________________
श.२: उ.५: सू.८५-६५
४०६
भगवती वृत्ति २११८. 'इत्थीए पुरिसस्स य'इत्येतस्य 'मेहुणवत्तिए नामं संयोगे समुप्पज्जति' इत्यनेन सम्बन्धः कस्यामसौ उत्पद्यते ? इत्याह-'कम्मकडाए जोणीए'त्ति
नामकर्मनिवर्तितायां योनौ अथवा कर्म-मदनोद्दीपको व्यापारस्तत् कृतं यस्यां सा कर्मकृताऽतस्तस्यां मैथुनस्यवृत्तिः-प्रवृत्तियस्मिन्नसौ मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ स्वार्थिके कप्रत्यये मैथुनप्रत्ययिकः 'नाम'ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः संयोगः संपर्कः। 'ते' इति स्त्रीपुरुषौ 'दुहओ'त्ति उभयतः 'स्नेह' रेतः शोणितलक्षणं 'संचिनुतः' सम्बन्धयतः इति । 'मेहुणवत्तिए नामं संजोए'त्ति प्रागुक्तम् ।
अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रम्२।१६. 'रूयनालियं वत्ति रूतं-कर्पासविकारस्तभृता नालिका-शुषिरवंशादिरूपा रूतनालिका ताम्। एवं बूरनालिकामपि, नवरं बूरं-वनस्पति
विशेषावयवविशेषः। 'समभिद्धंसेज'त्ति रूतादिसमभिध्वंसनात्, इह चायं वाक्यशेषो दृश्यः-एवं मैथुन सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्। एते च किल ग्रन्थान्तरे पञ्चेन्द्रिया श्रूयन्ते इति । 'एरिसएण'मित्यादि च निगमनमिति।
पूर्व तिर्यङ्मनुष्योत्पत्तिर्विचारिता, अथ देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह२१६४. 'अड्ड'त्ति आढ्या धनधान्यादिभिः परिपूर्णाः 'दित्त'त्ति दीप्ताः-प्रसिद्धाः दृप्ता वा दर्पिताः 'विच्छिन्नविपुलभवणसयणासणजाणवाहणा'
विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयानवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तारणानि-विपुलानि भवनानि येषां शयनासनयानवाहनानि चाकीर्णानि गुणवन्ति येषां ते तथा, तत्र यानं-गव्यादि, वाहनं तु-अश्वादि 'बहुधणबहुजायरूवरयया' बहु-प्रभूतं धनं-गणिमादिकं तथा, बहु एव जातरूपं-सुवर्णं रजतं च रूप्यं येषां ते तथा, 'आओगपोगसंपउत्ता' आयोगो-द्विगुणादिवृद्ध्याऽर्थप्रदानं प्रयोगश्च-कालान्तरं तौ संप्रयुक्तौ--व्यापारितौ यैस्ते तथा, 'विच्छड्डियविउलभत्तपाणा' विच्छर्दितं-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसंभवात् विच्छर्दितं वा-विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलका-उरभ्राः 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः 'आसवे'त्यादौ क्रिया:-कायिक्यादिकाः 'अधिकरणं' गंत्रीयंत्रकादि 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेजे' त्यादि अविद्यमानं साहाय्यं-परसाहायकं अत्यन्तसमर्थत्वाद् येषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः अथवा व्यस्तमेवेदं तेनासाहाय्या आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाजिनशासनात्यन्तभावितत्वाच्चेति, तत्र देवा-वैमानिकाः 'असुरे'ति असुरकुमाराः 'नाग'त्ति नागकुमाराः उभयेऽप्यमी भवनपतिविशेषाः 'सुवण्ण'त्ति सवर्णाः ज्योतिष्काः यक्षराक्षसकिंनरकिंपुरुषा:-व्यन्तरविशेषाः 'गरुल'त्ति गरुडध्वजाः सुपर्णकुमारा:-भवनपतिविशेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः 'अणतिकमणिज्जत्ति अनतिक्रमणीयाः-अचालनीयाः। 'लद्धट्ठ'त्ति अर्थश्रवणात् 'गहियट्ठ'त्ति अर्थावधारणात् 'पुच्छियट्ठ'त्ति सांशयिकार्थप्रश्नकरणात्' 'अभिगहियट्ट'त्ति प्रश्नितार्थस्याभिगमनात् 'विणिच्छियट्ठ'त्ति ऐदम्पर्यार्थस्योपलम्भाद् अत एव 'अडिमिंजपेम्माणुरागरत्ता' अस्थीनि च-कोकसानि मिञा च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवाऽस्थिमिजासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा। केनोल्लेखेन ? इत्याह 'अयमाउसो'इत्यादि, अयमिति-प्राकृतत्वादिदम् ‘आउसो'त्ति आयुष्मन्निति पुत्रादेरामंत्रणं 'सेसे'त्ति शेष-निर्ग्रन्थप्रवचनव्यतिरक्तं धनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति, 'ऊसियफलिह'त्ति उशितम्-उन्नतं स्फटिकमिव स्फटिक चित्तं येषां ते उतिस्फटिकाः मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या। अन्ये त्वाहुः-उशितः-अर्गलास्थानादपनीयोर्वीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिष:-अर्गला येषां ते उशितपरिघाः, अथवोट्टितो-गृहद्वारादपगतः परिघो येषां ते उशितपरिघाः औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा' इत्यर्थः। 'अवंगुयदुवारे'ति अप्रावृतद्वारा-कपायदिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पाषण्डिका बिभ्यति, शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या। अन्ये त्याहु:-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः । 'चियत्तंतेउरघरम्पवेसा' 'चियत्तो'त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशंकनीयास्त इत्यर्थः । अन्ये त्याहु:-'चियत्तो'त्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः-शिष्टजनप्रवेशनं येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति। अथवा 'चियत्तो'त्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथंचिप्रवेशो यैस्ते तथा।। 'बहुहिं'इत्यादि शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-औचित्येन रागादिनिवृत्तयः प्रत्याख्यानानि-पौरुष्यादीनि पौषधंपर्वदिनानुष्ठानं तत्रोपवास:--अवस्थानं पौषधोपवासः, एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम्। पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति, तद्दर्शयन्नाह-'चाउद्दसे'त्यादि, इहोद्दिष्य-अमावस्या पडिपुण्णं पोसहति आहारादिभेदाच्चतुर्विधमपि सर्वतः । 'वत्थपडिग्गहकंबलपायपूंछणेणं' ति इह पतद्ग्रह-पात्रं पादप्रोञ्छनं-रजोहरणं 'पीढे त्यादि पीठम-आसनं फलकं-अवष्टाभनफलक
शय्या-वसतिद्धृहत्संस्तारको वा संस्तारको लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहिति यथाप्रतिपन्नैर्न पुनहसिं नीतैः । २५. 'थेर'त्ति श्रुतवृद्धः, 'रूवसम्पन्न'त्ति इह रूपं–सुविहितनेपथ्यं शरीरसुन्दरता वा तेन सम्पन्ना-युक्ता रूपसंपन्नाः 'लज्जासंपन्ना लाघवसंपन्ने'त्ति
लज्जा-प्रसिद्धा संयमो वा लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्यागः, 'ओयंसी ति ओजस्विनो मानसावष्टम्भयुक्ताः 'तेयंसी ति 'तेजस्विनः,
१. प्रवेशार्थ क. घ. च. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org