SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ श. ३ : उ. २ : सू. ११६-१२१ अथवा हे आर्य! पापकर्मबहिर्भूत! आर्य! वा स्वामिन्! 'उवसंपज्जित्ता णं' ति 'उपसंपद्य' उपसंपन्नो भूत्वा 'विहरामि' वर्त्ते 'नाइभुज्जो' ति नैव भूयः 'एवं पकरणयाए' त्ति एवं प्रकरणतायां वर्त्तिष्य इति शेषः, 'दाणिं' ति इदानीं साम्प्रतमित्यर्थः । इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावद्ग्रहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्नोति ? येन शक्रेण वज्रं क्षिप्तं संहृतं च तथा वज्रं चेद् गृहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः । प्रस्तावनोपेतं प्रश्नोत्तरमाह ३/११८ ‘भंते! इत्यादि, ‘सीहे' त्ति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह— 'सीहगई चेव' त्ति शीघ्रगतिरेव नाशीघ्रगतिरपि एवं भूतश्च कायापेक्षयाऽपि स्यादत आह- 'तुरिय' त्ति त्वरितः त्वरावान्, सच गतेरन्यत्रापि स्यादित्यत आह- 'तुरियगइ' त्ति 'त्वरितगतिः मानसौत्सुक्यप्रवर्त्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः । ३ / ११९ 'संचाइए' त्ति शकित: 'साहित्थिं' ति स्वहस्तेन । 'गइविसए' त्ति इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहे सीहे चेव' त्ति शीघ्रो वेगवान्, स चानैकान्तिकोऽपि स्यादित्याह --'सीहे' चेव त्ति शीघ्र एव एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाहत्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे देव' त्ति अतिशयेनाल्पोऽतिस्तोक इत्यर्थः । 'मंदे मंदे चेव' त्ति अत्यन्तमन्दः एतेन च देवानां गतिस्वरूपमात्रमुक्तम् । एतस्मिंश्च गतिस्वरूपे सति शक्रवज्रचमराणामेकमाने ऊर्ध्वादौ क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह - 'जावइय' मित्यादि अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह - 'सव्वत्थोवे सक्कस्से' त्यादि 'सर्वस्तोकं' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने कण्डकं— कालखण्डम् ऊर्ध्वलोककण्डकम् ऊर्ध्वलोकगमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं-कालखण्डमधोलोककण्डकं संख्यातगुणम् ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः । अधोलोकगमने शक्रस्य मंदगतित्वात्, द्विगुणत्वं च 'सक्कस्स उप्पयणकाले चमरस्स य ओवयण'काले एएणं दोण्णिवि तुल्ला' तथा 'जावतियं खेत्तं' चमरे असुरिंदे असुरराया अहे ओवयइ इक्केणं समएणं तं सक्के दोहिं' ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय' मित्यादिसूत्रद्वयमधः क्षेत्रापेक्षं पूर्वदद् व्याख्येयम् एवं खलु इत्यादि च निगमनम्। अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह १. अप्रतौ प्रश्तावेनोपेतं Jain Education Intemational. ४९८ भगवती वृत्ति ३ / १२० 'सक्कस्से' त्यादि, तत्र ऊर्ध्वमधस्तिर्यक् च यो गतिविषयोगतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः कतरस्माद्गतिविषयात्सकाशादल्पादि : ? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधः क्षेत्रं समयेनावपतति, अधो मंदगतित्वाच्छक्रस्य । 'तिरियं संखेज्जे भागे गच्छइ' 'ति' कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः संख्येया भागा भवन्ति, अतस्तान् तिर्यग् गच्छति, सार्द्धयोजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात् 'उड्डुं संखेज्जे भागे गच्छइ' यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः संख्यातभागाः संभवन्ति अतस्तान् ऊर्ध्वं गच्छति' अथ कथं सूत्रे संख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते ? उच्यते 'जावइयं खेत्तं चमरे असुरिंदे असुरराया अहे ओवयइ एक्केणं समएणं तं सक्के दोहिं' तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एतेणं वि दो (वि) ण्णिवि तुल्ला' इति वचनतो निश्चीयते शक्रो यावदधो द्वाभ्यां समयाभ्यां गच्छति तावदूर्ध्वमेकेनेति द्विगुणमध: क्षेत्रादूर्ध्वक्षेत्रम्, एतयोश्चापान्तरालवर्त्ति तिर्यक्क्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधः क्षेत्रापेक्षया तिर्यक्क्षेत्रं सार्द्धं योजनं भवतीति व्याख्यातम् । आह च चूर्णिकारः 'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरियं दिवङ्कं गच्छइ, उड्ड दो जोयणाणि सक्को त्ति'। ३/१२१ ‘चमरस्स ण' मित्यादि 'सव्वत्थोवं खेत्तं चमरे असुरिंदे असुरराया उड् उप्पयइ एक्केणं समएणं' ति ऊर्ध्वगतौ मंदगतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यूनं गव्यूतत्रयं ‘तिरियं संखेज्जे भागे' त्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यूतत्रये द्विगुणिते ये योजनस्य संख्येया भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेज्जे भागे गच्छइ' ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते ये संख्येयभागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः । अथ कथं संख्यातभागमात्रोपादाने नियतसंख्येयभागत्वं व्याख्यायते ? उच्यते शक्रस्योर्ध्वगतेश्चमरस्य चाधोगतेः समत्वमुक्तं शक्रस्य चोर्ध्वगमनं समयेन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयं सक्के देविंदे देवराया उ उप्पयइ एगेणं समएणं तं वज्जं दोहिं जं वज्जं दोहिं तं चमरे तिहिं ति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्ध्वं For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy