SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श. ३ : उ. ५ : सू. १९४ - उ. ६ : सू. २४४ पंचम उद्देशकः चतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमेऽपि तामेव विशेषत आह— ३ / १९४ 'अणगारे ण' मित्यादि 'असिचम्मपायं गहाय' त्ति असिचर्मपात्रं - स्फुरकः अथवाऽसिश्च – खड्गः चर्मपात्रं च - स्फुरकः खड्गकोशको असिचर्म्मपात्रं तद् गृहीत्वा ३/१९७ 'असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं' ति असिचर्म्मपात्रं हस्ते यस्य स तथा । कृत्यं - संघादिप्रयोजनं गतः - आश्रितः कृत्यगतः, ततः कर्मधारयः अतस्तेनात्मना अथवा असिचर्मपात्रं कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन प्राकृतत्वाच्चैवं समास: अथवा असिचर्मपात्रस्य हस्तकृत्यां - हस्तकरणं गतः - प्राप्तो यः स तथा तेन । ३/२०७ 'पलियंकं' ति आसनविशेषः प्रतीतश्च ३ / २०९ 'विग' त्ति वृकः 'दीविय' त्ति चतुष्पदविशेष: ' अच्छ' त्ति ऋक्षः 'तरच्छ' त्ति व्याघ्रविशेष: 'परास' त्ति सरभः इहान्यान्यपि शृगालादिपदानि वाचनान्तरे दृश्यन्ते । 'अभिजुंजित्तए' त्ति अभियोक्तुं विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच्च स्वस्थानुप्रवेशनेनाभियोजनं तद्विद्यादिसामर्थ्योपात्तबाह्यपुदगलान् विना न स्यादितिकृत्वोच्यते— 'नो बाहिरए पुग्गले अपरियाइत्त' त्ति। ३/२१६ 'अणगारे णं से' त्ति अनगार एवासौ तत्त्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात्। ५०४ ३/२१८ 'माई अभिजुंजइ' त्ति कषायवानभियुंक्ते इत्यर्थः अधिकृतवाचनायां 'माई विउव्वइ' त्ति दृश्यते । तत्र चाभियोगोऽपि विकुर्वणेति मन्तव्यं, विक्रियारूपत्वात्तस्येति । ३ / २१९ 'अण्णयरेसु' त्ति अभियोगिकदेवा भवन्तीतिअच्युतान्ता कृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः उत्पद्यते चाभियोगभावनायुक्तः साधुराभियोगिकदेवेषु करोति च विद्यादिलब्ध्युपजीविकोऽभियोगभावनां यदाह "मंता जोगं काउं भूईकम्मं च जे पउंजेति । सायरसइड्डिहेउं अभिओगं भावणं कुणइ ।। " - उत्तरज्झयणाणि ३६ / २६४ ३/२२१ 'इत्थी' त्यादिसंग्रहगाथा गतार्था । ॥ तृतीयशते पञ्चमोद्देशकः || Jain Education International षष्ठ उद्देशकः विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः तस्य चादिसूत्रम् — भगवती वृत्ति ३ / २२२ 'अणगारे ण' मित्यादि अनगारो गृहवासत्यागाद् भावितात्मा स्वसमयानुसारिप्रशमादिभिः मायीत्युपलक्षणत्वात्कषायवान्, सम्यग्दृष्टिरप्येवं स्यादित्याह – मिथ्यादृष्टिरन्यतीर्थिक इत्यर्थ: वीर्यलब्ध्यादिभिः करणभूताभिः 'वाणारसिं नगरिं समोहए' त्ति विकुर्वितवान्, राजगृहे नगरे रूपाणि पशुपुरुषप्रासादप्रतीनि जानाति पश्यति विभंगज्ञानलब्ध्या ३ / २२३ 'नो तहाभावं' ति यथा वस्तु यथा भावोभिसन्धिर्यत्र ज्ञाने तत्तथाभावं अथवा यथैव संवेद्यते तथैव भावो - बाह्य वस्तु यत्र तत्तथाभावं, अन्यथा भावो यत्र तदन्यथाभावं क्रियाविशेषणे चेमे स हि मन्यते ३ / २२४ अहं राजगृहं नगरं समवहतो वाराणस्यां रूपाणि जानामि पश्यामीत्येवं 'से' त्ति तस्यानगारस्येति 'से' त्ति असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदीयरूपाणामन्यदीयतया विकल्पितत्वात्, दिग्मोहादिव पूर्वामपि पश्चिमां मन्यमानस्येति, क्वचित् 'से से दंसणे विवरीए विवच्चासे' त्ति दृश्यते । तत्र च तस्य तद्दर्शनं विपरीतं क्षेत्रव्यत्ययेनेतिकृत्वा विपर्यासोमिथ्येत्यर्थः । ३/२२५-२२७ एवं द्वितीयसूत्रमपि । ३/२२८-२३० तृतीये तु वाणारसिं नगरिं रायगिहं च नगरं अंतराय एगं महं जणवयवग्गं समोहए' त्ति वाणारसी राजगृहं तयोरेव चान्तरालवर्त्तिनं जनपदवर्ग देशसमूहं समवहतो विकुर्व्वितवान् तथैव च तानि विभंगतो जानाति पश्यति केवलं नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति 'जसे' त्ति यशोहेतुत्वाद्यशः ३/२४०-२४४ ‘नगररूवं वा' इह यावत्करणादिदं दृश्यं - 'निगमरूवं वा रायहाणिरूवं वा खेडरूवं वा कब्बडरूवं वा मडंबरूवं वादोमुहरू वा पट्टणरूवं वा आगररूवं वा आसमरूवं वा संवाहरूवं व' त्ति विकुर्व्वणाधिकारात्तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि - ३ / २४४ 'वण्णओ' त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम् 'सन्नद्धबद्धवम्मियकवया - उप्पीलियसरासणपट्टिया पिणद्धगेवेज्जाबद्ध आबद्धविमलवरचिंधपट्टा गहियाउहपहरणा ति याणि ति-संधियाइं वयरामयकोडीणि धणूइं अभिगिज्झ पयओ परिमाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपीयरत्तचारुचावचम्मदंडखग्गपासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समयओ विणयओ किंकरभूया इव चिट्ठति' ति । अस्यायमर्थ: For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy