________________
श. ३ : उ. ३ : सू. १५२- उ. ४: सू. १७०
वाय्वादियुक्तत्रिभागवन्तः सन्ति तदीयवातविक्षोभवशाज्जलवृद्धिहानी अष्टम्यादिषु स्यातां, तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भ: षोडशः उच्छ्रयो योजनार्द्धमुपरि वृद्धिहानी इत्यादि। अथ कस्माल्लवणो जम्बूद्वीपं नोत्प्लावयति ? अर्हदादिप्रभावाल्लोकस्थितिर्वेषा इति । एतदेवाह - 'लोयट्ठिइ' त्ति लोकव्यवस्था 'लोयाणुभावे' त्ति लोकप्रभाव इति । ।। तृतीयशते तृतीयोद्देशकः । ।
चतुर्थ उद्देशकः
अनन्तरोद्देशके क्रियोक्ता, सा च ज्ञानवतां प्रत्यक्षेति तमेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाहतस्य चेदं सूत्रम्
३ / १५४ 'अणगारे ण' मित्यादि, तत्र 'भावियप्प' त्ति भावितात्मा संयमतपोभ्याम् एवंविधानामनगाराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्तीति कृत्वा भावितात्मेत्युक्तम्। 'विउव्वियसमुग्धाएणं समोहयं' ति विहितोत्तरवैक्रियशरीरमित्यर्थः । 'जाणरूवेणं' ति यानप्रकारेण शिबिकाद्याकारवता वैक्रियविमानेनेत्यर्थः । 'जामाणं' ति यान्तं गच्छन्तम् । 'जाणइ' त्ति ज्ञानेन 'पास' त्ति दर्शनेन ? उत्तरमिह चतुर्भंगी, विचित्रत्वादवधिज्ञानस्येति ।
३/१५६ 'अंतो' त्ति मध्यं काष्ठसारादि 'बाहिं' ति बहिर्वर्त्ति त्वक्पत्रसंचयादि । ३/१५८-१६३ ‘एवं मूलेण' मित्यादि 'एव' मिति मूलस्कन्दसूत्राभिलापेन
मूलेन सह कन्दादिपदानि वाच्यानि यावद्बीजपदम् । तत्र मूलं १ कन्दरः स्कन्ध३ : त्वक्४ शाखा५ प्रवालं६ पत्रं७ पुष्पं फलं९ बीजं १० चेति दशपदानि । एषां च पंचचत्वारिंशद्द्विकसंयोगाः एतावन्त्येवेह चतुर्भंगीसूत्राण्यध्येयानीति। एतदेव दर्शयितुमाह - ' एवं कंदेण वी' त्यादि
चौभंगी यंत्र
१. मूल कंद २. मूल-स्कन्ध ३. मूल- त्वचा ४. मूल - शाखा ५. मूल-प्रवाल ६. मूल-पत्र ७. मूल-पुष्प ८. मूल-फल ९. मूल-बीज
१. कंद - स्कन्ध २. कंद - त्वचा ३. कंद- शाखा ४. कंदप्रवाल ५. कंद - पत्र ६. कंद- पुष्प ७. कंद-फल ८. कंदबीज
१. स्कंध - त्वचा २. स्कन्ध-शाखा ३. स्कन्ध- प्रवाल ४. स्कन्धपत्र ५. स्कन्ध- पुष्प ६. स्कन्ध-फल ७. स्कन्ध-बीज
१. त्वचा शाखा २. त्वचा - प्रवाल ३. त्वचा-पत्र ४. त्वचा
१. अ प्रतौ विक्रियावत्
५०२
Jain Education Intemational
पुष्प ५. त्वचा - फल ६ त्वचा - बीज
१. शाखा- प्रवाल २ शाखा पत्र ३ शाखा पुष्प ४. शाखाफल ५. शाखा- बीज
१. प्रवाल- पत्र २. प्रवाल- पुष्प ३ प्रवाल- फल ४. प्रवाल- बीज १. पत्र- पुष्प २. पत्र - फल ३ पत्र - बीज
१. पुष्प - फल २. पुष्प - बीज
१. फल- बीज
'देवं विउव्वियसमुग्धाएणं समोहयं' ति प्रागुक्तमतो वैक्रियाधिकारादिदमाह
३ / १६४ 'पभूण' मित्यादि 'जाणं' ति शकटं 'जुग्गं' ति गोल्लविषयप्रसिद्धं जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गिल्ली' त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । 'थिल्लि' त्ति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते 'सिय' त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेष:, 'संदमाणिय' त्ति पुरुषप्रमाणायामो जम्पानविशेषः । ' एगं महं पडागासंठियं' ति महत् पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिति ।
३ / १६६ 'आइड्डिए' त्ति आत्मर्द्धाय स्वशक्त्या स्वलब्ध्या वा ३/१६७ 'आयकम्मुण' त्ति आत्मक्रियया
३/१६८ 'आयप्पओगेणं' ति न परप्रयुक्त इत्यर्थः 'ऊसिओदयं त उच्छृत — ऊद्धर्वम्, उदय — आयामो यत्र गमने तदुच्छ्रितोदयम् ऊर्ध्वपताकमित्यर्थः क्रियाविशेषणं चेदम्। 'पतोदयं' पतदुदयं - पतितपताकं गच्छति, ऊर्ध्वपताका स्थापना चेयम्
पतितपताकास्थापना त्वियम्
भगवती वृत्ति
३ / १७० 'एगओपडागं' ति एकत: - एकस्यां दिशि पताका यत्र तदेकतः पताकं स्थापनात्वियम्
'दुहओपडागं' ति द्विधापताकं स्थापना त्वियम्
रूपान्तरक्रियाधिकाराद्बलाहकसूत्राणि -
For Private & Personal Use Only
www.jainelibrary.org