SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ४९५ श. ३ : उ.१: सू.३३-५४ भुक्तोत्तरागतः, किंभूतः सन्? इत्याह-'आयंते' त्ति आचान्त:-शुद्धोदकयोगेन 'चोक्खे' त्ति चोक्ष: लेपसिक्था द्यपनयनेन, अतएव परमशुचिभूत इति। ३/३४ ‘जं जत्थ पासई' त्ति यम्-इन्द्रादिकं यत्र देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषो दृश्य:, 'खंदं व' त्ति स्कन्दं वा-कार्तिकेयं 'रुदंवा' महादेवं 'सिवं व' त्ति व्यन्तरविशेषम्, आकारविशेषो दृश्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं व' त्ति उत्तरदिक्पालम् 'अज्जं व' त्ति आर्यां प्रशान्तरूपां चण्डिकां 'कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं' वा इत्यत्र यावत्करणादिदं दृश्यम्-'ईसरं वा तलवरं वा माडंबियं वा कोइंबियं वा सेलुि वा' इति 'पाणं व' त्ति चण्डालं 'उच्चं' ति पूज्यम् 'उच्चं पणाम' ति अतिशयेन प्रणमतीत्यर्थः 'नीय' ति अपूज्यं 'नीयं पणाम' ति अनत्यर्थं प्रणमतीत्यर्थ, एतदेव निगमयन्नाह–'जं जहे' इत्यादि यं पुरुषपश्वादिकं यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा पूज्यापूज्योचिततया। ३/३६ 'अणिच्चजागरियं' ति अनित्यचिन्तां 'दिट्ठा भटे य' त्ति दृष्टाभाषितान् 'पुव्वसंगतिए' त्ति पूर्वसंगतिकान् गृहस्थत्वे परिचितान् ‘नियत्तणियमंडलं' ति निवर्त्तनं क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिकं, निजतनप्रमाणमित्यन्ये, 'पाओवगणमं' निवण्णे' त्ति पादपोपगमनं। 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः। ३/३७ 'अणिंद' ति इन्द्राभावात् 'अपुरोहिय ' त्ति शान्तिकर्मकारिरहिता अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति , तदभावे तु नासाविति। ३/३८ 'इंदाहीण' त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदाहिट्ठिय' त्ति 'इंद्राधिष्ठितास्तद्युक्तत्वात् अत एवाह-'इन्दाहीणकज्ज' त्ति इन्द्राधीनकार्याः 'ठितिपकप्पं' ति स्थितौ-अवस्थाने बलिचंचाविषये प्रकल्प:- संकल्प: स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाए' इत्यादि, तया विवक्षितया 'उत्कृष्टतया' उत्कर्षवत्या देवगत्येति योग: 'त्वरितया' आकुलया न स्वभावजयेत्यर्थः, अन्तराकूतताऽभिप्राय: स्यादित्यत आह —'चपलया' कायचापलोपेतया 'चण्डया' रौद्रया तथाविधोत्कर्षयोगेन ‘जयिन्या' गत्यन्तरजेतृत्वात् 'छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया 'उद्भूतया' वस्त्रादीनामुद्भूतत्त्वेन, उद्धतया वा सदर्पया, 'सपक्खि' ति समाः सर्वे पक्षा: पार्वाः पूर्वापरदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम्. इकार: प्राकृतप्रभवः, समा:- सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक, 'बत्तीसतिविहं नट्टविहिं' ति द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनो द्वात्रिंशद्विधत्वात्, तच्च यथा राजप्रश्नीयाध्ययने तथाऽवसेयमिति। 'अटुं बंधह' त्ति प्रयोजननिश्चयं कुरुतेत्यर्थ: 'निदान' प्रार्थनाविशेषम्। एतदेवाह -ठिइपकप्पं ति प्राग्वत्। ३/४५ 'आसुरुत्त, त्ति आसुरुत्ताः' शीघ्र कोपविमूढबुद्धयः अथवा स्फुरितकोपचिह्ना: 'कुविय' त्ति जातकोपोदया: 'चंडिक्किय' त्ति प्रकटितरौद्ररूपाः 'मिसिमिसेमाणे' ति देदीप्यमानाः क्रोधज्वलनेनेति। 'सुबेणं' ति रज्वा 'उट्ठहति' त्ति अवष्ठीव्यन्ति, निष्ठीवनं कुर्वन्ति ‘आकट्टविकट्ट' ति आकर्षविकर्षिकां, 'हीलेंति' त्ति जात्याधुद्घाटनत: कुत्सन्ति 'निंदंति' त्ति चेतसा। कुत्सन्ति 'खिंसंति' ति स्वसमक्षं वचनैः कुत्सन्ति 'गरहंति' त्ति लोकसमक्षं कुत्सन्त्येव 'अवमण्णंति' त्ति अवमन्यन्ते - अवज्ञाऽऽस्पदं मन्यन्ते 'तज्जिंति' ति अंगुलीशिरश्चालनेन 'तालेति' ताडयन्ति हस्तादिना 'परिवति' त्ति सर्वतो व्यर्थते कदर्थयन्ति 'पव्वहंति' त्ति प्रव्यथन्ते प्रकृष्टव्यथामेवोत्पादयन्ति। ३/४७ 'तत्थेव सयणिज्जवरगए' त्ति तत्रैव शयनीयवरे स्थितः इत्यर्थ। 'तिवलियं' ति त्रिवलिकां 'भृकुटिं' दृष्टिविन्यासविशेषम्। ३/४९ ‘समजोइभूय' ति समा ज्योतिषा - अग्निना भूता समज्योतिर्भूताः 'भीय' त्ति जातभयाः। 'तत्थ' त्ति त्रस्ता: भयाज्जातोत्कम्पादिभयभावा: 'सुसिय' त्ति शुषिताऽऽनन्दरसा: 'उब्विग्ग' त्ति तत्त्यागमानसा: किमुक्तं भवतीत्याह-संजातभया, 'आधावन्ति' ईषद्धावन्ति ‘परिधावन्ति' सर्वतो धावन्तीति 'समतुरंगेमाण' त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। ३/५० 'नाइ भुज्जो एवं करणयाए' ति नैवं भूयं एवंकरणाय संपत्स्यामहे इति शेषः। ___३/५१ 'आणाउववायवयणनिद्देसे' त्ति आज्ञा–कर्त्तव्यमेवेदमित्याद्या देश: उपपात:-सेवा वचनम्-अभियोगपूर्वक आदेश: निर्देश:-प्रश्निते कायें नियतार्थमुत्तरं तत एषां द्वन्द्वस्ततस्तत्र। ईशानेन्द्रवक्तव्यताप्रस्तावात्तद्वक्तव्यतासंबद्धमेवोद्देशकसमाप्ति यावत् सूत्रवृन्दमाह३/५४ 'सक्कस्से' त्यादि। 'उच्चतरा चेव' त्ति उच्चत्वं प्रमाणत: 'उन्नततरा चेव' त्ति उन्नतत्वं गुणतः अथवा उच्चत्वं प्रासादापेक्षम्, उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते १. स प्रतो, अंगसुत्ताणों-अन्तराकूलतया अन्तराकूततोऽप्येषा इति वा पाठः २. स प्रतौ 'उतत्थ' त्ति। ३. अंगसुत्ताणौ 'तसिया' Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy