________________
श.२: उ.१०. सू.१२६-१३६
४१२
भगवती वृत्ति
२११२६. 'गहणगुणे'त्ति ग्रहणं-परस्परेण सम्बन्धनं जीवेन वा। औदारिकादिभिः प्रकारैरिति ।
२११३३. 'खंडं चक्के इत्यादि यथा खण्डचक्रं चक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्र चक्र भवति। एवं
धर्मास्तिकायः प्रदेशेनाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्याद् । एतच्च निश्चयनयदर्शनं, व्यवहारनयमतं तु-एकदेशेनोनमपि वस्तु वस्त्वेव,
यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वा श्वैव, भणन्ति च–'एकदेशविकृतमनन्यवदिति । २११३४. 'से किंखाइंति' अथ किं पुनरित्यर्थः 'सव्वेऽवि' समस्ताः ते च देशापेक्षयाऽपि भवन्ति प्रकारकात्स्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह–'कसिण'
त्ति कृत्सा न तु तदेकदेशापेक्षया सर्व इत्यर्थः ते च स्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णाः-आत्मस्वरूपेणाविकलाः, ते व प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्यत आह-निरवसेस त्ति प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः, तथा 'एगग्गहणगहिय'त्ति
एकग्रहणेन–एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता ये ते तथा एकशब्दाभिधेया इत्यर्थः एकार्था वैते शब्दाः । २।१३५. 'पएसा अणंता भाणियव्व' त्ति धर्माधर्मयोरसंख्येयाः प्रदेशा उक्ताः आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात् त्रयाणामपीति ।
उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह२।१३६. 'जीवे णमित्यादि, इह च 'सउटाणे'इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि । 'आयभावेणं'ति आत्मभावेन उत्थानशयनगमनभोजनादि
रूपेणात्मपरिणामविशेषेण, 'जीवभावं'त्ति जीवत्वं चैतन्यं 'उपदर्शयति' प्रकाशयतीति वक्तव्यं स्याद् ? विशिष्टस्योत्थानादेविशिष्टचेतना
पूर्वकत्वादिति। २।१३७. 'अणंताणं आभिणिबोहिए'त्यादि 'पर्यवाः' प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनि
बोधिकज्ञानपर्यवाणां सम्बन्धिनम् अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः । 'उपयोग' चेतनाविशेषं गच्छतीति योगः। उत्थाना- दावात्मभावे वर्तमान इति हृदयम्। अथ यद्युत्थानाद्यात्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानाधुपयोगं गच्छति तत् किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशंक्याह–'उवओगे'त्यादि, अत उपयोगलक्षणं जीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ।
अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि२११३८. 'कतिविहे णं भंते !'इत्यादीनि तत्र लोकालोकाकाशयोर्लक्षणमिदं
"धर्मादीनां दृत्तिव्याणां भवति यत्र तत्क्षेत्रम्।
तैव्यैः सह लोकस्तविपरीतं ह्यलोकाख्यम् ।।" इति । २११३६. 'लोगागासे ण'मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीव'त्ति संपूर्णानि जीवद्रव्याणि 'जीवदेस'त्ति जीवस्यैव बुद्धिपरिकल्पिता दुव्यादयो
विभागाः। 'जीवप्पएस'त्ति तस्यैव बुद्धिकृता एव प्रकृष्ण देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः । 'अजीव'त्ति धर्मास्तिकायादयः । ननु लोकाकाशे जीवा अजीवाश्चेत्युक्ते तद्देशप्रदेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनां, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति? नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तरं-'गोयमा ! जीवावी'त्यादि, अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह-'जे अजीवे'त्यादि, 'रूबी यत्ति मूर्ताः, पुद्गला इत्यर्थः। 'अरूवी य'त्ति अमूर्त्ताः, धर्मास्तिकायादय इत्यर्थः। 'खंध'त्ति परमाणुप्रचयात्मकाः स्कन्धाः 'स्कन्धदेशाः' यादयो विभागाः ‘स्कन्धप्रदेशाः' तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः' स्कन्धभावमनापन्नाः परमाणव इति । ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजीवावि अजीवदेसावि अजीवप्पएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात्। 'जे अरूवी ते पंचविहे'त्यादि अन्यत्रारूपिणो दशविधा उक्ताः तद्यथा-आकाशास्तिकायस्तदेशस्तप्रदेशश्चेत्येवं धर्माधर्मास्तिकायौ समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्। ये तु विवक्षितास्तानाह-पंचेति, कथमित्याह-'धम्मत्थिकाए'इत्यादि, इह जीवानां पुद्गलानां च बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने संकोचादितथाविधपरिणामवशाद् बहवो जीवाः पुद्गलाश्च तथा तद्देशास्तप्रदेशाश्च संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्च, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात् । धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा संपूर्ण वस्तु विवक्ष्यते तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्देशा इति, तेषामवस्थितरूपत्वात् । तद्देशकल्पना त्वयुक्ता, तेषामनवस्थितरूपत्वादिति। यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन संभवः प्ररूपणाकारणं इह तु तन्नास्तिकायादेरेकत्वादसंकोचादिधर्मकत्वाच्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह-'नो धम्मत्थिकायस्स देसे' तथा 'नो अधम्मत्थिकायस्स देसे'त्ति।। चूर्णिकारोऽप्याह-'अरूविणो दव्वा समुदयसद्देणं भन्नति, नीसेसा पएसेहिं वा नीसेसा भणिज्जा, नो देसेणं, तस्स अणवट्ठियप्पमाणतणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु कओ सो सविसयगयववहारत्थं परदव्वफुसणादिगयववहारत्थं चेति । तत्र स्वविषये-धर्मास्तिकाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org