________________
श.२: उ.५-७: सू.१०६-११६
४०८
भगवती वृत्ति २।१०६. 'से कहमेयं मण्णे एवं'ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति बहुजनवचनम्। २१११०. 'पभू णति 'प्रभवः' समर्थास्ते 'समिया णं ति सम्यगिति प्रशंसार्थो निपातस्तेन सम्यक् ते व्याकर्तुं वर्तन्ते अविपर्यासास्ते इत्यर्थः समञ्चन्तीति
वा सम्यञ्चः समिता वा-सम्यक्प्रवृत्तयः श्रमिता वा-अभ्यासवन्तः ‘आउज्जिय'त्ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः, 'पलिउज्जियंति परिसमन्तात् योगिकाः परिज्ञानिन इत्यर्थः परिजानन्तीति भावः । अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला, तद्दर्शनार्थमाह
२।१११. 'तहारूव'मित्यादि 'तथारूपम्' उचितस्वभावं कञ्चन पुरुषं श्रमणं वा तपोयुक्तम्, उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः, 'माहनं' वा स्वयं
हनननिवृत्तत्वात्परं प्रति मा हनेतिवादिनम्, उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः । वाशब्दौ समुच्चये, अथवा 'श्रमणः' साधुः 'माहनः' श्रावकः । 'सवणफले'ति सिद्धान्तश्रवणफला । 'णाणफले'त्ति श्रुतज्ञानफलं, श्रवणाद्धि श्रुतज्ञानमवाप्यते। 'विण्णाणफले'त्ति विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञानमुत्पद्यत एव । 'पच्चक्खाणफले'त्ति विनिवृत्तिफलं विशिष्टज्ञानो हि पापं प्रत्याख्याति । 'संजमफले' कृतप्रत्याख्यानस्य हि संयमो भवत्येव । 'अणण्हयफले'त्ति अनाश्रवफलः संयमवान किल नवं कर्म नोपादत्ते। 'तवफले'त्ति अनाश्रवो हि लघुकर्मत्वात्तपस्यतीति । 'वोदाणफले'त्ति व्यवदानं-कर्मनिर्जरणं, तपसा हि पुरातनं कर्म निर्जरयति। 'अकिरियाफले'त्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोध कुरुते । 'सिद्धिपज्जवसाणे'ति सिद्धिलक्षणं पर्यवसानफलं-सकलफलपर्यन्तवर्ति फलं यस्या सा तथा। 'गाह'त्ति संग्रहगाथा, एतल्लक्षणं, चैतद्-"विषमाक्षरपादं वा"इत्यादि छन्दःशास्त्रप्रसिद्धमिति ।
तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातथारूपस्य, असम्यग्भाषित्वादिति असम्यग्भाषितामेव केषाञ्चिद्दर्शयन्नाह२।११२. 'अन्नउत्थिये'त्यादि, 'पब्बयस्स अहे'त्ति अधस्तात्तस्योपरि पर्वत इत्यर्थः । 'हरए'त्ति ह्रदः 'अघे'त्ति अघाभिधानः क्वचित्तु 'हरए' त्ति न दृश्यते ।
अघेत्यस्य च स्थाने 'अप्पे'त्ति दृश्यते । तत्र चाप्यः-अपां प्रभवो हद एवेति । 'ओराल'त्ति विस्तीर्ण:-'बलाहय'-त्ति मेघाः 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति, 'संमुच्छंति'त्ति संमूर्च्छन्ति उत्पद्यन्ते 'तव्वइरित्ते य'त्ति ह्रदपूरणादतिरिक्तश्चोत्कलित इत्यर्थः। 'आउयाए'त्ति अप्कायः
'अभिनिस्सवइत्ति अभिनिःश्रवति क्षरति । २१११३. मिच्छं ते एवमाइक्खंति'त्ति मिथ्यात्वं चैतदाख्यानस्य विभंगज्ञानपूर्वकत्वात् प्रायः सर्वज्ञवचनविरुद्धत्वाद् व्यावहारिकप्रत्यक्षेण प्रायो
ऽन्यथोपलम्भाच्चावगन्तव्यम्। 'अदूरसामंते'त्ति नातिदूरे नाप्यतिसमीप इत्यर्थः 'एत्थ णं ति प्रज्ञापकेनोपदर्यमाने 'महातवोवतीरप्पभवे नाम पासवणे'त्ति आतप इवातपः-उष्णता महांश्चासावातपश्चेति महातपः महातपस्योपतीरं-तीरसमीपे प्रभव-उत्पादो यत्रासौ महातपोपतीरप्रभवः । प्रश्रवति-क्षरतीति प्रश्रवणः प्रस्यन्दन इत्यर्थः । 'वक्कमंति' उत्पद्यन्ते 'विउक्कमंति' विनश्यंति, एतदेव व्यत्ययेनाह–च्यवन्ते चेति उत्पद्यन्ते चेति । उक्तमेवार्थं निगमयन्नाह 'एस ण'मित्यादि 'एषः' अनन्तरोक्तरूपः एष चान्ययूथिकपरिकल्पिताघसज्ञो महातपोपतीरप्रभवः प्रश्रवण उच्यते, तथा 'एषः' योऽयमनन्तरोक्तः 'उसिणजोणीए'त्यादि स महातपोपतीरप्रभवस्य प्रश्रवणस्यार्थः-अभिधानान्वर्थः प्रज्ञप्तः इति ।
॥द्वितीयशते पञ्चमोद्देशकः ॥
षष्ठ उद्देशकः
पंचमोद्देशकस्यान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः, अथ षष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम्२।११५. से णूणं भंते ! मण्णामी'ति 'ओहारिणी भास'त्ति सेशब्दोऽथशब्दार्थे स च वाक्योपन्यासे, 'नूनम्' 'उपमानावधारणतर्कप्रश्नहेतुषु' इह अवधारणे
'भदन्त' इति गुमिन्त्रणे 'मन्ये' अवबुध्ये इति । एवमवधार्यते-अवगम्यतेऽनयेत्यवधारणी, अवबोधबीजभूतेत्यर्थः। भाष्यत इति भाषातद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम्। एष पदार्थः, अयं पुनर्वाक्यार्थ:-अथ भदन्त ! एवमहं मन्येऽवश्यमवधारणी भाषेति। एवममुना सूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादशं भणितव्यमिह स्थाने। इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायैर्विचार्यते।
॥द्वितीयशते षष्ठोद्देशकः ॥
सप्तम उद्देशकः
भाषाविशुद्धेर्देवा भवंतीति देवोद्देशकः सप्तमः, तस्य चेदं सूत्रम्२१११६. 'कइ ण'मित्यादि, 'कइ णति कति देवा जात्यपेक्षयेति गम्यम् । कतिविधा देवाः ? इति हृदयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org