________________
श.३: उ.१: सू.४-१५
४९२
भगवती वृत्ति
कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइतंतीतलतालतुडिय-घणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे' ति। तत्राधिपत्यम्-अधिपतिकर्म। पुरोवर्तित्वम् -अग्रगामित्वं, स्वामित्वं-स्वस्वामिभावं, भर्तृत्वंपोषकत्वम्, आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् अन्यैः पालयन् स्वयमिति। तथा महता रवेणेति योगः। 'आहय' त्ति आख्यानकप्रतिबद्धानीति वृद्धाः। अथवा 'अहय' ति अहतानि–अव्याहतानि नाट्यगीतवादितानि, तथा तन्त्रीवीणा तलताला:-हस्तताला: तला वा हस्ता: ताला:कंसिका: 'तुडिय' त्ति शेषतूर्याणि, तथा घनाकारो ध्वनिसाधाद्यो मृदंगो-मर्दलः। पटना-दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा। तेन 'भोगभोगाई' ति भोगार्हान् शब्दादीन्। ‘एवं महिड्डिए' त्ति एवं महर्द्धिक: इव महर्द्धिक: इयन्महर्द्धिक इत्यन्ये। से 'जहानामए' इत्यादि, यथा युवतिं युवा हस्तेन हस्ते गृह्णाति, कामवशाद् गाढतरग्रहणतो निरन्तर-हस्तांगुलितयेत्यर्थः। दृष्टान्तान्तरमाह-'चक्कसे' त्यादि, चक्रस्य वा नाभिः किंभूता? 'अरगाउत्त' त्ति अरकैरायुक्ता-अभिविधिनाऽन्विता अरकायुक्ता। 'सिय' ति स्यात् भवेत्। अथवा अरका उत्तासिता—आस्फालिता यस्यां सा अरकोत्तासिता। 'एवमेव' त्ति निरन्तरतयेत्यर्थः। प्रभुः। जम्बूद्वीप बहुभिर्देवादिभिराकीर्णं कर्तुमिति योग:। वृद्धस्तु व्याख्यातं यथा यात्रादिषु युवति'नो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपाणि विकुर्खितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि। यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति। 'वेउब्वियसमुग्धाएणं' ति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहण्णइ' त्ति समुपहन्यते समुपहतो भवति, समुपहन्ति वा–प्रदेशान् विक्षिपतीति। तत्स्वरूपमेवाह-'संखेज्जाई' इत्यादि, दण्ड इव दण्ड :- ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुदगलसमूहः। तत्र च विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-'रत्नानां' कर्केतनादीनाम्, इह च यद्यापि रत्नादिपुद्गला औदारिका वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्या भवन्ति, तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारता प्रतिपादनाय रत्नानामित्याधुक्त तच्च रत्नानामिवेत्यादि व्याख्येयम्। अन्ये त्वाहु :
औदारिका अपि ते गृहीता: सन्तो वैक्रियतया परिणमन्तीति। यावत्करणादिदं दृश्यम्-'वइराणं वेरुलियाणं
लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधियाणं जोतीरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजणपुलयाणं फलिहाणं' ति, किम्? अत आह–'अहाबायरे' त्ति यथाबादरानसारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान्। यच्चोक्तं प्रज्ञापनाटीकायां-“यथा स्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयती' ति, तत्समुद्घातशब्दसमर्थनार्थमनाभोगिक वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति। 'अहासहमे' त्ति यथासूक्ष्मान् सारान्। 'परियाइयति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः। 'दोच्चंपि' त्ति द्वितीयमपि वारं समुद्घातं करोति, चिकीर्षितरूपनिर्माणार्थ, ततश्च ‘पभु' त्ति समर्थः। 'केवलकप्पं' ति केवल:परिपूर्ण: कल्पत इति कल्पः-स्वकार्यकरणसामोपेत: तत: कर्मधारयः, अथवा 'केवलकल्प': केवलज्ञानसदृश: परिपूर्णतासाधर्म्यात्, सम्पूर्णपर्यायो वा केवलकल्प शब्द इति। 'आइण्ण' मित्यादय एकार्था अत्यन्तव्याप्तिदर्शनायोक्ता: ‘अदुत्तरं च णं' ति अथाऽपरं च, इदं च सामर्थ्यातिशयवर्णनम्। 'विसए' त्ति गोचरो वैक्रियकरणशक्तेः, अयं च तत्करणयुक्तोऽपि स्यादित्यत आह'विसयमेत्ते' ति विषय एव विषयमात्रं-क्रियाशून्यम्। 'बुइए' ति उक्तम्, एतदेवाह-'संपत्तीए' त्ति यथोक्तार्थसंपादनेन 'विउव्विंसु वा' विकुर्वितवान् विकुर्वति वा, विकुर्विष्यति वा विकुर्व इत्ययं धातः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति। 'नवरं संखेज्जा दीवसमुद्द' त्ति लोकपालादीनां सामानिकेभ्यः
अल्पतरर्द्धिकत्वेनाल्पतरत्वाद् वैक्रियकरणलब्धेरिति। ३/८. 'अपुट्ठवागरणं' ति अपृष्टे सति प्रतिपादनम्। ३/१२. 'वइरोयणिंदे' त्ति दाक्षिणात्यासुरकुमारेभ्य: सकाशाद् विशिष्टं
रोचनं-दीपनं येषामस्ति ते वैरोचना औदिच्या असुरास्तेषु मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः। 'साइरेगं केवलकप्पं'
ति औदिच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति। ३/१५ ‘एवं जाव थणियकुमार' त्ति धरणप्रकरणमिव भूतानन्दादिमहा
घोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि। तेषु च इन्द्रानामान्येतद्गाथानुसारतो वाच्यानि"चमरे१ घरणे २ तह वेणुदेव३ हरिकंत४ अग्गिसीहे५ य। पुण्णे जलकंतेवि७ य अमिय८ विलंबे९ य घोसे१० य॥" एते दक्षिणनिकायेन्द्राः इतरे तु - "बलि१भूयाणंदेश्वेणुदाली३हरिस्सहे ४ऽग्गिमाणव५वसिढे६ ।
3/R
१. एमहिड्डिए' त्ति अंगसुत्ताणौ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org