________________
परिशिष्ट - ५ अभयदेवसूरि-कृता भगवती-वृत्तिः
सर्वज्ञमीश्वरमनन्तमसङ्गमयं, सार्वीयमस्मरमनीशमनीहमिद्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमाज्जिनं जितरिपं प्रयतः प्रणौमि ॥१॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥२॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमा विवृणोमि विशेषतः किञ्चित् ॥३॥
अथ तृतीयं शतकम् प्रथम उद्देशकः
३/१
३/४
व्याख्यातं द्वितीयशतम्, अथ तृतीयं व्याख्यायते। अस्य चायमभिसंबन्धः-अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तविशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवं सम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थसंग्रहायेयं गाथा'केरिसेत्यादि'... तत्र 'केरिसविउव्वणे' त्ति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः। 'चमरे' त्ति चमरोत्पाताभिधानार्थो द्वितीयः। 'किरिय' त्ति कायिक्यादिक्रियाद्यर्थाभिधानार्थस्तृतीय :। 'जाण' त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः। 'इत्थि' त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्रयादिरूपाणि वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः। 'नगर' त्ति वाराणस्यां नगर्या कृतसमुद्घातोऽनगारो राजगृहे रूपाणि जानातीत्याद्यर्थनिश्चयपर: षष्ठ :। 'पाला य' ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः। 'अहिवइ' त्ति असुरादीनां कति देवा अधिपतयः?
इत्याद्यर्थपरोऽष्टमः। 'इंदिय' त्ति इन्द्रियविषयाभिधानार्थो नवमः। 'परिस' त्ति चमरपरिषदभिधानार्थो दशमः इति। तत्र कीदृशी विकुर्वणेत्याद्यर्थस्य प्रथमोद्देशकस्येदं सूत्रम्तेणं कालेण' मित्यादि सुगम, नवरं । 'के महिड्डिए' त्ति केन रूपेण महर्द्धिक:? किंरूपा वा महर्द्धिरस्येति किंमहर्द्धिकः। कियन्महर्द्धिक इत्यन्ये। 'सामाणियसाहस्सीणं' ति समानया-इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः। 'तायत्तीसाए' ति त्रयस्त्रिंशतः। 'तावत्तीसगाणं' ति मन्त्रिकल्पानाम्। यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं', पंचण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्हं चउसट्ठीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं चमरचंचारायहाणिवत्थव्वाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org