________________
श.३ : उ.८: सू.२७७-उ.१० सू.२८०
५०८
भगवती वृत्ति
परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया? हंता गोयमा! इत्यादि। ‘सुब्भिणो' त्ति इदं सूत्रं पुनरेवम्-‘से णूणं भंते! सुब्भिसद्दपोग्गला दुब्बिसद्दत्ताए परिणमंति? हंता, गोयमा! इत्यादीति
। तृतीयशते नवमोद्देशकः ।।
अष्टम उद्देशकः देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, स च सुगम एव, नवरं-सो. का. चि. प्प. ते. रु. ज. तु. का. आ इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि। वाचनान्तरे त्वेतान्येव गाथायां सा चेयम् -
"सोमे य कालवाले चित्त प्पभ तेउ तह रुए चेव।
जल तह तुरियगई य, काले आउत्त पढमा उ॥" एवं द्वितीयादयोऽप्यभ्यूह्याः। इह च पुस्तकान्तरे अयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रतिसूत्रं यौ तृतीयचतुर्थी
तावौदीच्येषु चतुर्थतृतीयाविति। ३/२७७ 'एसा वत्तव्वया' सव्वेसु वि कप्पेसु एए चेव भाणियव्व' त्ति
एषा सौधर्मशानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या---सनत्कुमारादीन्द्रयुग्मेषु पन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां लोकपालानां तृतीयचतुर्थयोव्यत्ययो वाच्य इत्यर्थः तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिवापरापरे, 'जे य इंदा ते य भाणियव्वा' शक्रादयो दशेन्द्रा वाच्याः। अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति।
॥ तृतीयशते अष्टमोद्देशकः ॥
दशम उद्देशकः प्रागिन्द्रियाण्युक्तानि तद्वन्तश्च देवा इति देववक्तव्यताप्रतिबद्धो
दशम उद्देशकः। स च सुगम एव, नवरं३/२८० 'समिय' त्ति समिका उत्तमत्वेन स्थिरप्रकृतितया समवती,
स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति, शमिका शमिता वा-अनुद्धता। 'चंड' त्ति तथाविधमहत्त्वाभावनेषत् कोपादिभावाच्चण्डा 'जाय' त्ति प्रकृतिमहत्त्ववर्जितत्वेनाऽस्थानकोपादीनां जातत्वाज्जाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति। तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वादाकारितैव पार्वे समागच्छति तां चासौ अर्थपदं पृच्छति, मध्यमा तूभयथाऽप्यागच्छति अल्पतरगौरवविषयत्वात्, अभ्यन्तरया चादिष्टमर्थपदं तया सह प्रबध्नाति—ग्रन्थिबन्धं करोतीत्यर्थः, बाह्या त्वनाकारितैवागच्छति अल्पतमगौरवविषयत्वात्, तस्याश्चार्थपदं वर्णयत्येव, तत्राद्यायां चतुर्विंशतिर्देवानां सहस्राणि द्वितीयायामष्टाविंशतिः तृतीयायां द्वात्रिंशदिति, तथा देवीशतानि क्रमेणाध्युष्टानि, त्रीणि, साढे च द्वे इति, तथा तद्देवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि, द्वे सार्द्ध चेति, देवीनां तु सार्द्ध एकं तदर्द्ध चेति, एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनं देवीमानं तु शतेन शतेनाधिकमिति, आयुर्मानमपि तदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकं तिस्रः पर्षदो भवन्ति। नामतो देवादिप्रमाणत: स्थितिमानतश्च क्वचित्किंचिद्भेदेन भेदवत्यस्ताश्च जीवाभिगमादवसेया इति।
॥ तृतीयशते दशमोद्देशकः॥
नवम उद्देशकः देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत
इन्द्रियविषयं निरूपयन्नवमोद्देशकमाह३/२७९ 'रायगिहे' इत्यादि 'जीवाभिगमे जोइसियउद्देसओ णेयव्वो'
त्ति, स चायम् 'सोइंदियविसए जाव फासिंदियविसए। सोइंदियविसए णं भंते! पोग्गलपरिणामे कतिविहे पण्णत्ते? गोयमा! दुविहे पण्णत्ते, तंजहा–सुब्भिसद्दपरिणामे य दुब्भिसद्दपरिणामे य' शुभाशुभशब्दपरिणाम इत्यर्थः। चक्खिंदियविसए पुच्छा, गोयमा! दुविहे पण्णत्ते, तंजहा -सुरूवपरिणामे य दुरूवपरिणामे या धाणिंदियविसए पुच्छा, गोयमा! दुविहे पण्णत्ते, तंजहा-सुब्भिगंधपरिणामे य दुनिभगंधपरिणामे य, एवं जिब्भिंदियविसए सुरसपरिणामे य दुरसपरिणामे या फासिंदियविसए सुहफासपरिणामे य दुहफासपरिणामे य' इत्यादि, वाचनान्तरे च इंदियविसए उच्चावयसुब्मिणो' त्ति दृश्यते। तत्रेन्द्रियविषयसूत्रं दर्शितमेव, उच्चावयसूत्रं त्वेवम्—'से णूणं भंते! उच्चावएहिं सद्दपरिणामेहिं
॥ समाप्तं च तृतीयशतकम् ॥
श्रीपंचमांगस्य शतं तृतीयं व्याख्यातमाश्रित्य पुराणवृत्तीः । शक्तोऽपि गन्तुं भजते हि यानं, पान्थः सुखार्थं किमु यो न शक्तः ।।
१. अप्रतौ 'उदकोत्पीडा' इति
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org