________________
भगवती वृत्ति
जलप्पभे७ अमियवाहणे८ पभंजण ९ य महाघोसे १० ।। " एतेषां च भवनसंख्या 'चउतीसा चउचत्ता' इत्यादि पूर्वोक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसंख्या चैवम्— "चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खाओ ।" अग्रमहिष्यस्तु प्रत्येकं धरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत्कार्य: ।
'वाणमंतरजोइसियावि' त्ति व्यन्तरेन्द्रा अपि धरणेन्द्रवत्सपरिवारा वाच्याः । एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्याताम् । तद्यथा-
"काले य महाकाले १ सुरूव पडिरूव २ पुण्णभद्दे य । अमरवइ माणिभद्दे३ भीमे य तहा महाभीमे४ ॥ किंनर किंपुरिसे५ खलु सप्पुरिसे चेव तहा महापुरिसे६ । अइकाय महाकाए७ गीयरई चेव गीयजसे८ || " एतेषां ज्योतिष्काणां च त्रायस्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः सामानिकास्तु चतुःसहस्त्रसंख्याः । एतच्चतुर्गुणाश्चात्मरक्षा : अग्रमहिष्यश्चतस्त्र इति एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं च अग्निभूतिः पृच्छति । औदीच्यांश्चन्द्रं च वायुभूतिः, तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यम्। यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तवाचनान्तरमुपजीव्येति भावनीयमिति । तत्र कालेन्द्रसूत्राभिलाप एवम्- 'काले णं भंते!' पिसाइंदे पिसायराया केमहिड्डीए....... केवइयं च णं पभु विउव्वित्तए ? गोयमा ! काले णं महिड्डीए...... से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउन्हं सामाणियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं चउन्हं अग्गमहिसणं सपरिवाराणं अन्नेसिं च बहूणं पिसायाणं देवाणं देवीण य आहेवच्चं जाव विहरइ, एमहिड्डिए..... एवतियं च णं पभू विडव्वित्तए जाव केवलकप्पं जंबूद्दीवं दीवं जाव तिरियं संखेज्जे दीवसमुद्दे इत्यादि ।
३ / १६ शक्रप्रकरणे 'जाव चउण्हं चउरासीण' मित्यत्र यावत्करणादिदं दृश्यम् — अट्ठण्हं अग्गमहिसीणं सपरिवाराणं चउन्हं लोगपालाणं तिन्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं' ति। शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तव्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तान् प्रश्नयन्नाह -
३/१७ 'एवं खलु' इत्यादि, एवं इति वक्ष्यमाणन्यायेन सामानिक
देवतयोत्पन्न इति योगः ।
४९३
Jain Education International
श. ३ : उ. १ : सू. १५-२३
'तीसए' त्ति तिष्यकाभिधानः । 'सयंसि' त्ति स्वके विमाने । 'पंचविहाए पज्जत्तीए' त्ति पर्याप्तिः- आहारशरीरादीनामभिनिर्वृत्तिः, सा चान्यत्र षोढोक्ता, इह तु पञ्चधा, भाषामन: पर्याप्त्योर्बहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात्। 'लद्धे' त्ति जन्मान्तरे तदुपार्जनापेक्षया । 'पत्ते' त्ति प्राप्ता देवभवापेक्षया। ‘अभिसमण्णागए' त्ति तद्भोगापेक्षया ।' जहेव चमरस्स' त्ति अनेन लोकपालाग्रमहिषीणाम्। 'तिरियं संखेज्जे दीवसमुद्दे' त्ति वाच्यमिति सूचितम् ।
३ / २० 'ईसाणे णं भंते' इत्यादि, ईशानेन्द्रप्रकरणम् । इह च ' एवं तहेव' त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं सूचितं, तथाऽपि विशेषोऽस्ति । उभयसाधारणपदापेक्षत्वादतिदेशस्येति । स चायम् —' से णं अट्ठावीसाए विमाणावाससयसहस्साणं असीईए सामाणियसाहस्सीणं जाव चउन्हं असीईणं आयरक्खदेवसाहस्सीणं' ति ।
ईशानवक्तव्यतानन्तरं तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद् विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयन्नाह—
३/२१ ‘एवं खलु' इत्यादि, 'उड्डुं बाहाओ पगिज्झिय' त्ति प्रगृह्यविधायेत्यर्थः
३ / २२ 'एवं सणकुमारेवि' त्ति अनेनेदं सूचितम् - 'सणंकुमारेणं भंते! देविंदे देवराया केमहिड्डिए.... केवइयं च णं प्रभू विउव्वित्तए ? गोयमा ! सणकुमारे णं देविंदे देवराया महिड्डिए
'से णं बारसहं विमाणावाससयसाहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं' मित्यादीति । 'अग्गमहिसीणं' ति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इति कृत्वाऽग्रमहिष्य, इत्युक्तमिति ।
३ / २३ एवं माहेन्द्रादिसूत्राण्यपि गाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि गाथाश्चैवम्
'बत्तीस अट्ठवीसा बारस अट्ठ य चउरो सयसहस्सा । आरेण बंभलोया विमाणसंखा भवे एसा ॥ पण्णासं चत्त छच्चेव सहस्सा लंतसुक्कसहस्सारे । सयचउरो आणयपाणएसु तिष्णारण्णच्चुयओ ॥ " सामानिकपरिमाणगाथा -
"चउरासीड़ असीई बावत्तरि सत्तरी यसट्ठी य। पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥"
इह च शक्रादिकान् पञ्चैकान्तरितानग्निभूतिः पृच्छति,
For Private & Personal Use Only
www.jainelibrary.org