SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ५०३ श.३: उ. ४:सू.१७२-१९२ ३/१७२ 'बलाहए' त्ति मेघ: ‘परिणामेत्तए' त्ति बलाहकस्याजीवत्वेन विकुर्वणाया असंभवात् परिणामयितुमित्युक्तं परिणामश्चास्य विश्रसारूपः। ३/१७४ 'नो आयड्डीए' त्ति अचेतनत्वान्मेघस्य विवक्षिताया: शक्तेरभावान्नात्मा गमनमस्ति, वायना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते–'परिड्डीए' त्ति। ३/१७९ एवं 'पुरिसे आसे हत्थि' त्ति स्त्रीरूपसूत्रमिव पुरुषरूपाश्व रूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशेषोऽस्तीति तदर्शयति३/१८० 'पभू णं भंते! बलाहए एगं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छइ' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेष: पुनरयम्३/१८१ से भंते! किं एगओचक्कवालं दहओचक्कवालं गच्छइ? गोयमा! एगओचक्कवालंपि गच्छइ दुहओचक्कवालंपि गच्छइ' त्ति। अस्यैवोत्तररूपमंशमाह-नवरं 'एगओ' इत्यादि, इह यानं-शकटं, चक्रवालं-चक्रं, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात्, ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह३/१८२ 'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव' त्ति। परिणामाधिकारादिदमाह३/१८३ 'जीवे ण' मित्यादि, 'जे भविए' त्ति यो योग्य: "किंलेसेस' त्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किं लेश्येषु मध्ये, 'जल्लेसाई' ति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थ: 'परियाइत्त' त्ति पर्यादाय-परिगृह्य भावपरिणामेन कालं करोति म्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथा:"लेसाहिं सव्वाहि पढमे समयंमि परिणयाहिं तु। नो कस्सवि उववाओ परे भवे अस्थि जीवस्स। लेसाहिं सव्वाहि चरमे समयंमि परिणयाहिं तु। नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ।। अंतमुहुत्तंमि गए अंतमुहुत्तंमि सेसए चेव। लेस्साहिं परिणयाहिं जीवा गच्छंति परलोयं ।।" - उत्तरज्झयणाणि ३४/५८,५९,६० चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह–'एव' मित्यादि एवमिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स' त्ति असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्यासुरकुमारादेर्भणितव्येति। नन्वतावतैव विवक्षितार्थसिद्धेः किमर्थं भेदेनोक्तं जाव ३/१८४-१८५ जीवे णं भंते! इत्यादि? उच्यते, दण्डकपर्यवसान सूत्रदर्शनार्थम्। एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं, किन्तु ज्योतिष्कवैमानिका: प्रशस्तलेश्या एव भवन्तीत्यस्य दर्शनार्थं तेषां भेदेनाभिधानं, विचित्रत्वाद् वा सूत्रगतेरिति। देवपरिणामाधिकारादनगाररूपद्रव्यदेवपरिणामसूत्राणि३/१८६,१८७ 'बाहिरए त्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थ: 'वेभारं' ति वैभाराभिधानं राजगृहक्रीडापर्वतम्। उल्लंपित्तए वे' त्यादि तत्रोल्लंघनं सकृत् प्रल्लंघनं पुन: पुनरिति, ‘णो इणद्वे समढे' त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभावात् बाह्यपुद्गलपर्यादाने त् सति पर्वतस्योल्लंघनादौ प्रभुः स्यात्, महत: पर्वतातिक्रामिणः शरीरस्य संभवादिति। ३/१८८ 'जावइयाई इत्यादि यावन्ति रूपाणि पशुपुरुषादिरूपाणि 'एवइयाई' ति एतावंति 'विउविरा' त्ति वैक्रियाणि कृत्वा वैभारं पर्वतं समं सन्तं विषमं तु समं कर्तुमिति सम्बन्धः। किं कृत्वेत्याह-अन्त: मध्ये वैभारस्यैवान्प्रविश्य। ३/१९० 'मायी' त्ति मायावान् उपलक्षणत्वादस्य सकषाय: प्रमत्तः इति यावत्, अप्रमत्तो हि न वैक्रियं कुरुत इति। ३/१९१ "पणीय' त्ति प्रणीतं गलत्स्नेहबिन्दुकं 'भोच्चा भोच्चा वामेति' वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थं यथा प्रणीतभोजनं तद्वमनं च विक्रियास्वभावं मायित्वाद् भवति एवं वैक्रियकरणमपीति तात्पर्य 'बहलीभवन्ति' घनीभवन्ति, प्रणीतसामर्थ्यात् ‘पयणुए' त्ति अघनम् 'अहाबायर' त्ति यथोचितबादरा: आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन अन्यथा शरीरस्य दायासंभवात्, 'लूह' ति रूक्षम् अप्रीणितं 'नो वामेइ' त्ति अकषायितया विक्रियायामनर्थित्वात्, 'पासवणत्ताए' इह यावत्करणादिदं दृश्यम् – खेलत्ताए सिंघाणत्ताए वंतत्ताए पित्तताए पूयत्ताए' त्ति रूक्षभोजिन उच्चारादितयैवाहारादिपुद्गलाः परिणमन्ति अन्यथा शरीरस्यासारताऽनापत्तेरिति। अथ माय्यमायिनो: फलमाह३/१९२ 'माई ण' मित्यादि 'तस्स ठाणस्स' ति तस्मात्स्थानाद्विकर्वणा करणलक्षणात्प्रणीतभोजनलक्षणाद् वा! 'अमाई ण' मित्यादि, पूर्वं मायित्वाद् वैक्रियं प्रणीतभोजनं वा कृतवान् पश्चाज्जातानुतापोऽमायी सन् तस्मात्स्थानादालोचितप्रतिकान्तः सन् कालं करोति यस्तस्यास्त्याराधनेति। ॥ तृतीयशते चतुर्थोद्देशकः।। १. अंगसुत्ताणौ 'माई विकुव्वई' त्ति Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy