________________
भगवती वृत्ति
४०१
श.२: उ.१: सू.५३-६०
व्याधयः आतंकास्त एव सद्योघातिनः 'परीसहोवसम्पत्ति अस्य मा णमित्यनेन सम्बन्धः स्पृशन्तु छुपन्तु भवन्त्वित्यर्थः । 'त्तिकट्ट'इत्यभिसंधाय यः पालित इति शेषः, स किम् ? इत्याह–'एस मे इत्यादि। 'तं इच्छामि त्ति तत्तस्मादिच्छामि 'सयमेव'त्ति स्वयमेव भगवतैवेत्यर्थः प्रव्राजितं रजोहरणादिवेषदानेनात्मानमिति गम्यते। भावे वा क्तप्रत्ययस्तेन प्रव्राजनमित्यर्थः, मुण्डितं शिरोलुंचनेन 'सेहावियं'ति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतः । तथाऽऽचार:-श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि, गोचरो-भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः। तथा विनयः-प्रतीतो, वैनयिकं-तत्फलं कर्मक्षयादि, चरणं-व्रतादि, करणं-पिण्डविशुद्ध्यादि, यात्रा-संयमयात्रा, मात्रा-तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः-वर्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम् 'आख्यातम्' अभिहितमिच्छामीति योगः | 'एवं देवाणुप्पिया ! गंतव्य'ति युगमात्रभून्यस्तदृष्टिनेत्यर्थः ‘एवं चिट्ठियव्य'ति निष्कमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थानेन स्थातव्यम्, ‘एवं निसीइयव्वं'ति, "निषत्तव्यं' उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः ‘एवं तुयट्टियव्वं ति शयितव्यं सामायिकोच्चारणादिपूर्वकं ‘एवं भुंजियवं'ति धूमांगारादिदोषवर्जनतः ‘एवं भासियव्वं'ति मधुरादिविशेषणोपपन्नतयेति 'एवमुत्थायोत्थाय' प्रमादनिद्राव्यपोहेन विबुद्ध्य विबुद्ध्य प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं यतितव्यम् ।
२१५४. 'तमाणाए'त्ति 'तद्' अनन्तरं 'आज्ञया' आदेशेन ।
२१५५. 'ईरियासमिए'त्ति ईर्यायां-गमने समितः सम्यक्प्रवृत्तत्वरूपं हि समितत्वम्, 'आयाणभंडमत्तनिक्खेवणासमिए'त्ति आदानेन-ग्रहणेन सह
भाण्डमात्राया-उपकरणपरिच्छदस्य या निक्षेपणा न्यासस्तस्या समितो यः स तथा 'उच्चारे'त्यादि, इह च 'खेल'त्ति कण्ठमुखश्लेष्मा सिंधानक च-नासिकाश्लेष्मा, 'मणसमिए'त्ति संगतमनःप्रवृत्तिकः, ‘मणगुत्ते'त्ति मनोनिरोधवान्, 'गुत्ते'त्ति मनोगुप्तत्वादीनां निगमनं, एतदेव विशेषणायाह -'गुतिंदिए'त्ति 'गुत्तबंभयारी'त्ति गुप्त-ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा 'चाइ'त्ति संगत्यागवान्, 'लज्जु'त्ति संयमवान् रज्जुरिव वा रज्जः-अवक्रव्यवहारः, 'धन्ने'ति धन्यो-धर्मधनं लब्धेत्यर्थः, 'खंतिखमे'त्ति क्षान्त्या क्षमते न त्वसमर्थतया योऽसौ क्षान्तिक्षमः, 'जितेन्द्रिय' इन्द्रियविकाराभावात्, यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रियविकारगोपनमात्रेणापि स्यादिति विशेषः, 'सोहिए'त्ति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात्, सौहदं-मैत्री सर्वप्राणिषु तद्योगात्सौहृदो वा, 'अणियाणे'त्ति प्रार्थनारहितः, 'अप्पुस्सुए'त्ति 'अल्पौत्सुक्यः' त्वरारहितः, 'अबहिल्लेस्से'त्ति अविद्यमाना बहिः-संयमाद्बहिस्ताल्लेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः, 'सुसामण्णरए'त्ति शोभने श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये रतः, 'दंते'त्ति दान्तः क्रोधादिदमनात् व्यन्तो वा रागद्वेषयोरन्तार्थं प्रवृत्तत्वात, 'इणमेव'त्ति इदमेव प्रत्यक्षं 'पुरओ काउंति अग्रे विधाय
मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा प्रधानीकृत्य 'विहरति' आस्ते इति । २१५७. 'एक्कारसअंगाई अहिज्जइ'त्ति इह कश्चिदाह-नन्वनेन स्कन्दकचरिताप्रागेवैकादशांगनिष्पत्तिरवसीयते, पंचमांगान्तर्भूतं च स्कन्दकचरितमिदमुप
लभ्यते इति कथं न विरोधः ? उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते । स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमंगीकृत्याधिकृतवाचनायामस्यां स्कन्दकचरितमेवाश्रित्य तदर्थप्ररूपणा कृतेति न विरोधः। अथवा सातिशायित्वाद् गणधराणामनागतकालभावचरितनिबन्धनमदुष्टमिति, भाविशिष्यसन्तानापेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासिय'ति मासपरिमाणां 'भिक्खूपडिम'ति भिसूचितमभिग्रहविशेषम्, एतत्स्वरूपं च
"गच्छा विणिक्खमित्ता पडिवाइ मासियं महापडिमं ।
दत्तेगमोयणस्सा पाणस्सवि एग जा मासं ॥" इत्यादि। नन्वयमेकादशांगधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह
"गच्छे चिय णिम्माओ जा पुबा दस भवे असंपुण्णा ।
नवमस्स तइयवत्यू होई जहण्णो सुयाहिगमो ॥" इति कथं न विरोधः ? उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । २१५६. 'अहासुत्तं'त्ति सामान्यसूत्रानतिक्रमेण वा 'अहाकप्पंति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गं'ति ज्ञानादिमोक्षमार्गानतिक्रमण
क्षायोपशमिकभावानतिक्रमेण वा 'अहातचंति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलंघनेनेत्यर्थः । 'अहासम्म'ति यथासाम्यं समभावानतिक्रमेण 'काएणंति न मनोरथमात्रेण 'फासेइ'त्ति उचितकाले विधिना ग्रहणात् 'पालेइ'त्ति असकृदुपयोगेन प्रतिजागरणात् 'सोहेइ 'त्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात्, शोधयति वाऽतिचारपक्षालनात् 'तीरेइ' त्ति पूर्णेऽपि तदवधौ स्तोककालावस्थानात् 'पूरेइ'त्ति पूर्णेऽपि तदवधौ तत्कृत्यपरिमाणपूरणात्, 'किट्टेइ'त्ति कीर्त्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं
कीर्तनात् ‘अणुपालेइ'त्ति तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति ? इत्याह-आज्ञयाऽऽराधयतीति । २।६०. एवमेताः सप्त सप्तमासान्ताः ततोऽष्टमी प्रथमसप्तरात्रिन्दिवा-सप्ताहोरात्रमानाः एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेनेति
उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदिय'ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन । ‘एगराइय' त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org