________________
श.३: उ.१ः सू.५४-उ.२: सू.१०९
४९६
भगवती वृत्ति
'पंचसयउच्चत्तेणं आइमकप्पेस होति उ विमाण' त्ति तत्परिस्थूलन्यायमंगीकृत्यावसेयं तेन किंचिदुच्चतरत्वेऽपि
तेषां न विरोध इति। ३/५५. 'देसे उच्चे देसे उन्नए' त्ति प्रमाणतो गुणतश्चेति। ३/६६ 'आलावं वा संलावं व' त्ति 'आलाप:' संभाषणं संलापस्तदेव
पुनः पुनः। ३/६८ 'किच्चाई' ति प्रयोजनानि 'करणिज्जाई' ति विधेयानि। ३/६९ से कहमियाणिं पकरेंति' त्ति अथ कथम् 'इदानीम्' अस्मिन्
काले कार्यावसरलक्षणे प्रकुरुत:? कार्याणीति गम्यम्। 'इति भो' त्ति इति एतत्कार्यमस्ति, भोशब्दश्चामंत्रणे 'इति भो इति
भोत्ति' त्ति परस्परालापानुकरणम्। ३/७१ "जं से वयइ तस्स आणाउववायवयणनिद्देसे' त्ति यदाज्ञादिकमसौ
वदति तत्राज्ञादिके तिष्ठत इति वाक्यार्थः तत्राज्ञादयः पूर्व
व्याख्याता एवेति। ३/७२ 'आराहए' त्ति ज्ञानादीनामाराधयिता 'चरिमे' ति चरम एव
भवो यस्याप्राप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः
चरमभवो वा भविष्यति यस्य स चरमः। ३/७३ ‘हियकामए' त्ति हितं-सुखनिबन्धनं वस्तु 'सुहकामए' त्ति
सुख-शर्म ‘पत्थकामए' त्ति पथ्यं-दुःखत्राणं, कस्मादेवमित्याह—'आणुकंपिए' त्ति कृपावान्, अत एवाह'निस्सेयसिय' त्ति निःश्रेयसं-मोक्षस्तत्र नियुक्त इव नै:श्रेयसिकः 'हियसुहनिस्सेसकामए' ति हितं यत्सुखमदुःखानुबन्धमित्यर्थः तनि:शेषाणां--सर्वेषां कामयते---वांछति यः
स तथा। पूर्वोक्तार्थसंग्रहाय गाथे३/७६ 'छट्टे' त्यादि, इहाद्यगाथायां पूर्वार्द्धपदानां पश्चार्द्धपदैः सह
यथासंख्यं सम्बन्ध: कार्यः, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्टमष्टमं च तप: तथा मासोऽर्द्धमासश्च। 'भत्तपरिण' त्ति अनशनविधिः, एकस्य मासिकमनशनमन्यस्य चार्द्धमासिकमिति भावः। तथैकस्याष्ट वर्षाणि पर्याय:, अन्यस्य च षण्मासा इति। द्वितीया गाथा गतार्था। 'मोया समत्त' त्ति मोकाभिधाननगर्यामस्योद्देशकार्थस्य कीदृशी विकुर्वणा? इत्येतावद्रूपस्योक्तत्वान्मोकैवायमुद्देशक उच्यते।
मसुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह३/७७ 'तेण' मित्यादि ३/७८ ‘एवं असुरकुमारे' त्यादि ‘एवम्' अनेन सूत्रक्रमेणेति। ३/८१ स चैवम्-‘उवरि एग जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं
जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसटुिं भवणवाससयसहस्सा
भवंतीति अक्खाय' मित्यादि। ३/९० 'विउव्वेमाणा व ति संरभेण महद्वैक्रियशरीरं कर्वन्तः 'परियारेमाणा
व' त्ति परिचारयन्त: परकीयदेवीनां भोगं कर्तकामा इत्यर्थः 'अहालहुस्सगाई' ति 'यथे' ति यथोचितानि लघुस्वकानि
-अमहास्वरूपाणि महता हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि–महान्ति वरिष्ठानीति च वृद्धाः। 'आयाए' त्ति आत्मना स्वयमित्यर्थः
'एगंतं' ति विजनम् 'अंत' ति देशम्। ३/९२ 'से कहमियाणिं पकरेंति' त्ति अथ किमिदानी
रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नाऽऽदातृणामिति। 'तओ से पच्छा कार्य पव्वहंति' त्ति ततो रत्नादानात् 'पच्छ' त्ति अनन्तरं 'से' त्ति एषां रत्नाऽऽदातृणाम् असुराणां 'कार्य' देहं प्रव्यथन्ते, प्रहारैर्मध्नंति वैमानिका देवाः। तेषां च प्रव्यथितानां वेदना भवति
जघन्येनान्तर्मुहूर्तमुत्कृष्टतः षण्मासान् यावत्।। ३/९५ ‘सबरा' इ वा इत्यादौ शबरादयोऽनार्यविशेषा: 'गड्ढे व' त्ति
गर्ती 'दुग्गं व' त्ति जलदुर्गादि 'दरिं व' त्ति दरी पर्वतकन्दरां 'विसमं व' ति विषमं गरौतर्वाद्याक्लं-भूमिरूपं 'निस्साए' त्ति निश्रया आश्रित्य 'धणुबलं व' ति धनुर्द्धरबलम् 'आगलेंति' त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति। 'नण्णत्थ' त्ति ननु निश्चितं 'अत्र' इहलोके, अथवा 'अरहंते वा निस्साए
उड़े उप्पयंति' नान्यत्र तन्निश्रयाऽन्यत्र न, न तां विनेत्यर्थः। ३/१०२ 'दाणामाए' त्ति दानमय्या। ३/१०५ 'छउमत्थकालियाए' त्ति छद्मस्थकाल एव छद्मस्थकालिका
तस्यां 'दोवि पाए साहट्ट' त्ति संहत्य संहृतौ (संहतौ) कृत्वा जिनमुद्रयेत्यर्थः 'वग्घारियपाणि' त्ति प्रलम्बितभुजः 'ईसिपब्भारगएणं' ति प्राग्भार:-अग्रतोमुखमवनतत्वम्।
'अहापणिहिएहिं गत्तेहिं' ति यथाप्रणिहितैः यथास्थितैः। ३/१०९ 'वीससाए' त्ति स्वभावत एव। 'पासइ य तत्थ' ति पश्यति
च, तत्र-सौधर्मेकल्पे, 'मघवं' ति मघा-महामेघास्ते यस्य वशे सन्त्यसौ मघवानतस्तं 'पागसासणं' ति पाको नाम
तृतीयशते प्रथमोद्देशकः।।
द्वितीय उद्देशकः प्रथमोद्देशके देवानां विकर्वणोक्ता, द्वितीये त् तद्विशेषाणा
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org