________________
३६६
भगवती वृत्ति
श.२: उ.१: सू.३३-४५ २।३३. 'सावत्थी नामं नयरी होत्य'त्ति विभक्तिपरिणामादस्तीत्यर्थः अथवा कालस्यावसर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति । 'अदूरागते'
त्ति अदूरे आगतः। स चावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमार्गापेक्षया (ग्रंथान ३०००) क्रोशादिकमप्यदूर स्यादत उच्यते-'बहुसंपत्ते' ईषदूनसंप्राप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते-'अद्धाणपडिवग्ने'त्ति मार्गप्रतिपन्नः किमुक्तं भवति ? 'अंतरापहे वट्टइत्ति विवक्षितस्थानयोरन्तरालमार्गे वर्त्तत इति। अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं कथम् ? यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अज्जेव णं दच्छसि' इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे' इत्यस्य चोत्तरं सामर्थ्यगम्यं, यतो यदि भगवता मध्याह्नसमये इयं वार्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्यसीति सामर्थ्यादुक्तम् । अदूरागतादिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्तादिरेव कालः संभवति न बहुतर
इति। २।३४. 'अगाराओ'त्ति निष्कम्येतिशेषः 'अनगारितां' साधुतां 'प्रव्रजितुं' गन्तुम्, अथवा विभक्तिपरिणामादनगारितया 'प्रव्रजितुं' प्रव्रज्या प्रतिपत्तुम् । २।३६. 'अब्भुढेति'त्ति आसनं त्यजति । यच्च भगवतो गौतमस्यासंयतं प्रत्युभ्युत्थानं तद्भाविसंयतत्वेन यस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्,
तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति। 'हे खंदय'त्ति सम्बोधनमात्रं 'सागयं खंदय त्ति 'स्वागतं' शोभनमागमनं तव स्कन्दक ! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य । 'सुसागय'ति अतिशयेन स्वागतम्। कथंचिदेकार्थों वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्ट, संभ्रमनिमित्तत्वादस्येति । 'अणुरागयं खंदय!'त्ति रेफस्यागमिकत्वात् ‘अन्वागतं' अनुरूपमागमनं स्कन्दक ! तवेति दृश्यम् । ‘सागयमणुरागयंति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः । 'जेणेव इहंति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव'त्ति तस्यामेव दिशि 'अत्थे समत्वे'त्ति अस्त्येषोऽर्थः ? 'अढे समढे 'त्ति पाठान्तरं, काका चेदमध्येयं, ततश्चार्थः किं 'समर्थः' संगतः? इति प्रश्नः स्याद्, उत्तरं तु 'हंता
अस्थि' सद्भूतोऽयमर्थः इत्यर्थः । २१३७. 'णाणी'त्यादि अस्यायमभिप्रायः-ज्ञानी ज्ञानसामर्थ्याज्जानाति तपस्वी च तपःसामदेिवतासान्निध्याजानातीति प्रश्नः कृतः 'रहरसकडे'त्ति रहः
कृतः–प्रच्छन्नकृतो, हृदय एवावधारितत्वात् । २१३८. 'धम्मायरिए'त्ति कुत एतत् ? इत्याह--'धम्मोवएसए'त्ति उत्पन्नज्ञानदर्शनधरो न तु सदा संशुद्धः अर्हत्वन्दनाधर्हत्वात, जिनो रागादिजेतृत्वात,
केवली असहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह–सर्वज्ञः सर्वदर्शी । २।४१. 'वियट्टभोइ'त्ति व्यावृत्ते २ सूर्ये भुंक्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिनभोजीत्यर्थः । २१४२. 'ओरालं'ति प्रधानं 'सिंगारं'ति शृंगार:-अलंकारादिकृता शोभा तद्योगात् शृंगारं, शृंगारमिव शृंगारमतिशयशोभावदित्यर्थः। 'कल्याणं' श्रेयः
'शिवम्' अनुपद्रवमनुपद्रवहेतुर्दा, 'धन्य' धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हति, ‘मंगल्यं' मंगले-हितार्थप्रापके साधु मंगल्यम्, 'अलंकृतं' मुकुटादिभिर्विभूषितं-वस्त्रादिभिस्तन्निषेधादनलंकृतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मानं-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते। उन्मानं त्वर्द्धभारमानता' मातव्यपुरुषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते । प्रमाणं पुनः स्वांगुलेनाष्टोत्तरशतांगुलोच्यता यदाह
"जलदोणमद्धमारं समुहाइ समूसिओ उ जो नव उ।
माणुम्माणपमाणं तिविहं खलु लक्खणं एवं ॥" व्यंजनं-मषतिलकादिकमथवा सहज लक्षणं पश्चाद्भवं व्यंजनमिति । गुणाः-सौभाग्यादयो लक्षणव्यंजनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशाद् उपपेतं भवतीति, 'सिरीए' ति लक्ष्म्या शोभया था।
२।४३. 'हट्टतुट्ठचित्तमाणदिए'त्ति हष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा-विस्मितं तुष्टं च-तोषवच्चित्तं-मनो यत्र तत्तथा, तद् हृष्टतुष्टचित्तं यथा भवति एवम्
'आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नंदिएत्ति नन्दितस्तैरेव समृद्धतरतामुपगतः ‘पीइमणे'त्ति प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिए'त्ति परमं सौमनस्यं सुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः
'हरिसवसविसप्पमाणहियए'त्ति हर्षवशेन विसर्पद्-विस्तारं व्रजद् हृदयं यस्य स तथा, एकार्थिकानि-वैतानि प्रमोदप्रकर्षप्रतिपादनार्धानीति । २१४५. 'दव्वओ णं एगे लोए सअंते'त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं'ति आयामो-दैर्घ्यं विष्कम्भो-विस्तारः
'परिक्खेवण'ति परिधिना 'भविंसु यत्ति अभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तम् । 'धुवे'त्ति ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह–'णियए'त्ति नियत एकरवरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह–'सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात्, स च नियतकालापेक्षयाऽपि स्यादित्यत आह–'अक्खए'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह–'अव्वए'त्ति अव्ययस्तत्प्रदेशानामव्ययत्वात्, अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्टिए'ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् किमुक्तं भवति? नित्य इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org