________________
श. ३ : उ. १ : सू. २३-३३
४९४
ईशानादींश्च तथैव वायुभूतिरिति । इन्द्राणां वैक्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्यात्मीयस्य वैक्रियरूपकरण सामर्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेद
माह ----
३/२७ 'ते' मित्यादि ' जहेव रायप्पसेणइज्ज' त्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरिकाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह- 'जाव दिव्वं देविड्डि' मिति, सा चेयमर्थसंक्षेपतः – सभायां सुधर्मायामीशाने सिंहासने अशीत्या सामानिकसहस्त्रैश्चतुर्भिलोकपालैः अष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम् अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाट्यादिरवेण दिव्यान् भोगभोगान् भुंजानो विहरति स्म । इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनदुत्तस्थौ, उत्थाय च सप्ताष्टानि पदानि तीर्थंकराभिमुखमाजगाम ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार, एवं च तानवादीत् गच्छत भो ! राजगृहं नगरं महावीरं च भगवन्तं वन्दध्वं, योजनपरिमण्डलं च क्षेत्रं शोधयत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौ पदात्यनीकाधिपतिं देवमेवमवादीत् — भो ! भो! देवानां प्रिये ईशानावतंसके विमाने घण्टामास्फालयन् कुरु यदुत गच्छति भो ! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महर्द्धया तस्यान्तिकमागच्छत, कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपगता: तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरद्वीपे कृतविमानसंक्षेपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिः प्रदक्षिणीकृत्य चतुर्भिरंगुलैर्भुवमप्राप्तं विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म, ततो धर्मं श्रुत्वैवमवादीत् - भदन्त ! यूयं सर्वं जानीथ पश्यथ, केवलं गौतमादीनां महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मणिपीठिकां तत्र च सिंहासनं ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणाभुजादष्टोत्तरं शतं देवकुमाराणां वामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यरवगीतध्वनिरंजितजनमानसं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासेति । 'तए
से ईसा देविंदे देवराया तं दिव्वं देविड्डि' यावत्करणादिदमपरं वाच्यं यदुत 'दिव्वं देवज्जुइं दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरित्ता खणेणं जाए एगभूए। तए णं ईसाणे देविंदे देवराया समणं भगवं महावीरं वंदित्ता नमंसित्ता
Jain Education Intemational
भगवती वृत्ति
नियगपरियालसंपरिवुडे' त्ति 'परियाल' त्ति परिवारः । 'कूडागारसालादिट्टंतो' त्ति कूटाकारेण – शिखराऽऽकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः स तथा । ३ / २८ स चैवं - भगवन्तं गौतम एवमवादीत् — ईशानेन्द्रस्य सा दिव्या देवर्द्धिः क्व गता ? गौतम ! शरीरकमनुप्रविष्टा ।
३ / २९ अथ केनार्थेनैवमुच्यते ? गौतम! यथा नाम कूटाकारशाला
स्यात्, तस्याश्चादूरे महान् जनसमूहस्तिष्ठति, स च महाभ्रादिकमागच्छन्तं पश्यति, दृष्ट्वा च तां कूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्या देवर्द्धिः शरीरकमनुप्रविष्टेति।
३/३० 'किणे' ति केन हेतुना? किं वा दच्चे' त्यादि, इह दत्त्वाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपः शुभध्यानादि समाचर्य च प्रत्युपेक्षाप्रमार्जनादि, ‘कस्स वे' त्यादि वाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः 'जण्णं' ति यस्मात् पुण्यात् णमिति वाक्यालंकारे ।
३/३३ 'अत्थि ता मे पुरा पोराणाण' मित्यादि पुरा - पूर्वं कृतानाि
योग:, अत एव 'पोराणाणं' ति पुराणानां 'सुचिण्णाणं' ति दानादिसुचरितरूपाणां ‘सुपरक्कंताणं' ति सुष्ठु पराक्रान्तं— पराक्रमस्तपःप्रभृतिकं येषु तानि तथा तेषां शुभानामर्थावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति ? इत्याह 'जेणाह' मित्यादि, पूर्वोक्तमेव किंचित्सविशेषमाह'विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जेणं' ति, इह धनं - गणिमादि रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्ताद्याः शिलाप्रवालानि - विद्रुमाणि, अन्ये त्वाहु: - शिला - राजपट्टादिरूपा: प्रवालं – विद्रुमं रक्तरत्नानि - पद्मरागादीनि, एतद्रूपं यत् 'संत' त्ति विद्यमानं सारं — प्रधानं स्वापतेयं — द्रव्यं तत्तथा तेन 'एगंतसो 'खयं' ति एकान्तेन क्षयं, नवानां शुभकर्म्मणामनुपार्जनेन । 'मित्ते' त्यादि, तत्र मित्राणि – सुहृदो ज्ञात्यः सजातीयाः निजकाः - गोत्रजाः सम्बन्धिनो मातृपक्षीयाः श्वसुरकुलीना वा परिजनो - दासादिः, 'आढाइ' त्ति अद्रियते 'परिजाणइ' त्ति परिजानाति स्वामितया 'पाणामाए' त्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया, 'सुद्धोयण' ति सूपशाकादिवर्जितं कूरं 'तिसत्तखुत्तो' त्ति त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'आसाएमाणे' त्ति ईषत्स्वादयन्, 'वीसाएमाणे' त्ति विशेषेण स्वादयन् स्वाद्यविशेषं ‘परिभाएमाणे' त्ति ददत् 'परिभुंजेमाणे ' त्ति भोज्यं परिभुंजानः, 'जिमियभुत्तुत्तरागए' त्ति 'जिमिय' त्ति प्रथमैकवचनलोपात् जिमितः — भुक्तवान् 'भुत्तुत्तर' त्ति भुक्तोत्तरं --भोजनोत्तरकालं, 'आगए' त्ति आगतः उपवेशनस्थाने
For Private & Personal Use Only
www.jainelibrary.org