________________
श.३ : उ.३ : सू.१३४-१४६
५००
भगवती वृत्ति
'पाणातिवायकिरिय' त्ति प्राणातिपात:--प्रसिद्धस्तद्विषया
क्रिया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया। ३/१३५ 'अणुवरयकायकिरिया य' ति अनुपरत:-अविरतस्तस्य
कायक्रियाऽनुपरतकायक्रिया, इयमविरतस्य भवति। 'दुप्पउत्तकायकिरिया य' त्ति दुष्टं प्रयुक्तो दुःप्रयुक्तः स चासौ कायश्च दुःप्रयुक्तकायस्तस्य क्रिया दुःप्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमत: प्रमादे सति कायदुष्ट
प्रयोगस्य सद्भावात्। ३/१३६ 'संजोयणाहिगरणकिरिया य' त्ति संयोजनं- हलगरविष
कूटयंत्राद्यंगानां पूर्वनिर्वर्तितानां मीलनं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया। 'निव्वत्तणाहिगरणकिरिया य' त्ति निवर्तनम्-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया
निर्वर्तनाधिकरणक्रिया। ३/१३६ 'जीवपाओसिया य' त्ति जीवस्य-आत्मपरतदुभयरूपस्योपरि
प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा। 'अजीवपाउसिया य'
त्ति अजीवस्योपरि प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा। ३/१३८ 'सहत्थपारितावणिया य' ति स्वहस्तेन स्वस्य परस्य तदुभयस्य
वा परितापनाद्-असातोदीरणाद् या क्रिया परितापनाकरणमेव
वा सा स्वहस्तपारितापनिकी एवं परहस्तपारितापनिक्यपि। ३/१३९ एवं प्राणातिपातक्रियाऽपि। उक्ता क्रिया।
अथ तज्जन्यं कर्म तवेदनां चाधिकृत्याह३/१४० 'पुन्नि भंते!' इत्यादि क्रिया-करणं तज्जन्यत्वात्कर्मापि
क्रिया, अथवा क्रियत इति क्रिया कर्मैव, वेदना तु कर्मणोऽनुभव:, सा च पश्चादेव भवति, कर्मपूर्वकत्त्वात्तदनुभवनस्येति।
अथ क्रियामेव स्वामिभावतो निरूपयन्नाह--- ३/१४१ 'अत्थि ण' मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते
क्रिया भवति। ३/१४२ प्रमादप्रत्ययात् यथा दुःप्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं
च यथा ऐापथिकं कर्म।
क्रियाधिकारादिदमाह३/१४३ 'जीवे ण' मित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः
अयोगस्यैजनादेरसंभवात्। 'सदा नित्यम्। 'समियं' ति सप्रमाणम्। 'एयइ' त्ति एजते-कम्पते 'एजु कम्पने' इति वचनात्।
वेयइ' त्ति 'व्येजते' विविधं कम्पते। 'चलइ' त्ति स्थानान्तरं गच्छति। ‘फंदइ' ति स्पंदते किंचिच्चलति 'स्पदि किंचिच्चलने' इति वचनात् अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये।
'घट्टई' त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति। 'खुबभइ' त्ति क्षुभ्यति पृथिवीं प्रविशति, क्षोभयति वा पृथिवीं बिभेति वा। 'उदीरइ' ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा। शेषक्रियाभेदसंग्रहार्थमाह-'तं तं भावं परिणमइ' त्ति उत्क्षेपणावक्षेपणाकञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः। एषां चैजनादिभावानां क्रमभावित्वेन सामान्यत: सदेति मन्तव्यं
न तु प्रत्येकापेक्षया, क्रमभाविनां युगपद्भावादिति। ३/१४४ 'तस्स जीवस्स 'अंते' त्ति मरणांते 'अंतकिरिय' त्ति
सकलकर्मक्षयरूपा। ३/१४५ 'आरभइ' त्ति आरभते पृथिव्यादीनपद्रवयति। 'सारभइ' त्ति
संरभते तेषु विनाशसंकल्पं करोति, 'समारभइ' त्ति समारभते तानेव परितापयति, आह च"संकप्पो संरंभो परितावकरो भवे समारंभो। आरंभो उद्दवओ सव्वनयाणं विसुद्धाणं॥" इदं च क्रियाक्रियावतो कथंचिभेद इत्यभिधानाय तयो. समानाधिकरणत: 'सूत्रमुक्तम् । अथ तयोः कथंचिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह—'आरंभे' इत्यादि आरंभे—अधिकरणभूते वर्त्तते जीव:, एवं संरम्भे समारंभे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनमाह-आरंभमाण: संरभमाण: समारंभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदित: आरंभे वर्तमान इत्यादिना तु द्वितीयः ‘दुक्खावणयाए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्त्वात् 'दु:खापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादि दुःखहेतुप्रापणायां वर्तत इति योगः। तथा 'शोकापनायां' दैन्यप्रापणायाम्। 'जूरावणयाए' त्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायाम्। 'तिप्पावणयाए' त्ति तेपापनायां 'तिपृष्टेप क्षरणार्थी' इति वचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां 'पिट्टावणयाए' त्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्त्तते, क्वचित् पठ्यते 'दुक्खणयाए' इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते। तत्र 'किलामणयाए' त्ति ग्लानिनयने 'उद्दावणयाए' त्ति उत्त्रासने ।।
उक्तार्थविपर्ययमाह३/१४६ ‘जीवे ण' मित्यादि। ‘णो एयई' त्ति शैलेशीकरणे योगनिरोधान्नो
एजत इति। एजनादिरहितस्तु नारंभादिषु वर्त्तते तथा च न
प्राणादीनां दुःखापनादिषु। ३/१४६ तथाऽपि योगनिरोधाभिधानशक्लध्यानेन सकलकर्मध्वं
सरूपाऽन्तक्रिया भवति तत्र दृष्टान्तद्वयमाह----
१. स प्रतौ चक्ररथखड्गादि
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org