SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ५०७ श.३: उ.७: सू.२५८-२६८ इन्द्रग्रहादय: उन्मत्तताहेतवः एकाहिकादयो ज्वरविशेषाः। 'उव्वेयग' त्ति उद्वेगका इष्टवियोगादिजन्या उद्वेगा: उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः 'कच्छकोह' त्ति कक्षाणांशरीरावयवविशेषाणां वनगहनानां वा कोथा:-कुथितत्वानि शटितानि वा कक्षाकोथा: कक्षकोथा वा। ३/२५९ 'अम्ब' इत्यादयः पञ्चदश असुरनिकायान्तर्वर्तिनः परमाधार्मिकनिकायाः, तत्र१. यो देवो नारकानम्बरतले नीत्वा विमुञ्चत्यसौ अम्ब इत्यभिधीयते। २. यस्तु नारकान् कल्पनिकाभि: खण्डश: कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसौ अम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादंबरीष एवोच्यते। ३. यस्तु तेषां शातनादि करोति वर्णतस्तु श्याम: स श्याम इति। ४. 'सबले त्ति यावरे' त्ति शबल इति चापरो देव इति प्रक्रम: स च तेषां अन्त्रहृदयादीन्युत्पाटयति वर्णतश्च शबल: कर्बुर इत्यर्थः। ५. य: शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति। ६. यस्तु तेषामेवांगोपांगानि भनक्ति सोऽत्यन्त-रौद्रत्वादुपरौद्र इति। ७. यः पुन: कण्ड्वादिषु पचति वर्णतश्च काल: स काल इति। ८. 'महाकाले त्ति यावरे' त्ति महाकाल इति चापरो देव इति प्रक्रमः, तत्र य: श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल: स महाकाल इति ९. 'असी य' त्ति यो देवोऽसिना तान् छिनत्ति सोऽसिरेव। १०. 'असिपत्ते' त्ति अस्याकारपत्रवद्वनविकुर्वणादसिपत्रः। ११. 'कुंभे' त्ति कुंभादिषु तेषां पचनात्कुम्भः। क्वचित् पठ्यते 'असिपत्ते धणू कुंभे' त्ति तत्रासिपत्रकुम्भौ पूर्ववत्, ‘धणु' त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदन-भेदनादि करोति स धनुरिति। १२. 'वालु' त्ति कदम्बपुष्पाद्याकारवालुकासु य: पचति स वालुक इति। १३. 'वेयरणी इ य' त्ति वैतरणीति च देव इति प्रक्रमः। तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैत-रणीति। १४. 'खरस्सर' त्ति यो वज्रकण्टकाकुलशाल्मलीवृक्ष-मारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः। १५. 'महाघोसि' त्ति यस्तु भीतान् पलायमानान्नारकान् पशूनिव वाटेषु महाघोषं कुर्वन्निरुणद्धि स महाघोस इति। 'एए पन्नरसाहिय' त्ति ‘एवम् उक्तन्यायेन' एते यमयथाऽप त्यदेवाः पञ्चदश आख्याता इति। ३/२६३ 'अतिवास' ति अतिशयवर्षा वेगववर्षणानीत्यर्थ: 'मंदवास' त्ति शनैर्वर्षणानि 'सुवुट्ठी' त्ति धान्यादिनिष्पत्तिहेतु: 'दुव्बुट्ठि' त्ति धान्याद्यनिष्पत्तिहेतु: 'उदब्भेय' त्ति उदकोभेदा: गिरितटादिभ्यो जलोद्भवा: 'उदप्पील' त्ति उदकोत्पीला:-तड़ागादिषु जलसमूहाः 'ओवाह' त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहा: इह प्राणक्षयादयो जलकृता द्रष्टव्याः। ३/२६४ 'कक्कोडए' त्ति ककोंटकाभिधानोऽनुवेलन्धरनागराजावासभूत: पर्वतो लवणसमुद्रे ऐशान्यां दिश्यस्ति तन्निवासी नागराज: कर्कोटकः, 'कद्दमए' त्ति आग्नेय्यां तथैव विद्युत्प्रभपर्वतस्तत्र कर्दमको नाम नागराज: 'अंजणे' त्ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽञ्जनाभिधान: 'संखवालए' त्ति धरणाभिधाननागराजस्य लोकपाल: शंखपालको नाम, शेषास्तुः पुण्ड्रादयोऽप्रतीता इति। ३/२६८ 'वसुहाराइ व' त्ति तीर्थकरजन्मादिषु आकाशाद्रव्यवृष्टिः 'हिरण्णवास' त्ति हिरण्यं-रूप्यं घटितसुवर्णमित्यन्ये, वर्षोऽल्पतरो वृष्टिस्तु महतीति वर्षवृष्ट्यो दः, माल्यं तु ग्रथितपुष्पाणि वर्ण:-चन्दनं चूर्णो गन्धद्रव्यसम्बन्धी गन्धा:कोष्ठपुटपाका: ‘सुभिक्खाइ व' त्ति सुकाले दुःकाले वा भिक्षुकाणां भिक्षासमृद्धय: दुर्भिक्षास्तूक्तविपरीता: 'संनिहि' त्ति घृतगुडादिस्थापनानि 'संनिचय' त्ति धान्यसञ्चया: 'निहीइ व' त्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई व' त्ति भूमिगतसहस्त्रादिसंख्यद्रव्यस्य संचयाः, किंविधानि? इत्याह'चिरपोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि अतएव 'पहीणसामियाई' ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाई ति प्रहीणा:-अल्पीभूता: सेक्तार:-सेचका: धनप्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, ‘पहीणगोत्तागाराई' ति प्रहीणं-विरलीभूतमानुषं गोत्रागारंतत्स्वामिगोत्रगृहं येषां तानि तथा 'उच्छिण्णसामियाई' ति निःसत्ताकीभूतप्रभूणि, 'नगरनिद्धवणेसु' त्ति नगरनिर्द्धवनेषु नगरजलनिर्गमनेषु 'सुसाणगिरिकंदरसंतिसेलोवट्ठाणभवनगिहेसु ति गृहशब्दस्य प्रत्येकं सम्बन्धात् श्मशानगृहं-पितृवनगृहं, गिरिगृह-पर्वतोपरिगृहं, कन्दरगृहं -गुहा, शान्तिगृहंशान्तिकर्मस्थानं, शैलगृह-पर्वतमुत्कीर्य यत्कृतं उपस्थानगृहं आस्थानमण्डपो भवनगृहं-कुटुंबिवसनगृहमिति। ॥ तृतीयशते सप्तमोद्दशकः ।। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy