________________
भगवती वृत्ति
४९९
श.३: उ.२ः सू.१२१-उ.३: सू.१३४
गतिक्षेत्रं तस्य विभागमात्ररूपं चमरस्योर्ध्वगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्ध्वक्षेत्राधोगतिक्षेत्रयोश्चापान्तरालवर्ति तिर्यक्षेत्रमितिकृत्वा विभागद्वयन्यूनषड्गव्यूतमानं तद्व्याख्यातमिति। यच्च चूर्णिकारेणोक्तं 'चमरो उड़े जोयण'
मित्यादि, तनावगतम्। ३/१२२ 'वज्जं जहा सक्कस्स तहेव' त्ति वज्रमाश्रित्य गतिविषय
स्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थं त्वाह-'नवरं विसेसाहियं कायव्वं' ति, तच्चैवम्-वज्जस्स णं भंते! उड्डे अहे तिरियं च गइविसयस्स कयरे कयरेहितो अप्पं वा बहं वा? गोयमा! सव्वत्थोवं खेत्तं वज्जे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागे गच्छइ उ8 विसेसाहिए भागे गच्छइ' त्ति वाचनान्तरे तु एतद्साक्षादेवोक्तमिति। अस्यायमर्थ:-सर्वस्तोकं क्षेत्रं वज्रमधो व्रजत्येकेन समयेन, अधो मंदगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यूनं योजनं, तिर्यक् च विशेषाधिकौ भागौ गच्छति, शीघ्रतरगतित्वात्। तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिकौ सत्रिभागं गव्यूतत्रयमित्यर्थः। तथा ऊर्ध्वं विशेषाधिकौ भागौ गच्छति, यौ किल तिर्यविशेषाधिको भागौ गच्छति, तावेवोर्ध्वगतौ किंचिद्विशेषाधिकौ, ऊर्ध्वगतौ शीघ्रतमगतित्वात्परिपूर्ण योजनमित्यर्थः। अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियतभागत्वं व्याख्यायते? उच्यते 'जावइयं चमरे असुरिंदे असुरराया अहे ओवयइ एक्केणं समएणं तावइयं सक्के दोहिं जं सक्के दोहिं तं वज्जे तिहिं' ति वचनसामर्थ्याच्छक्राधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यूनं योजनमिति सा व्याख्या। तथा 'सक्कस्स ओवयणकाले वज्जस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले' इति वचनादवसीयते यावदेकेन समयेन शक्रोऽधो गच्छति तावद्वज्रमज़, शक्रश्चैकेनाध: किल योजनं एवं वज्रमूर्ध्वं योजनमिति कृत्वा ऊर्ध्वं योजनं तस्योक्तम्, ऊर्ध्वाधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवत्त्येव सत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति अनन्तरगतिविषयस्य क्षेत्रस्याल्पबहत्वमुक्तं, अथ गतिकालस्य
तदाह३/१२३-१२५ ‘सक्कस्स ण' मित्यादि सूत्रत्रयम्। शक्रादीनां गतिकालस्य
प्रत्येकमल्पबहुत्वमुक्तम्।
अथ परस्परापेक्षया तदाह - ३/१२६ 'एयस्स णं भंते! वज्जस्से' त्यादि ‘एए णं बेण्णिवि तुल्ल'
त्ति शक्रचमरयोः स्वस्थानगमनं प्रति वेगस्य समत्वादुत्पतनावपतनकालौ तयोस्तुल्यौ परस्परेण, 'सव्वत्थोव' त्ति वक्ष्यमाणापेक्षयेति, तथा 'सक्कस्से' त्यादौ 'एस णं दोण्हवि तुल्ले'
त्ति उभयोरपि तुल्यः शक्रावपतनकालो वज्रोत्पातकालस्य तुल्य: वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः । 'संखेज्जगुणे' त्ति शक्रोत्पातचमरावपातकालापेक्षया।
एवमनन्तरसूत्रमपि भावनीयम्। ३/१२६ 'ओहयमणसंकप्पे' त्ति उपहतो-ध्वस्तो मनस: संकल्पो -
दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा 'चिंतासोगसागरमणुपविढे' ति चिन्ता-पूर्वकृतानुस्मरणं शोकोदैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे' त्ति करतले पर्यस्तम्-अधोमुखतया न्यस्तं मुखं येन स
तथा। ३/१२९ 'जस्सम्हि पभावेणं' ति यस्य प्रभावेण इहागतोऽस्मि
भवामीति योगः, किंभूतः सन्नित्याह 'अकिट्टे' त्ति अकृष्टः अविलिखित: अक्लिष्टो वा-अबाधितो निवेदनमित्यर्थः, एतदेव कथमित्याह-'अव्वहिए' त्ति अव्यथितः, अताडित: अताडितत्वेऽपि ज्वलनकल्पकुलिशसत्रिकर्षात्परिताप: स्यादतस्तं निषेधयन्नाह-'अपरिताविए' त्ति, 'इहमागए' त्यादि विवक्षया पूर्ववद्व्याख्येयम् ‘इहेव अज्जे' त्यादि इहैव स्थाने अद्य अस्मिन्नहनि उपसंपद्य प्रशान्तो भूत्वा विहरामीति । पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः।
अथ तत्रैव हेत्वन्तराभिधानायाह३/१३१ 'किं पत्तियं ण' मित्यादि तत्र 'किं पत्तियं' ति कः प्रत्ययः
कारणं यत्र तत् किं प्रत्ययम् 'अहुणोववण्णाणं' ति उत्पन्नमात्राणाम्। चरिमभवत्थाण व त्ति भवचरमभागस्थानाम्? च्यवनावसर इत्यर्थः।
।। तृतीयशते द्वितीयोद्देशकः ।।
तृतीय उद्देशकः द्वितीयोद्देशके चमरोत्पात उक्तः स च क्रियारूप: अतः
क्रियास्वरूपाभिधानाय तृतीयोद्देशक: ३/१३३ 'तेणं कालेण' मित्यादि। ३/१३४ तत्र 'पंच किरियाओ' त्ति करणं क्रिया कर्मबन्धनिबन्धना
चेष्टेत्यर्थः। 'काइय' ति चीयत इति, काय:-शरीरं तत्र भवा तेन वा निर्वत्ता कायिकी, 'अहिगरणिय' ति अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणम्-अनुष्ठानविशेष:। बाह्यं वा वस्तु चक्रखड्गादि । तत्र भवा तेन वा निर्वृत्ता इत्याधिकरणिकी। ‘पाउसिय' ति प्रद्वेषो-मत्सरस्तत्र भवा तेन वा निर्वृत्ता स एव वा प्राद्वेषिकी। ‘पारितावणिय' त्ति परितापनं परिताप:पीडाकरणं तत्र भवा तेन वा निर्वत्ता तदेव वा पारितापनिकी।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org