SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ४९७ श.३ : उ.२.सू.१०९-११६ बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सयक्कडं' ति शतं क्रतूनां--प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपंचमप्रतिमारूपाणां वा, कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुरतस्तं 'सहस्सक्खं' ति सहस्रमक्षणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मंत्रिणां पंच शतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रयोजनव्याप्ततया इन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्त्राक्षत्वमिति 'पुरंदरं' ति असुरादिपुराणां दारणात् पुरन्दरस्तं 'जाव दस दिसाओ' त्ति इह यावत्करणात् 'दाहिणड्डलोगाहिवई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणं सुरिंदं अरयंबरवत्थधरं' अरजांसि च तानि अम्बरवस्त्राणि च तानि स्वच्छतयाऽऽकाशकल्पवसनानि अरजोऽम्बरवस्त्राणि तानि धारयति य: स तथा तम्, 'आलाइयमालमउडं' आगलितमालं मुकुटं यस्य स तथा तं 'नवहेम-चारुचित्तचंचल-कुण्डलविलिहिज्जमाणगंडं' नवाभ्यामिव हेम्न: सत्काभ्यां चारुचित्राभ्यां चंचलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा तम्, इत्यादि तावद् वाच्यम् 'जाव दिव्वेणं तेएणं दिव्वाए लेसाए' त्ति अथ यत्र यत्परिवारं यत्कुर्वाणं च तं पश्यति तथा दर्शयितुमाह'सोहम्मे' त्यादि 'अपत्थियपत्थए' त्ति अप्रार्थितं प्रार्थयते यः स तथा। 'दुरंतपंतलक्खणे' ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथि: पुण्या जन्माश्रित्य भवति, सा च पूर्णा अत्यन्तभाग्यवतो जन्मनि भवति। आक्रोशता उक्तं-हीणपुण्णचाउद्दसे' त्ति 'जण्णं ममं त्ति मम 'अस्याम्' एतद्पायां दिव्यायां देवर्द्ध तथा दिव्यायां देवद्युतौ सत्यां तथा दिव्ये देवानुभागे लब्धे प्राप्ते अभिसमन्वागते सति 'उप्पिं' ति ममैव अप्पुस्सुए' ति अल्पौत्सुक्यः। ३/१११ 'अच्चासाइत्तए' ति 'अत्याशातयित्' छायाया भ्रंशयितमिति। 'उसिणे' त्ति उष्ण: कोपसन्तापात् , कोपसन्तापजं चोष्णत्वं कस्यचित्स्वभावतोऽपि स्यादित्याह-'उसिणभूए' त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः। ३/११२ ‘एगे' त्ति सहायाभावात, एकत्वं च बहुपरिवारभावेऽवि विवक्षितसहायाभावाद् व्यवहारतो भवतीत्यत आह–'अबिइए' त्ति अद्वितीयो डिम्बरूपमात्रस्यापि द्वितीयस्याभावादिति। 'एगं महं' ति एका महतीं बोन्दीमिति योग: 'घोरं, ति हिस्रां, कथम्? यतो 'घोराकारां' हिस्राकृतिं 'भीमं ' ति 'भीमां' विकरालत्वेन भयजनिकां कथम्? यतो 'भीमाकारां भयजनकाकृतिं 'भासुरं' ति भास्वरां 'भयाणीयं' ति भयमानीतं यया सा भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्वादनीकंतत्परिवार-भूरामुल्कास्फुलिंगादि सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीर' ति गंभीरां विकीर्णावयवत्वात् 'उत्तासणयं' ति उत्त्रासनिकां 'त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकाम्। 'महाबोंदि' ति महाप्रभावतनुम् 'अप्फोडेइ' त्ति करास्फोटं करोति ‘पायदद्दरगं' ति भूमेः पादेनास्फोटनम् ‘उच्छोलेइ' त्ति अग्रतोमुखां चपेटां ददाति 'पच्छोलेइ' त्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदइ' ति मल्लं इव रंगभूमौ त्रिपदीच्छेदं करोति। 'ऊसवेइ' त्ति उच्छृतं करोति 'विडंबेइ' त्ति विवृतं (विकृतं) करोति 'साकदंतेव' त्ति समाकर्षयत्रिव 'विउब्भाएमाणे' त्ति व्युभ्राज-मान:-शोभमानो विजृम्भमाणो वा व्युद्धाजयन् वाऽम्बरतले परिघरत्नमिति योगः। 'इंदकील' त्ति गोपुरकपाटयुगसन्धिनिवेश-स्थानम् । ३/११३ 'नाहि ते' त्ति नैव तव। ‘फुलिंगजाले' त्यादि स्फुलिंगानां ज्वालानां च या मालास्तासां च यानि सहस्राणि तानि तथा तै:, चक्षुर्विक्षेपश्च-चक्षुर्धम: दृष्टिप्रतिघातश्च-दर्शनाभाव: चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत्, अपि विशेषणसमुच्चये 'हतवहे' त्यादि हुतवहातिरेकेण यत्तेजस्तेन दीप्यमानं यत्तत्तथा 'जइणवेगं' ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'महब्भयं' ति महतां भयमस्मादिति महद्भयं, कस्मादेवमित्यत आह—'भयंकर' भयकर्तृ। ३/११४. 'झियाइ' ति ध्यायति, किमेतदिति चिन्तयति, यथा 'पिहाइ' त्ति स्पहयति यद्येवंविधं प्रहरणं ममापि स्यादित्येवं तदभिलषति, स्वस्थानगमनं वाऽभिलषति, अथवा 'पिहाइ' ति अक्षिणी पिधत्ते-निमीलयति, 'पिहाइ झियाइ' त्ति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता , 'तहेव' त्ति तथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः 'संभग्गमउडविडवे' त्ति संभग्नो मकटविटप: शेखरकविस्तारो यस्य स तथा। 'सालंबहत्थाभरणे' त्ति सह आलम्बन–प्रलम्बेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि-यस्याधोमुखगमनवशादसौ सालम्बहस्ताभरणः, 'कक्खागयसेयंपिव' ति भयातिरेकात्कक्षागतं स्वेदमिव मञ्चयन, देवानां किल स्वेदो न भवतीति संदर्शनार्थः पिव शब्दः। 'झत्ति वेगेणं' ति वेगेन समवपतितः, कथं? 'झगिति' झटितिकृत्वा । ३/११५ 'पभु' त्ति शक्तः 'समत्थे' त्ति संगतप्रयोजन: 'हा हा' इत्यादे: संस्कारोऽयं हा हा अहो! हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत्। 'अवियाई' ति अपि चेति अभ्युच्चये, 'आई' ति वाक्यालंकारे 'मुट्ठिवाएणं' ति अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गे' त्ति केशाग्राणि 'वीइत्थां' वीजितवान्। ३/११६ ‘इहमागए' ति तिर्यक्लोके 'इहसमोसढे' ति सुसमारपुरे 'इह संपत्ते' ति उद्याने 'इहैवोद्याने 'अज्जे' त्ति 'अद्य' अस्मिनहनि Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy