________________
४०३
भगवती वृत्ति
श.२: उ.१,२ः सू.६६-७४ योगिनः। आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'विउलं'ति विपुलं विपुलाभिधानं 'मेघघणसंनिगासं'ति घनमेघसदृशंसान्द्रजलदसमानं कालकमित्यर्थः 'देवसंनिवार्य'ति देवानां संनिपातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढविसिलापट्टयं ति पृथ्वीशिलारूपः पट्टकः-आसनविशेषः पृथिवीशिलापट्टकः काष्ठशिलाऽपि शिला स्यादतस्तदव्यवच्छेदाय पृथिवीग्रहणम् । 'संलेहणाजूसणाजूसियस्स'त्ति संलिख्यते-कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्ट: सेवितो जूषितो वा क्षपितो यः स तथा तस्य "भत्तपाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य 'कालं ति मरणं 'तिकट्ट' इतिकृत्वा इदं विषयीकृत्य । “एवं संपेहेइ'त्ति ‘एवम् उक्तलक्षणमेव
'संप्रेक्षते' पर्यालोचयति संगतासंगतविभागतः । २६८. 'उच्चारपासवणभूमि पडिलेहेइ'त्ति पादपोपगमनादारादुच्चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थकम् । 'संपलियंकनिसण्णे'त्ति पद्मा
सनोपविष्टः 'सिरसावत्तं'ति शिरसाऽप्राप्तम्-अस्पृष्टम्, अथवा शिरसि आवर्त आवृत्तिरावर्तनं—परिभ्रमणं यस्यासौ सप्तम्यलोपा
च्छिरस्यावतस्तम्। २१६६. 'सढि भत्ताई'ति प्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैः षष्टिभक्तानि त्यक्तानि भवन्ति 'अणसणाए'त्ति प्राकृतत्वादनशनेन 'छेइत्त'त्ति 'छित्त्वा'
परित्यज्य 'आलोइयपडिकते'त्ति आलोचितं गुरूणां निवेदितं यदतिचारजातं तत्, प्रतिक्रान्तम् -अकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः
अथवाऽऽलोचितश्चासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः।। २१७०. परिणिबाणवत्तियंति परिनिर्वाणं-मरणं तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽतस्तं । २१७१. 'कहिं गए'त्ति कस्यां गतौ 'कहिं उबवण्णे'त्ति व देवलोकादौ ? इति ।
२।७२. 'एगइयाणं'ति एकेषां न तु सर्वेषाम् ।। २।७३. 'आउक्खए 'ति आयुष्ककर्मदलिकनिर्जरणेन, 'भवक्खएणं'ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन 'ठितिक्खएणं'ति आयुष्ककर्मणः
स्थितेर्वेदनेन 'अणंतरं'ति देवभवसम्बन्धिनं 'चय'न्ति शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा 'चर्य'ति च्यवं--च्यवनं 'चइत्त'त्ति च्युत्वा कृत्वाऽनन्तरं क्व गमिष्यति ? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति।
॥द्वितीयशते प्रथमोद्देशकः ॥
द्वितीय उद्देशकः
अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्ध:-केण वा मरणेण मरमाणे जीवे वड्डइ ति प्रागुक्तं, मरणं च मारणान्तिकसमुद्घातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
२१७४. 'कइ णं भंते ! समुग्याए'त्यादि तत्र 'हन् हिंसागत्योः' इति वचनाद् हननानि-याताः सम्-एकीभावे उत्-प्राबल्येन ततश्चैकीभावेन प्राबल्येन
च घाताः समुद्घाताः, अथ केन सहैकीभावः ? उच्यते----यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः । अथ प्राबल्येन घाताः कथम् ? उच्यते यस्माद् वेदनादिसमुद्धातपरिणतो बहून वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्थन् शातयतीत्यर्थः, अतः प्राबल्येन धाता इति। 'सत्त समुग्घाय'त्ति वेदनासमुद्घातादयः । एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह-'छाउमथिए'त्यादि, 'छाउमस्थियसमुग्घायवज्र'ति 'कइ णं भंते ! छाउमधिया समुग्धाया पण्णत्ता' इत्यादिसूत्रवर्जितं 'समुग्घायपयंति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं तच्चैवम्-'कइ णं भंते! समुग्घाया पण्णत्ता ? गोयमा ! सत्त समुग्धाया पण्णत्ता, तंजहा–वेयणासमुग्घाए कसायसमुग्धाए'इत्यादि। इह संग्रहगाथा
"वेयण कसाय मरणे वेउब्बिय तेयए य आहारे ।
केवलिए चेव मवे जीवमणुस्साण सत्तेव ।।" जीवपदे मनुष्यपदे च सप्त वाच्याः । नारकादिषु तु यथायोगमित्यर्थः । तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्मपुद्गलानां, वैकुर्विकसमुद्घातेन तु समुद्धतो जीवप्रदेशान् शरीराद् बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च संख्येययोजनानि दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् निसिरित्ता प्राग्बद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यधोक्तम्-'वेउब्वियसमुग्याएणं समोहण्णइ समोहणित्ता संखेजाई जोयणाई दण्डं निसिरइ, निसिरित्ता अहाबायरे पोग्गले परिसाडेइ, अहासुहमे पोग्गले आइयइ"त्ति एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ। केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वेष्वपि समुद्घातेषु शरीराज्जीवप्रदेशनिर्गमोऽस्ति । सर्वे चैतेऽन्तर्मुहूर्तमानाः नवरं केवलिकोऽष्टसामयिकः। एतेचैकेन्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पंचेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति।
॥द्वितीयशते द्वितीयोद्देशकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org