________________
भगवती वृत्ति
४११
श.२: उ.८-१०ः सू.१२१-१२८ ऋद्धिमत्त्वं च 'एवंमहिडिए' इत्यादिवचनैर्वाच्यमस्येति । एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति।
॥द्वितीयशतेऽष्टमोद्देशकः ॥
नवम उद्देशकः
चमरचञ्चालक्षणं क्षेत्रमष्टमोद्देशक उक्तम् । अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम्२।१२२. 'किमिद'मित्यादि, तत्र समय:-कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रम् । कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यंग्यो मनुष्यक्षेत्र एव न परतः,
परतो हि नादित्याः संचरिष्णव इति । २११२३. एवं जीवाभिगमवत्तव्वया नेयव्य'त्ति एषां चैवम्-एगं जोयणसयसहस्सं आयामविक्खंभेण'मित्यादि 'जोइसविहूणं' त्ति तत्र जम्बू
द्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तविहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति । वाचनान्तरे तु 'जोइसअट्टविहूणंति इत्यादि बहु दृश्यते, तत्र 'जंबूद्दीवे णं भत्ते ! कइ चंदा पभासिंसु वा ३? कति सूरिया तविंसु वा ३? कइ नक्खत्ता जोइं जोइंसु वा ३? इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा-'से केणटेणं भंते ! एवं वुच्चइ जंबूद्दीवे दीवे गोयमा ! जंबूद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणरस दाहिणेणं जाव तत्थ तत्थ बहवे जंबूरुक्खा जंबूवणा जाव उवसोहेमाणा चिट्ठति, से तेणटेणं गोयमा! एवं वुच्चइ जंबूद्दीवे दीवे'इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति । ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं 'जाव इमा गाह'त्ति संग्रहगाथा-सा च
"अरहंत समय बायर विजू धणिया बलाहगा अगणी।
आगर निहि नइ उवराग निग्गमे बुडिवयणं च ॥" अस्याश्चार्थस्तत्रानेन सम्बन्धेनायातो-जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्यान्ते इदमुक्तम्-'जाव च णं माणुसुत्तरे पब्बए तावं च णं अस्सिंलोएत्ति पवुघई' मनुष्यलोक उच्यत इत्यर्थः। तथा 'अरहंते'त्ति जावं च णं अरहंता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया विणीया तावं च णं अस्सिंलोएत्ति पवुच्चइ । 'समय'त्ति जावं च णं समयाई वा आवलिया इ वा जाव अस्सिलोएत्ति पवुच्चइ, एवं जावं च णं बायरे विजयारे बायरे थणियसद्दे जावं च णं बहवे ओराला बलाहया संसेयंति, 'अगणि' त्ति जावं च णं बायरे तेउयाए जावं च णं आगरा इ वा निही इ वा नई इ वा 'उवराग'त्ति चंदोवरागा इ वा सूरोवरागा इ वा तावं च णं अस्सिंलोएत्ति पवुच्चइ' । उपरागो-ग्रहणं 'निग्गमे वुड्डिवयणं च'त्ति यावच्च निर्गमादीनां वचनं—प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतं, तत्र 'जावं च णं चंदिमसूरियाणं जाव तारारूवाणं अइगमणं निग्गमण वुदी निव्वुट्टी आघविजइ तावं च गं अस्सिंलोएत्ति पवुच्चइत्ति। अतिगमनमिहोत्तरायणं निर्गमनं-दक्षिणायनं वृद्धि:-दिनस्य वद्धनं निवृद्धिः-तस्यैव हानिरिति।
॥द्वितीयशते नवमोद्देशकः ॥
दशम उद्देशकः
अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोद्देशकस्यादिसूत्रम्२।१२४. 'कइ ण'मित्यादि अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया राशयोऽस्तिकायाः अथवाऽस्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति-सन्ति
आसन भविष्यन्ति च ये कायाः-प्रदेशराशयस्तेऽस्तिकाया इति । धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मास्तिकायादिपदस्य मांगलिकत्वाद्धर्मास्तिकाय आदाबुक्तः। तदनन्तरं च तद्विपक्षत्वादधर्मास्तिकायः ततश्च तदाधारत्वादाकाशास्तिकायः, ततोऽनन्त
त्वामूर्त्तत्वसाधाजीवास्तिकायः, ततस्तदुपष्टम्भकत्वात् पुद्गलास्तिकाय इति । २।१२५. 'अवण्णे इत्यादि, यत एवावर्णादिरत एव अरूपी अमूर्तो न तु निःस्वभावो, नञः पर्युदासवृत्तित्वात्। शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः
'लोगदव्वेत्ति लोकस्य-पंचास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, भावत इति पर्यायतः 'गुणओ'त्ति कार्यतः ‘गमणगुणे'त्ति जीवपुद्गलानां
गति परिणतानां गत्युपष्टम्भहेतुर्मत्स्यानां जलमिवेति । २।१२६.'ठाणगुणे'त्ति जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मस्यानां स्थलमिवेति । २११२७. 'अवगाहणागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । २११२८. 'उवओगगुणे'त्ति उपयोग:-चैतन्यं साकारलाकारभेदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org