________________
श.२: उ.३,४: सू.७५-७७
४०४
भगवती वृत्ति
तृतीय उद्देशकः अथ तृतीय आरभ्यते । अस्य चायमभिसम्बन्धः-द्वितीयोद्देशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्घातः तेन समवहता केचि
त्पृथिवीषूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्२।७५. 'कइ णं भंते ! पुढवीओ'इत्यादि, इह च जीवाभिगमे नारकद्वितीयोद्देशकार्थसंग्रहगाथा
"पुढवी ओगाहित्ता निरया संठाणमेव बाहल्लं ।
विक्खंभपरिक्खेवो वण्णो गंयो य फासो य॥" सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितं शेषाणां विवक्षितार्थानां यावच्छब्देन सूचितत्वादिति। तत्र 'पुढवि'त्ति पृथिव्यो वाच्याः ताश्चैवम्-'कइ णं भंते ! पुढवीओ पण्णत्ताओ ? गोयमा ! सत्त, तंजहा-रयणप्पभे'त्यादि। 'ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियद्रे नरकाः ? इति वाच्यं, तत्रास्यां रत्नप्रभायामशीतिसहस्रोत्तरयोजनलक्षबाहल्यायामुपर्येक योजनसहस्रमवग्राह्याधोऽप्येकं वर्जयित्वा त्रिंशन्नरकलक्षाणि भवन्ति । एवं शर्कराप्रभादिषु यथायोगं वाच्यम् । 'संठाणमेव'त्ति नरकसंस्थानं वाच्यम्। तत्र ये आवलिकाप्रविष्टस्ते वृत्तालयस्राश्चतुरस्राश्च, इतरे तु नानासंस्थानाः। 'बाहल्लं'ति नरकाणां बाहल्यं वाच्यं, तच्च त्रीणि योजनसहस्राणि, कथम् ? अध एक मध्ये शुषिरमेकमुपरि च संकोच एकमिति । 'विक्खंभपरिक्खेवो'त्ति एतौ वाच्यौ । तत्र संख्यातविस्तृतानां संख्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति ।
तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्य इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत२१७६. 'किं सव्वपाणा ?'इत्यादि, अस्य चैवं प्रयोगः-अस्यां रलप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादयः उत्पन्नपूर्वाः ? अत्रोत्तरम्-'असइंति
असकृद्-अनेकशः। इदं च वेलाद्वयादावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह–'अदुव'त्ति अथवा 'अणंतखुत्तो'त्ति 'अनन्तकृत्वः' अनन्तवारानिति ।
॥द्वितीयशते तृतीयोद्देशकः ॥
चतुर्थ उद्देशकः ततीयोद्देशके नारका उक्ताः, ते च पंचेन्द्रिया इतीन्द्रियप्ररूपणाय चतुर्थोद्देशकः तस्य चादिसूत्रम्२१७७. 'कइ ण'मित्यादि, 'पढमिल्लो इंदियउद्देसओ नेयव्वोत्ति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पंचदशपदस्य प्रथम उद्देशकोऽत्र 'नेतव्यः'अध्येतव्यः । तत्र च द्वारगाथा
"संठाणं बाहल्लं पोहत्तं कइपएसओगाढे।
अप्पाबहुपुटुपविद्वविसय अणगार आहारे ||" इह च सूत्रपुस्तकेषु द्वारत्रयमेव लिखितं शेषास्तु तदर्था यावच्छब्देन सूचिताः। तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं, मसूरकम्-आसनविशेषश्चन्द्रः-शशी, अथवा मसूरकचन्द्रो-धान्यविशेषदलं । घ्राणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितं, अतिमुक्तचन्द्रकः-पुष्पविशेषदलं, रसनेन्द्रियं क्षुरप्रसंस्थितं, स्पर्शनेन्द्रियं नानाकारम् । 'बाहल्लं'ति इन्द्रियाणां बाहल्यं वाच्यं, तच्चेदं सर्वाण्यंगुलासंख्येयभागबाहल्यनि । 'पोहत्तंति पृथुत्वं, तच्चेदं श्रोत्रचक्षुर्घाणानामंगुलासंख्येयभागो जिह्वेन्द्रियस्यांगुलपृथक्त्वं, स्पर्शनेन्द्रियस्य च शरीरमानम् । 'कइपएस'त्ति अनन्तप्रदेशनिष्पन्नानि पञ्चापि ओगाढे'त्ति असंख्येयप्रदेशावगाढानि । 'अप्पाबहु'त्ति सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघ्राणरसनेन्द्रियाणि क्रमेण संख्यातगुणानि ततः स्पर्शनं त्वसंख्येयगुणमित्यादि। 'पुट्ठपविट्ठ'त्ति श्रोत्रादीनि चर्रहितानि स्पृष्टमर्थं प्रविष्टं च गृह्णन्ति । 'विसय'त्ति सर्वेषां जघन्यतोऽङ्गुलस्यासंख्येयभागो विषयः उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेक लक्षं, शेषाणां च नव योजनानीति। 'अणगारे'त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यो पशयतीति । 'आहारे'त्ति निर्जरापुद्गलान्नारकादयो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org