________________
श.३: उ.७:सू.२५२-२५८
५०६
भगवती वृत्ति
सेवा बहुमानो वा येषां ते तद्भक्तिका:। 'तप्पक्खिय' त्ति सोमपाक्षिका: सोमस्य प्रयोजनेषु सहाया: 'तब्भारिय' त्ति तद्भार्याः तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्याः, तद्भारो वा येषां
वोढव्यतयाऽस्ति ते तद्भारिका। ३/२५३ 'गहदंड' त्ति दण्डा इव दण्डा:-तिर्यगायता: श्रेणय: ग्रहाणां
-मंगलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि' नवरमूर्बीयताः श्रेणय: 'गहगज्जिय' त्ति ग्रहसंचालादौ गर्जितानि—स्तनितानि ग्रहगर्जितानि, ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि ‘ग्रहसिंघाटकानि' ग्रहाणां सिंघाटकफलाकारेणावस्तिानानि 'ग्रहापसव्यानि' ग्रहाणामपसव्यगमनानि प्रतीपगमनानीत्यर्थः,अभ्रात्मका वृक्षा अभ्रवृक्षाः, गन्धर्वनगराणि आकाशे व्यन्तरकृतानि नगराकारप्रतिबिम्बानि 'उल्कापाता:' सरेखा: सोद्योता वा तारकस्येव पाता: 'दिग्दाहाः' अन्यतमस्यां दिशि अधोऽन्धकारा उपरि च प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पा: 'जूवय' त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यैः संध्याछेदा आब्रियन्ते ते यूपकाः। 'जक्खालित्तय' त्ति यक्षोद्दीप्तानि आकाशे व्यन्तरकृतज्वलनानि धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिकाधूम्रवर्णा धूसरा इत्यर्थः, महिका-त्वापाण्डुरेतिर, 'रउग्घाय' त्ति दिशां रजस्वलतानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्याग्रहणानि 'पडिचंद' त्ति द्वितीयचन्द्रा: 'उदगमच्छ' त्ति इन्द्रधनु:खण्डानि, 'कविहसिय' त्ति अनभ्रे या विद्युत्सहसा तत् कपिहसितम् ,
अन्ये त्वाहु:-कपिहसितं नाम यदाकाशे वानरमुखसदृशस्य विकृतमुखस्य हसनम् 'अमोह' त्ति अमोघा आदित्योदयास्तसमययोरादित्यकिरणविकारजनिता: 'आताम्राः' कृष्णाः श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, 'पाईणवाय' त्ति पूर्वदिग्वाता: 'पईणवाय' त्ति प्रतीचीनवाता: यावत्करणादिदं दृश्यम् 'दाहिणवायाइ वा उदीणवायाइ वा उड्ढवायाइ वा अहोवायाइ वा तिरियवायाइ वा, विदिसीवायाइ वा वाउब्भामाइ वा वाउक्कलियाइ वा वायमंडलियाइ वा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइ वा झंझावायाइ व' त्ति इह वातोद्धामा: अनवस्थिता वाताः, वातोत्कलिकाः समुद्रोत्कलिकावत् , वातमण्डलिका वातोल्य:, उत्कलिकावात्ता: उत्कलिकाभिर्ये वान्ति, मण्डलिकावाता: मण्डलिकाभिर्ये वान्ति, गुञ्जावाता: गुञ्जन्त: सशब्दं ये वान्ति,
'झञ्झावाता:' अशुभनिष्ठुराः निष्टुराः, संवर्तकवाता: तृणादि संवर्तनस्वभावा इति। अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानि दर्शयन्नाह'पाणक्खय' त्ति बलक्षयाः 'जणक्खय' त्ति लोकमरणानि, निगमयन्नाह-वसणब्भूया-मणारिया जे यावन्ने तहप्पगार' त्ति इहैवमक्षरघटना-न केवलं प्राणक्षयादय एव, ये चान्ये एतद्व्यतिरिक्तास्तत्प्रकारा:-प्राणक्षयादितुल्या: 'व्यसनभूताः आपद्पा ' 'अनार्या:' पापात्मका न ते अज्ञाता इति योग: 'अण्णाय' त्ति अनुमानतः ‘अदिट्ठ' त्ति प्रत्यक्षापेक्षया 'असुय' त्ति परवचनद्वारेण 'अमुय' त्ति अस्मृता मनोऽपेक्षया 'अविण्णाय'
त्ति अवध्यपेक्षयेति। ३/२५४ 'अहावच्च' त्ति यथाऽपत्यानि तथा ये ते यथाऽपत्या देवाः
पुत्रस्थानीया इत्यर्थः । अभिण्णाय' त्ति अभिमता अभिमतवस्तुकारित्वादिति होत्थ' त्ति अभवन् उपलक्षणत्वाच्चास्य भवन्ति भविष्यन्तीति द्रष्टव्यम्। 'अहावच्चाभिण्णायाणं' त्ति यथा अपत्यमेव अभिज्ञाता—अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्मधारयः ते
चांगारकादय: पूर्वोक्ताः। ३/२५५ एतेषु च यद्यपि चन्द्रसूर्ययोर्वर्षलक्षाद्यधिकं पल्योपमं
तथाऽप्याधिक्यस्याविवक्षित्वादंगारकादीनां च ग्रहत्वेन
पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति। ३/२५६ 'पेतकाइयं' ति प्रेतकायिका: व्यन्तरविशेषाः ‘पेतदेवयकाइय'
त्ति प्रेतसत्कदेवतानां सम्बंधिन: 'कंदप्प' त्ति ये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्ना: कन्दर्पशीलाश्च, कन्दपश्च-अतिकेलि: 'आहियोग' त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेषूत्पन्ना अभियोगवर्तिनश्च अभियोगश्च
आदेश इति। ३/२५८ 'डिंबाइ व' त्ति डिम्बा–विघ्नाः, 'डमर' ति एकराज्ये एव
राजकुमारादिकृतोपद्रवा: 'कलह' त्ति वचनराटय: 'बोल' त्ति अव्यक्ताक्षरध्वनिसमूहा: 'खार' त्ति परस्परमत्सरा: ‘महायुद्ध' त्ति महायुद्धानि व्यवस्थाविहीनमहारणा: 'महासंगाम' त्ति सव्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः, महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः 'दुब्भूय' त्ति दुष्टाजनधान्यादीनामुपद्रवहेतुत्वतात्, भूताः-सत्वा : यूकामत्कुणोन्दुरतिड्डप्रभृतयो दूर्भूता ईतय इत्यर्थः।
१ अप्रतौ 'ग्रहमुशलानि २ अ प्रतौ 'चापाण्डुरेति'
३ अप्रतौ 'आदित्योदयास्तमनयो .....' क्वचित् 'आदित्योदयास्तमययो...... ४. अ. स प्रतौ 'आभियोगदेवषूत्पन्ना' इति
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org