________________
भगवती वृत्ति
४०६
श.२: उ.७,८. सू.११७-११८ २१११७. 'जहा ठाणपए'त्ति यथा-यप्रकारा यादृशी प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'से'ति तथाप्रकारा भणितव्येति, नवरं 'भवणा
पण्णत्त' त्ति क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्-'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेढा वेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरिं च भवणावाससयसहस्सा भवंतीति मक्खाय'इत्यादि। तद्गतमेवाभिधेयविशेषं विशेषेण दर्शयति-"उववाएणं लोयस्स असंखेजइभागे'त्ति, उपपातो-भवनपतिस्वस्थानप्राप्त्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः लोकस्यासंख्येयतमे भागे वर्तन्ते भवनवासिन इति। 'एवं सव्वं भाणियब्वंति 'एवम्' उक्तन्यायेनान्यदपि भणितव्यं, तच्चेदम्-'समुग्घाएणं लोयस्स असंखेजइ भागे'त्ति मारणान्तिकादिसमुद्घातवर्तिनो भवनपतयो लोकस्यासंख्येय एव भागे वर्तन्ते । तथा 'संहाणेणं लोयस्स असंखेजे भागे' स्वस्थानस्य-उक्तभवनवाससातिरेककोटिसप्तकलक्षणस्य लोकासंख्येयभागवर्तित्वादिति, एवमसुरकुमाराणाम्, एवं तेषामेव दाक्षिणात्यानामौदीच्यानां, एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि कियद्रं यावदित्याह-'जाव सिद्धे'त्ति यावत् सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्-'कहि णं भंते ! सिद्धाणं ठाणा पण्णत्ता ?'इत्यादि। इह च देवस्थानाधिकारे यसिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा-'कप्पाण पइट्ठाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णत्ता ? गोयमा ! घणोदहिपइट्ठिया पण्णत्ता' इत्यादि, आह च
"घणउदहिपइटाणा सुरभवणा होति दोसु कप्पेसु । तिसु वाउपइटाणा तदुभयसुपइडिया तिसु य ॥
तेण परं उवरिमगा आगासंतरपइदिया सबे।" ति। तथा 'बाहल्ल'त्ति विमानपृथिव्याः पिंडो वाच्यः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पण्णत्ता ? गोयमा! सत्तावीसं जोयणसयाई'इत्यादि, आह च
"सत्तावीस सपाई आइमकप्पेसु पुढविबाहल्लं।
एक्किकहाणि सेसे दु दुगे य दुगे चउक्के य॥" ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव' त्ति कल्पविमानोच्चत्वं वाच्यं, तच्चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पण्णत्ता ? गोयमा ! पंचजोयणसयाई' इत्यादि, आह च
"पंच सउचत्तेणं आइमकप्पेतु होति उ विमाणा।
एक्वेकवुद्धि सेसे दु दुगे य दुगे चउक्के य॥" ग्रैवेयकेषु दशयोजनशतानि अनुत्तरेषु त्वेकादशेति। 'संठाणं'ति विमानसंस्थानं वाच्यम्, तथैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णत्ता ? गोयमा ! जे आवलियापविट्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति । उक्तार्थस्य शेषमतिदिशन्नाह जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्रतिपादनार्थः ।
॥द्वितीयशते सप्तमोद्देशकः ॥
अष्टम उद्देशकः अथ देवस्थानाधिकाराच्चमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्दशकः, तस्य चेदं सूत्रम्२।११८. 'कहि ण णमित्यादि, 'असुरिंदस्स'त्ति सचेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशवय॑सुरनिकायस्येत्यर्थः । 'उप्पायपव्वए'त्ति तिर्यग्
लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्युभस्से'त्यादि, तत्र गोस्तुभो लवणसमुद्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतस्तस्य चादिमध्यान्तेषु विष्कम्भप्रमाणमिदम्
"कमसो विक्खंभो से दसबावीसाइ जोयणसयाई। सत्तसए तेवीसे चत्तारिसए य चउबीसे॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org