SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति सन्नद्धाः - संनिहतिकया कृतसन्नाहाः, बद्धः कशाबद्धनतः, वर्मितश्च — वर्मीकृत: शरीरारोपणतः, कवच: कंकटो यैस्ते तथा, ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यञ्चारोपणेन शरासनपट्टिका — धनुर्यष्टिर्यैस्ते तथा अथवा उत्पीडिता - बाहौ बद्धा शरासनपट्टिका - धनुर्धरप्रतीता यैस्ते तथा, तथा पिनद्धं परिहितं ग्रैवेयकं — ग्रीवाभरणं यैस्ते तथा, तथा ग्रन्थिदानेन आविद्धश्च शिरस्यारोपणेन विमलो वरश्च चिह्नपट्टो - योधतासूचको नेत्रादिवत्ररूपः सौवर्णो वाट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीतान्यायुधानि -- क्षेप्यास्त्राणि, प्रहरणानि चतदितराणि यैस्ते तथा, 'त्रिनतानि मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, ‘त्रिसन्धितानि ' त्रिषु स्थानकेषु कृतसंधिकाि नैकांगिकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदत:मुष्टिस्थाने तिष्ठन्तीति सम्बन्धः, परिमात्रिक :- सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादिवर्णपुंखत्वान्नीलादयो बाणभेदाः संभाव्यन्ते, चारूचापपाणय इत्यत्र चापं -- धनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्मपाणय इत्यत्र चर्म्मशब्देन स्फुरकः उच्यते, दण्डादयः प्रतीताः, उक्तमेवार्थं संग्रहेणाह — 'नीलपीए' त्यादि, अथवा नीलादीन् सर्वानेव युगपत्केचिद्धारयन्ति देवशक्तेरिति दर्शयन्नाह — 'नीलपीए' त्यादि, ते चात्मरक्षा न संज्ञामात्रेणैवेत्याह- आत्मरक्षा: स्वाम्यात्मरक्षा इत्यर्थः त एव विशेष्यन्ते —– रक्षोपगता: रक्षामुपगताः सततप्रयुक्तरक्षा' इत्यर्थः, एतदेव कथमित्याह -- गुप्ताः अभेदवृत्तयः, तथा 'गुप्तपालीकार:' तदन्यतो व्यापृतमनोवृत्तिकाः मण्डलीका: युक्ताः परस्परसंबद्धाः युक्तपालीकाः निरन्तरमण्डलीका : प्रत्येकमेकैकशः समयतः - पदातिसमाचारेण विनयतो - विनयेन किंकरभूता इव - प्रेष्यत्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षाद् दृश्यत एवेति । ३/२४५ एवं सव्वेसिमिंदाणं ति एवमिति - चमरवत् सर्वेषामिन्द्राणां ते चार्थतः एवं सर्वेषामिन्द्राणां आत्मरक्षा वाच्या:, सामानिकचतुर्गुणा आत्मरक्षा:, तत्र चतुःषष्टिः सहस्त्राणि चमरस्येन्द्रसामानिकानां बलेस्तु षष्टिः शेषभवनपतीन्द्राणां प्रत्येकं षट्सहस्त्राणि शक्रस्य चतुरशीति: ईशानस्याशीतिः, सनत्कुमारस्य द्विसप्ततिः, माहेन्द्रस्य सप्तप्तिः, षष्टिः लान्तकस्य, पंचाशत् शुक्रस्य चत्वारिंशत् सहस्रारस्य, त्रिशंत् प्राणतस्य, विशंति: अच्युतस्य, दशसहस्राणि सामानिकानामिति । यदाह १. स प्रतौ सतत प्रयुक्त रक्षा' २. जीवाभिगमे वृत्तौ 'गुप्तपालिका' Jain Education Intemational ५०५ श. ३ : उ. ६ : सू. २४४- उ. ७ : सू. २५२ "चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥. चउरासीइ असीई बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्स त्ति । " ॥ तृतीयशते षष्ठोद्देशकः ॥ सप्तम उद्देशकः षष्ठोद्देशके इन्द्राणामात्मरक्षा उक्ताः। अथ सप्तमोद्देशके तेषामेव लोकापालान् दर्शयितुमाह ३ / २४७ 'राहगिहे ' इत्यादि ३/२४८ ‘बहूइं जोयणाई' इह यावत्करणादिदं दृश्यं -- 'बहूइं जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसयसहस्साइं बहूओ जोयकोडीओ बहूओ जोयणकोडाकोडीओ उड्डुं दूरं वीईवइत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अर्द्धचंदसंठाणसंठिए अच्चिमालिभासरासिवनाहे असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणवासयसहस्साइं भवन्तीति अक्खाया, ते णं विमाणा सव्वरयणामया अच्छा जीवा पडिरूवा ।' ३/२५० ‘तस्स णं सोहम्मकप्पस्स बहुमज्झदेसभाए' इति । 'वीईवइत्त' त्ति व्यतिव्रज्य व्यतिक्रम्य 'जा सूरियाभविमाणस्स' त्ति सूरिकाभविमानं राजप्रश्नीयोपांगोक्तस्वरूपं तद्वक्तव्यतेह वाच्या। तत्समानलक्षणत्वादस्येति, कियती सा वाच्या? इत्याह - 'यावदभिषेकः' अभिनवोत्पन्नस्य सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति । ३/२५१ 'अहे' इति तिर्यग्लोके 'वेमाणियाणं पमाणस्स' त्ति वैमानिकानां सौधर्मविमानसत्कप्रासाद-प्राकारद्वारादीनां प्रमाणस्येह नगर्यामर्द्ध ज्ञातव्यम् 'सेसा नत्थि' त्ति सुधर्मादि (का) सभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात् । ३/२५२ 'सोमकाइय' त्ति सोमस्य कायो – निकायो येषामस्ति ते सोमकायिका: – सोमपरिवारभूताः 'सोमदेवयकाइय' ति सोमदेवताः- तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः सोमसामानिकादिदेवपरिवारभूता इत्यर्थः । 'तारारूव' त्ति तारकरूपा: 'तब्भत्तिय' त्ति तत्र सोमे भक्ति: For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy