________________
भगवती वृत्ति
४०२
श. २: उ.१: सू. ६१-६६
२ । ६१. 'गुणरयणसंवच्छरं' ति गुणानां - निर्जराविशेषाणां रचनं करणं संवत्सरेण -सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरचनसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तद्गुणरलसंवत्सरं तपः, इह च त्रयोदशमासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायमू
"पण्णरसवीसचउव्वीस चेव चउवीस पण्णवीसा य । चवीस एकवीसा चवीसा सत्तवीसा य ॥ तीसा तेत्तीसावि व चब्बीस छवीस अडवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ पण्णरस दसट्ठछष्पंचचउरपंचसु य तिण्णि तिष्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥ "
इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि, अधिकानि चाग्रेतनमासे क्षेप्तव्यानि ।
२ । ६२. 'चउत्थं चउत्थेणं'ति चतुर्थं भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम् इयं चोपवासस्य संज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अणिक्खित्तेणं' ति अविश्रान्तेन ‘दिय’त्ति दिवा दिवस इत्यर्थः, 'ठाणुक्कुडुए 'त्ति स्थानम् - आसनमुत्कुटुकम् - आधारे पुतालगनरूपं यस्यासौ स्थानोत्कुटुकः 'वीरासणेणं'ति सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्यैव यदवस्थानं तद् वीरासनं तेन 'अवाउडेण य'त्ति प्रावरणाभावेन च ।
२। ६४. ‘ओरालेण’मित्यादि 'ओरालेन' आशंसारहिततया प्रधानेन प्रधानं चाल्पमपि स्यादित्याह – 'विपुलेन' विस्तीर्णेन बहुदिनत्वात् विपुलं च गुरुभिरननुज्ञातमपि स्यात् प्रयत्नकृतं वा स्यादत आह-पयत्तेणं' ति प्रदत्तेनानुज्ञातेन गुरुभिः प्रयतेन वा प्रयत्नवता - प्रमादरहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह - 'प्रगृहीतेन' बहुमानप्रकर्षादाश्रितेन, तथा 'कल्याणेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' धर्मधनसाधुना 'मांगल्येन' दुरितोपशमसाधुना 'सश्रीकेण' सम्यक्पालनात् सशोभेन 'उदग्रेण ' उन्नतपर्यवसानेन उत्तरोत्तरं वृद्धिमतेत्यर्थः 'उदात्तेन' उन्नतभाववता 'उत्तमेणं'ति ऊर्ध्वं तमसः - अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थः उत्तमपुरुषासेवितत्वाद् वोत्तमेन 'उदारेण' औदार्यवता निःस्पृहत्वातिरेकात् 'महानुभागेन' महाप्रभावेण 'सुक्के 'त्ति शुष्को नीरसशरीरत्वात् 'लुक्खे'त्ति बुभुक्षावशेन रूक्षीभूतत्वात्, अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः किटिकिटिकानिर्मांसास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूतः - प्राप्तो यः स किटिकिटिकाभूतः 'कृशः ' दुर्बलः ‘धमनीसंततो' नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात् ।
'जीवंजीवेणं' ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीवबलेन गच्छति न शरीरबलेनेत्यर्थः । 'भासं भासित्ते 'त्यादौ कालत्रयनिर्देश: 'गिलाइ 'त्ति ग्लायति ग्लानो भवति ।
‘से जहानामए'त्ति ‘से’त्ति यथार्थः यथेति दृष्टान्तार्थः नामेति संभावनायाम् 'इति' वाक्यालंकारे 'कट्ठसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका ‘पत्तसगडिय'त्ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानां भाण्डकानां च मृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिलसंठगसगडिय'त्ति क्वचित्पाठः प्रतीतार्थः । 'एरण्डकट्टसगडिय'त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या अतिशयेन गमनादौ सशब्दत्वं स्यादिति 'अंगारशकटिका' अंगारभृता मंत्री 'उण्हे दिण्णा सुक्का समाणी'ति विशेषणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासंभवमायोज्यमिति । हुताशन इव भस्मराशिप्रतिच्छन्नः 'तवेणं तेएणं 'ति तपोल क्षणेन तेजसा, अयमभिप्रायः यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति। एवं स्कन्दकोऽपि अपचितमांसशोणितत्वाद् बहिर्निस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति ।
उक्तमेवार्थमाह
२ । ६६. ‘पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रश्च—रात्रेः भाग : अपरात्रश्च — अपकृष्टा रात्रिः पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् पुव्वरत्तावरत्तकालसमयंसि 'त्ति स्याद्, धर्मजागरिकां जाग्रतः - कुर्वत इत्यर्थः, 'तं अत्थि ता मे त्ति देवमप्यस्ति तावन्मम उत्थानादि न सर्वथा क्षीणमिति भावः ।
'तं जाव ता मे अत्थि' त्ति तत् तस्माद्यावता इति भाषामात्रे 'मे' ममास्ति 'जाव य'त्ति यावच्च 'सुहत्थि त्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवन्निर्वाणे शोकदुःखभाजनं मा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति ।
‘कल्लमि’त्यादि, ‘कल्लं’ति श्वः प्रादुः- प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं - विकसितं तच्च तदुत्पलं च फुल्लोत्पलं तच्च कमलश्च - हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम् - अकठोरमुन्मीलितं — दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् ‘अथे’ति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुकमुखस्य गुंजार्द्धस्य च रागेण सदृशो यः स तथा तस्मिन्, तथा कमलाकरा - हृदादयस्तेषु षण्डानि - नलिनीषण्डानि तेषां बोधको यः स कमलाकरषण्डबोधकस्तस्मिन् 'उत्थिते' अभ्युद्गते, कस्मिन् ? इत्याह- सूरे, पुनः किम्भूते ? इत्याह - राहस्सरस्सिमीत्यादि ।
'कडाईहिं' ति इह पदैकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात्, तत्र कृता योगाः – प्रत्युपेक्षणादिव्यापारा येषां सन्ति ते कृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org