________________
श.२ः उ.१: सू.४५-५२
४००
भगवती वृत्ति 'वण्णपजव'त्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्म
स्कन्धानाममूर्तानां च। २।४६. 'नाणपज्जवत्ति वर्णविशेषा ज्ञानपर्यवा ज्ञानविशेषा बुद्धिकता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्यवा औदारिकादिशरीराण्याश्रित्य, इतरे तु
कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । २१४७. 'जेवि य ते खंदया पुच्छत्ति अनेन समग्रं सिद्धप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च सूचितः, तच्च द्वयमप्येवम्-'जेवि य खंदया इमेयारूवे जाव
किं सअंता सिद्धी ? अणंता सिद्धी ? तस्स वि य णं अयमढे, एवं खलु मए खंदया ! चउब्विहा सिद्धी पण्णत्ता, तंजहा-दव्वओ, खेत्तओ, कालओ, भावओ त्ति, दव्वओ णं एगा सिद्धि'त्ति, इह सिद्धिर्यद्यपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषनागभारापृथिवी सिद्धिरुक्ता, 'किंचिविसेसाहिए परिक्खेवेणं'ति किञ्चिन्यूनगव्यूतद्वयाधिके द्वे योजनशते एकोनपञ्चाशदुत्तरे भवति इति ।
२१४६. 'वलयमरणे'त्ति वलतो-बुभुक्षापरिगतत्वेन वलवलायमानस्य-संयमाद् वा भ्रस्यतो मरणं तद् वलन्मरणम्। तथा वशेन-इन्द्रियवशेन
ऋतस्य-पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्येव यन्मरणं तद्वशार्त्तमरणम्। तथाऽन्तःशल्यस्य द्रव्यतोऽनुद्धृततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणम् । तथा तस्मै भवाय मनुष्यादेः सतो मनुष्यादावेव बद्धायुषो यन्मरणं तत्तद्भवमरणम्, इदं च नरतिरश्चामेवेति । 'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं देहस्य यस्मिन् मरणे तच्छनावपाटनम्। 'वेहाणसे'त्ति विहायसि-आकाशे भवं वृक्षशाखाधुबद्धत्वेन' यत्तनिरुक्तिवशाद् वैहानसम्। 'गद्धपट्टे 'त्ति गृ|ः-पक्षिविशेषै? –मांसलुब्यैः शृगालादिभिः स्पृष्टस्य–विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद् गृध्रस्पृष्टं गृद्धस्पृष्टं वा, गृधैर्वा भक्षितस्य-स्पृष्टस्य यत्तद् गृध्रस्पृष्टम् ।। 'दुवालसविहेणं बालमरणेणं'त्ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना मरणेन म्रियमाण इति 'वड्डइ वड्डइ'त्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विर्वचनं भृशार्थे इति । 'पाओवगमणे'त्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनम्, इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति । 'नीहारिमे यत्ति निहरिण निर्वृत्तं यत्तन्निर्हारिमं प्रतिश्रये यो म्रियते तस्यैतत्, तत्कडेवरस्य निरिणात् । अनि रिमं तु योऽटव्यां म्रियते इति । यच्चान्यत्रेह स्थाने इंगितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति।
२१५१. 'धम्मकहा भाणियव्व'त्ति, सा चैवम्
"जह जीवा बझंती मुच्चंती जह य संकिलिस्संति । जह दुक्खाणं अंतं करेंति केई अपडिबद्धा ॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुवेति ।
जह वेरग्गमुवगया कम्मसमुग्गं विहाडेति ॥" इत्यादि । इह च 'अट्टनियट्टियचित्ता' आर्त निर्वर्तितं चित्ते यैस्ते तथा, आरौद् वाऽनिवर्तितं चित्तं यैस्ते आििनवर्तितचित्ताः। 'सद्दहामि'त्ति निर्ग्रन्थं प्रवचनमस्तीति प्रतिपद्ये । 'पत्तियामि'त्ति प्रीतिं प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः। 'रोएमिति चिकीर्षामीत्यर्थः । 'अब्भुटेमि'त्ति एतदंगीकरोमीत्यर्थः । अथ श्रद्धानाद्युल्लेखं दर्शयति एवमेतन्नैर्ग्रन्थं प्रवचनं सामान्यतः, अथ यथैतड्यं वदथेति योगः। 'तहमेय'ति तथैव तविशेषतः 'अवितहमेयं' सत्यमेतदित्यर्थः 'असंदिद्धमेयंति सन्देहवर्जितमेतत् 'इच्छियमेयंति इष्टमेतत् 'पडिच्छियमेयंति प्रतीप्सितं प्राप्तुमिष्टम् 'इच्छियपडिच्छियंति युगपदिच्छाप्रतीप्साविषयत्वात् 'तिकदृ'त्ति इतिकृत्वेति, अथवा 'एवमेयं भंते !' इत्यादीनि पदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलित्ते णति अभिविधिना ज्वलितः 'लोए'त्ति जीवलोकः 'पलिते णति प्रकर्षेण ज्वलितः एवंविधश्चासौ कालभेदेनापि स्यादत उच्यते-- आदीप्तप्रदीप्त इति, 'जराए मरणेण यत्ति इह वहिनेति वाक्यशेषो दृश्यः।। 'झियायमाणंसित्ति ध्यायमाने मायति वा, दह्यमान इत्यर्थः, 'अप्पसारे'त्ति अल्पं च तत्सारं चेत्यल्पसारम् ‘आयाए'त्ति आत्मना एकान्तं-विजन अन्तं-भूभागं 'पच्छा पुरा यत्ति विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः । 'थेजे"त्ति स्थैर्यधर्मयोगात स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमतः' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद् बहुरिति वा मतो बहुमतः ‘अनुमतः' अनु-विप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे'त्ति भाण्डकरण्डकम्-आभरणभाजनं तत्समान आदेयत्वादिति। 'मा णं सीत मित्यादौ मा शब्दो निषेधार्थः णमिति वाक्यालंकारार्थः', इह स्पृशत्विति यथायोगं योजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयम् । 'वाल'त्ति व्यालाः-श्वापदभुजगाः ‘मा णं वाइयपित्तियसेंभियसनिवाइय'त्ति इह प्रथमाबहुवचनलोपो दृश्यः । 'रोगायंक'त्ति रोगा:-कालसहा
३. अलंकारार्यः ख.ग.घ.च.थ.
१. बंधनेन क. २. निरुक्त क.ख.च.छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org