SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ४१० श. २: उ. ८ः सू. ११८-१२१ इहैव विशेषमाह - 'नवर 'मित्यादि, ततश्चेदमापन्नम् -'मूले दसबावीसे जोयणसए विक्खंभेणं सज्झे चत्तारि चउवीसे उवरिं सत्ततेवीसे, मूले तिण्णि जोयणसहरसाई दोणिय बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचिविसेसूणे परिक्खेवेणं उवरिं दोण्णि जोयणसहस्साइं दोण्णि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवज्रस्येव विग्रहः – आकृतिर्यस्य स स्वार्थिके कप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः । एतदेवाह - 'महामउंदे' त्यादि मुकुन्दो - वाद्यविशेषः, 'अच्छे'त्ति स्वच्छ आकाशस्फटिकवत् । यावत्करणादिदम् दृश्यम् - 'सण्हे' श्लक्ष्णः श्लक्ष्णपुद्गलनिर्वृत्तत्वात् 'लण्हे' मसृणः ‘घट्टे' घृष्टः इव घृष्टः खरशानया प्रतिमेव 'मट्ठे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव 'नीरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निप्पंके' आर्द्रमलरहितः 'निक्कंकडच्छाए' निरावरणदीप्तिः 'सप्पभे' सत्प्रभाव: 'रामरिईए' सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तूद्द्योतकः पासाईए ४ । 'पउमवरवेइयाए वणसंडस्स य वण्णओ त्ति वेदिकावर्णको यथा-सा णं पउमवरवेइया अद्धं जोयणं उडुं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामई तिगिच्छकूडउवरितलपरिक्खेवसमा परिक्खेवेणं, तीसे णं पउमवरवेश्याए इमे एयारूवे वण्णावासे पण्णत्ते' 'वर्णकव्यासः' वर्णकविस्तरः 'वइरामया नेमा' इत्यादि, 'नेम'त्ति स्तम्भानां मूलपादाः । वनखण्डवर्णकरत्येवम् -' से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं पउमवरवेइयापरिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे' इत्यादि । २ । ११६. ‘बहुसमरमणिज्जे त्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'वन्नओ'त्ति वर्णकस्तस्य वाच्यः स चायम् -' से जहानामए आलिंगपुक्खरे इ वा ' आलिंगपुष्करं—मुरजमुखं तद्वत्सम इत्यर्थः 'मुइंगपुक्खरे इ वा सरतले इ वा करतले इ वा आयंसमंडले इ वा चंदमंडले इ वे 'त्यादि । २ । १२०. 'पासायवडिंसए' त्ति प्रासादोऽवतंसक इव - शेखरक इव प्रधानत्वात् प्रासादावतंसकः । 'पासायवण्णओ'त्ति प्रासादवर्णको वाच्यः स चैवम्- 'अब्भुग्गयमूसियपहसिए' अभ्युद्गतमभ्रोद्गतं वा यथाभवत्येवमुच्छ्रश्रितः अथवा मकारस्यागमिकत्वाद् अभ्युद्गतश्चासावुच्छ्रद्रितश्चेत्यभ्युद्गतोच्छ्रछ्रितः अत्यर्थमुच्च इत्यर्थः प्रथमैकवचनलोपश्चात्र दृश्यः । तथा प्रहसित प्रभापटलपरिगततया प्रहसितः प्रभया वा सितः - शुक्लः संबद्धो वा प्रभासित इति 'मणिकणगरयणभत्तिचित्ते' मणिकनकरत्नानां भक्तिभिः - विच्छित्तिभिश्चित्रो विचित्रो यः स तथा इत्यादि । 'उल्लोयभूमिवण्णओत्ति उल्लोचवर्णकः प्रासादस्योपरिभागवर्णकः स चैवम्— 'तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोए पण्णत्ते' पउमलयभत्तिचित्ते जाव सव्वतवणिजमए अच्छे जाव पडिरूवे' भूमिवर्णकरत्वेवम्- 'तस्स णं पासायवडिंसयस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तंजहा - आलिंगपुक्खरे इ वे 'त्यादि । 'सपरिवारं 'त्ति चमरसम्बन्धिपरिवारसिंहासनोपेतं तच्चैवम् तस्स णं सिंहासणस्स अवरुत्तरे णं उत्तरे णं उत्तरपुरत्थिमे णं एत्थ णं चमरस्स चउसठ्ठी सामाणियसाहस्सीणं चउसट्ठी भद्दासणसाहस्सीओ पण्णत्ताओ एवं पुरत्थिमे णं पंचण्हं अग्गमहिसीणं सपरिवाराणं पंच भद्दासणाई सपरिवाराई दाहिणपुरत्थिमे णं अब्मिंतरियाए परिसाए चउब्बीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ, एवं दाहिणे णं मज्झिमाए अट्ठावीसं भद्दासणसाहस्सीओ, दाहिणपच्चत्थिमे णं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पच्चत्थिमे णं सत्तण्हं अणियाहिवईणं सत्त भद्दासणाई, चउद्दिसिं आयरक्खदेवाणं चत्तारि भद्दासणसहस्राचउसट्टीओ 'ति । 'तेत्तीसं भोम' त्ति वाचनान्तरे दृश्यते, तत्र भौमानि - विशिष्टस्थानानि नगराकाराणीत्यन्ये । २।१२१. 'ओवारियलेणं' त्ति गृहस्य पीठबन्धकल्पम् । 'सव्वप्यमाणं वेमाणियप्यमाणस्स अद्धं नेयव्वं त्ति अयमर्थः यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादि प्रमाणं सौधर्मवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्यार्द्धं च नेतव्यं तथाहि —– सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्धं शतम् । तथा सौधर्मवैमानिकानां मूलप्रासादः पंच योजनानां शतानि तदन्ये चत्वारस्तत्परिवारभूताः सार्द्धं द्वे शते प्रत्येकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् । एवमन्ये तत्परिवारभूताः सार्द्धाद्विषष्टि एवमन्ये सपादैकत्रिंशत् । इह तु मूलप्रासादाः सार्द्धं द्वे योजनशते एवमर्द्धार्द्धहीनास्तदपरे यावदन्तिमाः पंचदश योजनानि पंच च योजनस्याष्टांशाः । एतदेव वाचनान्तरे उक्तम् - चत्तारि परिवाडीओ पासायवडेंसगाणं अद्धद्धहीणाओ त्ति एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्यः उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलंकारसभा व्यवसायसभा चेति । एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि । ततश्चोछ्रय इहैषां षट्त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पंचविंशतिरिति । एतेषां च विजयदेवसम्बन्धिनामिव 'अणेगखंभसयसण्णिविट्ठा अब्भुग्गयसुकयवइरवेइया' इत्यादिवर्णको वाच्यः । तथा 'दाराणं उप्पिं बहवे अट्ठट्ठमंगलगा झया छत्ताइछत्ता' इत्यादि, अलंकारश्च सभादीनां वाच्यः । सर्वं च जीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्य वाच्यं, यावदुपपातउत्पातसभायां संकल्पश्चाभिनवोत्पन्नस्य किं मम पूर्वं पश्चाद् वा कर्तुं श्रेयः ? इत्यादिरूपः । अभिषेकश्चाभिषेकसभायां महदुर्ध्या सामानिकादिदेवकृतः विभूषणा च वस्त्रालंकारकृताऽलंकारसभायां व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिका च सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनं च सामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादिः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy