________________
भगवती वृत्ति
४०५
श.२: उ.४,५: सू.७७-८६
अथ किमन्तोऽयमुद्देशकः ? इत्याह-'यावदलोकः' अलोकसूत्रान्तः, तच्चेदम्
२१७८. 'अलोगे णं भंते ! किणा फुडे कइहिं वा काएहिं फुडे ? गोयमा ! नो धम्मस्थिकाएणं फुडे जाव नो आगासस्थिकाएणं फुडे, आगासस्थिकायस्स
देसेणं फुडे आकासस्थिकायस्स पएसेहिं फुडे, नो पुढविकाइएणं फुडे जाव नो अद्धासमएणं फुडे, एगे अजीवदव्वदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे'त्ति। नालोको धर्मास्तिकायादिना पृथिव्यादिकायैः समये च स्पृष्टो-व्याप्तः, तेषां तत्रासत्त्वात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वात्, एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति।
॥द्वितीयशते चतुर्थोद्देशकः॥
पंचम उद्देशकः
अनन्तरमिन्द्रियाण्युक्तानि तद्वशाच्च परिचारणा स्यादिति तन्निरूपणाय पञ्चमोदेशकस्येदमादिसूत्रम्२१७६. 'देवभूएणं ति देवभूतेनात्मना करणभूतेन नो परिचारयतीति योगः | ‘से णं'ति असौ निर्ग्रन्थदेवः 'तत्र' देवलोके 'नो' नैव 'अण्णे'त्ति 'अन्यान्'
आत्मव्यतिरिक्तान् ‘देवान्' सुरान् तथा नो अन्येषां देवानां सम्बन्धिनीर्देवीः 'अभिजुंजिय'त्ति 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभुक्ते णो 'अप्पणिच्चियाओ'त्ति आत्मीयाः 'अप्पणामेव अप्पाणं विउव्विय'त्ति स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते-'एगे वि य ण'मित्यादि 'परउत्थियवत्तव्वा णेयव्य'त्ति एवं चेयं ज्ञातव्या-'जं समयं इस्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ तं समयं इस्थिवेयं वेएइ, इस्थिवेयस्स वेयणाए पुरिसवेयं देएइ, पुरिसवेयस्स वेयणाए इत्थीवेयं वेएइ, एवं खलु एगेऽवि य ण'मित्यादि। मिथ्यात्वं चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव, न
पुरुषवेदस्योदयः, परस्परविरुद्धत्वादिति । २१८०. 'देवलोएसु'त्ति देवजनेषु मध्ये 'उववत्तारो भवंति'त्ति प्राकृतशैल्या उपपत्ता भवतीति दृश्यं, 'महिड्डिए'इत्यत्र यावत्करणादिदं दृश्य-'महजइए
महाबले महायसे महासोक्खे महाणुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका-बाहुरक्षिका 'अंगयकुंडलमट्ठगंडकण्णपीढधारी' अंगदानि-बाह्याभरणविशेषान, कुंडलानि–कर्णाभरणविशेषान्, मृष्टगण्डानि च-उल्लिखितकपोलानि, कर्णपीठानि–कर्णाभरणविशेषान् धारयतीत्येवंशीलो यः स तथा, 'विचित्तहत्याभरणे विचित्तमालामउलिमउडे' विचित्रमाला च-कुसुमसग् मौलौ-मस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उज्जोवेमाणे'त्ति तत्र ऋद्धि:-परिवारादिका, युतिः-इटार्थसंयोगः, प्रभा-यानादिदीप्तिः, छाया-शोभा, अर्चि:-शरीरस्थरत्नादितेजोज्वाला, तेजः-शरीरार्चिः, लेश्या-देहवर्णः, एकार्थावते, उद्द्योतयन्, प्रकाश करणेन, 'पभासेमाणे'त्ति प्रभासयन् शोभयन् । इह यावत्करणादिदं दृश्यं–'पासाइए' द्रष्ट्टणां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न थाम्यति 'अभिरूवे' मनोज्ञरूपः 'पडिरूवे'त्ति द्रष्टारं द्रष्यरं प्रति रूपं यस्य स तथेति । एकेनैकदैक एव वेदो वेद्यत इह कारणमाह-'इत्थी इस्थिवेएण'मित्यादि ।
परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र२।८१. 'उदगगब्बे णं'क्वचित् 'दगगब्बे णति दृश्यते तत्रोदकगर्भः-कालान्तरेण जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्य चावस्थानं जघन्यतः समयः
समयानन्तरमेव प्रवर्षणात्। उत्कृष्टतस्तु षण्मासान्, षण्णां मासानामुपरि वर्षणात्। अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिंगो भवति । यदाह
"पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्पर्य मार्गशिरे शीतं पोषेऽतिहिमपातः॥"
२११४. 'कायभवत्थे णं भंते !'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो-जन्म स कायभवस्तत्र तिष्ठति यः स कायभवस्थः स च
कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः 'चउव्वीसं संवच्छराईति स्त्रीकाये द्वादश वर्षाणि स्थित्वा पुनर्मृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिवर्षाणि भवन्ति। केचिदाहुः-द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते द्वादशवर्षस्थितिरिति।
२।८६. 'एगजीवे णं भंते !'इत्यादि, मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान् यावद् योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि वीज
गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजस्वामिनां सर्वेषां पुत्रो भवतीत्यत उक्तम्-'उकोसेणं सयपुहुत्तस्से'त्यादि। 'सयसहरसपुहुत्त'ति मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भ उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति। मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org