दहत्यग्निर्भिधते न घटः क्वचित् ।
न शून्यान्निर्गमोऽस्तीह न च शून्यं प्रविश्यते॥ २. नारकव्यतिरिक्तश्च नरके नोपपद्यते।
नरकान्नारकश्चास्य न किंचिद् विप्रमुच्यते॥" इत्यादीनि 'जाव नाणाई' ति अयमुद्देशको ज्ञानाधिकारावसानोऽध्येतव्यः स चायम्-'कण्हलेस्से णं भंते! जीवे कयरेसु णाणेसु होज्जा? गोयमा! दोसु वा तिसु वा चउसु वा णाणेसु होज्जा। दोसु होज्जमाणे आभिणिबोहियसुयणाणेसु होज्जा, इत्यादि। ॥ चतुर्थशते नवमोद्देशकः ॥
दशम उद्देशकः लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम्'से नूण' मित्यादि ‘तारूवत्ताए' त्ति तद्रूपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति–'तावण्णत्ताए' त्ति तस्या इवनीललेश्याया इव वणे यस्याः सा तद्वर्णा तद्भावस्तत्ता तया तद्वर्णतया ‘एवं चउत्थो उद्देसओ' इत्यादि वचनादेवं
४/८
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org