________________
भगवती वृत्ति
५०१
श.३ : उ.३: सू.१४८-१५२
३/१४८ ‘से जहा' इत्यादि 'तणहत्थयं' ति तृणपूलकं 'जायतेयंसि'
त्ति वह्यौ । 'मसमसाविज्जइ' त्ति शीघ्रं दह्यते। इह च दृष्टान्तद्वयस्याप्युपनयनार्थ: सामर्थ्यगम्यो, यथा एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाह्यदहनं स्यादिति। अथ निःक्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-'से जहाणामए' इत्यादि, इह शब्दार्थः प्राग्वत्रवरम् 'उद्दाइ' त्ति उद्याति जलस्योपरि वर्त्तते 'अत्ततासंवुडस्स' ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थ, एतदेव ‘इरियासमियस्से 'त्यादिना प्रपंचयति-'आउत्तं' ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'चक्खुपम्हनिवायमवि' त्ति किंबहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन? यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिंगव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमनादिका तावदिति शेषः। 'वेमाय' त्ति विविधमात्रा, अन्तर्मुहूर्तादेर्देशोनपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात्, वृद्धा: पुनरेवमाहुः-यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने 'सपेहाए' त्ति दृश्यते तत्र च स्वप्रेक्षया स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृत: 'सुहम' त्ति सूक्ष्मबन्धादिकाला। 'ईरियावहिय' त्ति ईर्यापथोगमनमार्गस्तत्र भवा ऐर्यापथिकी केवलयोगप्रत्ययेति भावः। 'किरिय' त्ति कर्मसातवेदनीयमित्यर्थः ‘कज्जइ' ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगीकेवलिलक्षणगुणस्थानकत्रयवर्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बघ्नातीति भावः। 'से ति ईर्यापथिकी क्रिया ‘पढमसमयबद्धपटु' त्ति बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेश: स्पर्शनात्तत: कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्य: परिशाटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति? वेदिता, न होकस्मिन् समये बन्ध उदयश्च संभवतीत्येव व्याख्यातम्। तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले ति एष्यत्काले 'अकम्मं वावि' ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्म अकर्म भवति तथाऽपि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीणं कमेंति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति 'अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तं—यदि संयतोऽपि साश्रव: कर्म बध्नाति तदा सुतरामसंयतः, अनेन च जीवनाव: कर्मजलपूर्यमाणतयार्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः,
तथा च जीवनावोऽनाश्रवतायामूर्ध्वगमनं सामर्थ्यादुपनीतमवसेयमिति। अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य
कालतो निरूपयन्नाह३/१४९ ‘पमत्ते' त्यादि 'सव्वावि य णं पमत्तद्ध, ति सर्वाऽपि च
सर्वकालसंभवाऽपि च प्रमत्ताद्वा प्रमत्तगुणस्थानककालः कालत: प्रमत्ताद्वासमूहलक्षणं कालमाश्रित्य 'कियच्चिरं' कियन्त कालं यावद् भवतीति प्रश्न: ननु कालत इति न वाच्यं कियच्चिरमित्यनेनैव गतार्थत्वात्, नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात्, भवति हि क्षेत्रत: कियच्चिरमित्यपि प्रश्नः' यथाऽवधिज्ञानं क्षेत्रत: कियच्चिरं भवति? त्रयस्त्रिंशत्सागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति, 'एक्कं समयं' ति कथम्? उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात्। 'देसूणा पुव्वकोडि' ति किल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमत्तान्तर्मुहूर्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते। एवं चान्तर्मुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी कालमानं भवति। अन्ये त्वाह:-अष्टवर्षोनां पूर्वकोटि
यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति। ३/१५० एवमप्रमत्तसूत्रमपि, नवरं 'जहन्नेणं अंतोमुहुत्तं' ति किल
अप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्त्तमध्ये मृत्युर्न भवतीति। चूर्णिकारमतं तु प्रमत्तसंयतवर्ज: सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात्। स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति । देशोनपूर्वकोटी तु केवलिनमाश्रित्येति। ‘णाणाजीवे पडूच्च सव्वद्ध' मित्युक्तम्।
अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह३/१५२ 'भंते! त्ति' इत्यादि ‘अतिरेग' ति तिथ्यन्तरापेक्षया
अधिकतरमित्यर्थः 'लवणसमद्दवत्तव्वया-नेयव्व' ति जीवाभिगमोक्ता, कियद्दरं यावदित्याह-'जाव लोयट्ठी' त्यादि. सा चैवमर्थत:-कस्माद् भदन्त! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते वा? इह प्रश्ने उत्तरंलवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुर्मध्यमे वायुदके उपरितने तूदकमिति। तथाऽन्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसंख्या
१. स प्रतौ तथापि च। अ प्रतौ तथा च २.स प्रतौ स्तोकया मात्रया ३. अ. स. प्रतौ न ह्येकस्मिन् समये उदीरणा उदयश्च संभवतीति
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org