________________
भगवती वृत्ति
श.२ः उ.५ः सू.६५-१०८
४०७ शरीरप्रभायुक्ताः‘वच्च॑सी’ति ‘वर्चस्विनः' विशिष्टप्रभावोपेताः 'वचस्विनो वा, विशिष्टवचनयुक्ताः 'जसंसी 'ति ख्यातिमतः अनुस्वारश्चैतेषु प्राकृतत्वात्, 'जीवियासमरणभयविप्पमुक्क' त्ति जीविताशया मरणभयेन च विप्रमुक्ता ये ते तथा ।
इह यावत्करणादिदं दृश्यं - 'तवप्पहाणा गुणप्पहाणा' गुणाश्च संयमगुणाः तपः संयमग्रहणं चेह तपःसंयमयोः प्रधानमोक्षाङ्गगताभिधानार्थं, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं - पिण्डविशुद्ध्यादि, चरणं - व्रतश्रमणधर्मादि 'निग्गहप्पहाणा' निग्रहः - अन्यायकारिणां दण्डः 'निच्छयप्पहाणा' निश्चयः– अवश्यकरणाभ्युपगमस्तत्त्वनिर्णयो वा 'मद्दवम्पहाणा अज्जवप्पहाणा' 'ननु जितक्रोधादित्वान्मार्द्दवादिप्रधानत्वमवगम्यत एव तत्किं मार्दवेत्यादिना ? उच्यते, तत्रोदयविफलतोक्ता, मार्दवादिप्रधानत्वे तूदयाभाव एवेति । 'लाघवप्पहाणा' लाघवं - क्रियासु दक्षत्वं 'खंतिप्पहाणा मुत्तिप्पहाणा एवं विज्जामंतवेयबंभनयनियमसञ्च्चसोयप्पहाणा' 'चारुपण्णा' सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा मित्राणि जीवानामिति गम्यम् 'अणियाणा अप्पुस्सुया अबहिल्लेसा सुसामण्णरया अच्छिद्दपसिणवागरणे' त्ति अच्छिद्राणि - अविरलानि निर्दूषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा 'कुत्तियावणभूय'त्ति कुत्रिकं स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्संभवं वस्त्वपि कुत्रिकं तत्संपादक आपणो - हट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनलब्धियुक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः 'सद्धिं 'ति सार्द्धं सहेत्यर्थः 'संपरिवृताः' सम्यक्परिवारिताः परिकरभावेन परिकरिता इत्यर्थः पंचभिः श्रमणशतैरेव ।
२। ६६. 'सिंघाडग 'त्ति शृङ्गाटकफलाकारं स्थानं, त्रिकं—- रथ्यात्रयमीलनस्थानं, चतुष्कं —- रथ्याचतुष्कमीलनस्थानं चत्वरं - बहुतररथ्यामीलनस्थानं, महापथोराजमार्गः, पन्था - रथ्यामात्रम् । यावत्करणाद् 'बहुजणसद्दे इ वा इत्यादि पूर्वं व्याख्यातमत्र दृश्यम् ।
२ । ६७. 'पडिसुर्णेति त्ति अभ्युपगच्छंति 'सयाई' ति स्वकीयानि 'कयबलिकम्म'त्ति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयकोउयमंगलपायच्छित्त' त्ति कृतानि कौतुकमंगलान्येव प्रायश्चित्तानि दुःस्वप्रादिविधातार्थमवश्यकरणीयत्वाद्यैस्तै तथा । अन्ये त्वाहुः 'पायच्छित्त'त्ति पादेन पादे वा छुप्ताश्चक्षुर्दोषपरिहारार्थं पादच्छुप्ताः' कृतकौतुकमंगलाश्च ते पादच्छुप्ताश्चेति' विग्रहः । तत्र कौतुकानि - मषीतिलकादीनि मंगलानि तु - सिद्धार्थकदध्यक्षतदूर्वांकुरादीनि । 'सुद्धप्पावेसाई'ति शुद्धात्मनां वैष्याणि - वेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च राजादि - सभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय'त्ति क्वचित् दृश्यते, क्वचिच 'वत्थाई पवरपरिहिय'त्ति, तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु प्रवरं यथाभवत्येवं परिहिताः प्रवरपरिहिताः 'पायविहारचारेणं' ति पादविहारेण न यानविहारेण यश्चारो-गमनं स तथा तेन ।
'अभिगमेणं'ति प्रतिपत्त्या अभिगच्छंति तत् समीपम् अभिगच्छन्ति 'सचित्ताणं 'ति पुष्पताम्बूलादीनां 'विउसरणयाए 'त्ति 'व्यवसर्जनया' त्यागेन 'अचित्ताणं'ति वस्त्रमुद्रिकादीनाम् 'अविउसरणयाए 'त्ति अत्यागेन 'एगसाडिएणं' ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् 'उत्तरासंगकरणेणं'ति उत्तरासंगः- उत्तरीयस्य देहे न्यासविशेषः 'चक्षुःस्पर्शे' दृष्टिपाते 'एगत्तीकरणेणं'ति अनेकत्वस्य - अनेकालम्बनत्वस्य एकत्वकरणम् — एकालम्बनत्वकरणमेकत्रीकरणं तेन 'तिविहाए पञ्चवासणाए 'त्ति इह पर्युपासनात्रैविध्यं मनोवाक्कायभेदादिति ।
२। ६८. 'महइमहालियाए 'त्ति आलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः ।
२ । १००. 'अणण्यफले 'त्ति न आश्रवः अनाश्रवः अनाश्रवो - नवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः 'वोदाणफले 'त्ति 'दापू लवने' अथवा पू शोधने' इति वचनाद् | व्यवदानं - पूर्वकृतकर्म्मवनगहनस्य लवनं प्राक्कृतकर्म्मकचवरशोधनं वा फलं यस्य तद्व्यवदानफलं तप इति ।
२ । १०१. 'किंपत्तियं'ति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम् ? निष्कारणमेव देवा देवलोकेषूत्पद्यते तपःसंयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः ।
२ । १०२. 'पुव्वतवेणं'ति पूर्वतपः – सरागावस्थाभावितपस्या, वीतरागावस्थापेक्षया सरागावस्थायाः पूर्वकालभावित्वात् एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः । ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् ।
'कम्मियाए 'त्ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्म्मितया । अन्ये त्वाहुः - कर्म्मणां विकारः कार्मिका तयाऽक्षीणेन कर्म्मशेषेण देवत्वावाप्तिरित्यर्थः। ‘संगियाए 'त्ति संगो यस्यास्ति स संगी तभावस्तत्ता तया, ससंगो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बध्नाति ततः संगितया देवत्वावाप्तिरिति । आह च
"पुब्बतवसंजमा होंति रागिणो पच्छिमा अरागस्स । रागोसंगो वुत्तो संगा कम्मं भवो तेणं ॥ "
'सच्चे ण'मित्यादि सत्योऽयमर्थः कस्मात् ? इत्याह- 'नो चेव णमित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः आत्मभाव एव - स्वाभिप्राय एव न वस्तुतत्त्वं वक्तव्य - वाच्योऽभिमानाद् येषां ते आत्मभाववक्तव्यास्तेषां भाव-आलभाववक्तव्यता- अहंमानिता तया न वयमहंमानितयैवं ब्रूमः अपि तु परमार्थ एवायमेवंविध इति भावना ।
२ । १०७. ‘अतुरियं 'ति कायिकत्वरारहितम् 'अचवलं 'ति मानसचापल्यरहितम् 'असंभंते' त्ति असंभ्रान्तज्ञान: 'घरसमुदाणस्स' गृहेषु समुदानं - भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय भिक्खायरियाए 'त्ति भिक्षासमाचारेण ।
२ । १०८. 'जुगंतरपलोयणाए 'त्ति युगं - यूपस्तत्प्रमाणमन्तरं - स्वदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्ट्या 'रियं' ति ईयाँ गमनम् ।
9. पादलुप्ता (ख.ग. घ.)
Jain Education International
२. पादलुप्ता (ख.ग.घ.)
For Private & Personal Use Only
www.jainelibrary.org