SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति श. २: उ.१: सू.२७-३२ ३६८ कांक्षितः । अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा ? इत्येवं विचिकित्सितः । 'भेदसमावन्ने' मतेभंगंकिंकर्त्तव्यताव्याकुलता - लक्षणमापन्नः । 'कलुषसमापन्नः'नाहमिह किञ्चिज्जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति । 'नो संचाइए 'त्ति न शक्नोति 'पमोक्खमक्खाइउं'ति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम् - उत्तरं "आख्यातुं' वक्तुम् । २ । ३०. 'महया जणसंमद्दे इ वा जणवूहे इ वा' इत्यत्रेदमन्यद् दृश्यम् -'जणबोले इ वा जणकलकले इ वा जणुम्मी इ वा जणुक्कलिया इ वा जणसंनिवाए इ वा बहुजणी अण्णमण्णस्स एवमाइक्खइ ४ – एवं खलु देवाणुप्पिया ! समणे ३ आइगरे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं माणे कयंगलाए नए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तं महम्फलं खलु भो देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए एस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ? किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पजुवासामो । एयं णो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ त्ति कट्टु बहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेट्टिसेणावइसत्थवाहपभियओ जाव उक्किसीहनायबोलकलयलरवेणं समुद्दरवभूयं पिव करेमाणा सावत्थीए नयरीए मज्झमज्झेणं निगच्छंति । ' अस्यायमर्थः श्रावस्त्यां नगर्यां यत्र 'महय'त्ति महान् जनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः । तत्र जनसंमर्दः - उरोनिष्पेषः, 'इतिः' उपप्रदर्शने 'वा' समुच्चये, पाठान्तरे शब्द इति वा । जनव्यूहः- चक्राद्याकारो जनसमुदायः, बोलः - अव्यक्तवर्णो ध्वनिः, कलकलः-स एवोपलभ्यमानवचनविभागः, ऊर्मिः – संबाधः कल्लोलाकारो वा जनसमुदायः, उत्कलिका - समुदाय एव लघुतरः, जनसन्निपात:-- अपरापरस्थानेभ्यो जनानां मीलनं, 'यथाप्रतिरूप 'मित्युचितं, 'तथारूपाणां' संगतरूपाणां 'नामगोयस्सवि' त्ति नाम्नो यादृच्छिकस्याभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य 'सवणयाए' श्रवणेन 'किमंग पुण'त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अंगेत्यामन्त्रणे अभिगमनम् — अभिमुखगमनं, वन्दनं स्तुतिः, नमस्यनं - प्रणमनं, प्रतिप्रच्छनं- शरीरादिवार्त्ताप्रश्नः पर्युपासनं - सेवा, तेषां - अभिगमनादीनां भावस्तत्ता तया आर्यस्येत्यार्यप्रणेतृकत्त्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् । 'वंदामो' त्ति स्तुमः, 'नमस्यामः' इति प्रणमामः, 'सत्कारयामः' आदरं कुर्मो वस्त्रार्चनं वा 'सन्मानयाम ' उचितप्रतिपत्तिभिः । किंभूतम् ? इत्याह- कल्याणं - कल्याणहेतुं, मंगलं - दुरितोपशमनहेतुं दैवतं - देवं, चैत्यम् - इष्टदेवप्रतिमा चैत्यमिव चैत्यं, 'पर्युपासयामः ' सेवामहे । एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत्, 'सुखाय' शर्मणे 'क्षमाय' संगतत्वाय, 'निःश्रेयसाय' मोक्षाय, 'आनुगामिकत्वाय' परम्परा शुभानुबन्धसुखाय' भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उग्राः ' आदिदेवावस्थापिताऽऽरक्षकवंशजाताः, 'भोगाः ' तेनैवावस्थापितगुरुवंशजाताः, 'राजन्याः' भगवद्वयस्यवंशजाः 'क्षत्रियाः ' राजकुलीनाः, 'भटाः' शौर्यवन्तः, 'योधाः' तेभ्यो विशिष्टतराः 'मल्लकिनो लेच्छकिनश्च' राजविशेषाः, 'राजानः' नृपाः, 'ईश्वराः' युवराजास्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, 'माडम्बिकाः, संनिवेशविशेषनायकाः, 'कौटुम्बिका: ' कतिपयकुटुम्बप्रभवो राजसेवकाः, उत्कृष्टिश्च आनन्दमहाध्वनिः, सिंहनादश्च - प्रतीतः, बोलश्च वर्णव्यक्तिवर्जितो महाध्वनिः, कलकलश्च - अव्यक्तवचनः, स एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव — जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः, नगरमिति गम्यत इति । एतस्यार्थस्य संक्षेपं कुर्वन्नाह—– 'परिसा निग्गच्छति । २ । ३१. 'तए णं 'ति 'ततः' अनन्तरम् 'इमेयारूवे 'त्ति 'अयं' वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-- एतदेव रूपं यस्यासावेतद्रूपः 'अज्झत्थिए 'त्ति आध्यात्मिक आत्मविषयः 'चिंतिए 'त्ति स्मरणरूपः 'पत्थिए 'त्ति प्रार्थित:- अभिलाषात्मकः 'मणोगए 'त्ति मनस्येव यो गतो न बहिः वचनेनाप्रकाशनात् स तथा 'संकल्पः' विकल्पः 'समुप्पजित्य'त्ति समुत्पन्नवान् 'सेयं त्ति श्रेयः कल्याणं 'पुच्छित्तए 'त्ति योगः । 'इमाई च णं'ति प्राकृतत्वाद् 'इमान्' अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाई' ति एतद्रूपान् उक्तस्वरूपान्, अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादींस्तदन्यांश्च 'हेऊइंति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतवो — लोकसान्तत्वादय एव तदन्ये वाऽतस्तान् 'पसिणाई'ति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान् 'कारणाई' ति कारणम् उपपत्तिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई' ति व्याक्रियमाणत्वाद्व्याकरणानि एत एव तदन्ये वाऽतस्तानि 'पुच्छित्तए 'त्ति प्रष्टुं 'तिकट्टु' इतिकृत्वाऽनेन कारणेन एवं 'संपेहेइ'त्ति 'एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति । 'परिव्वायगावसहे 'त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काञ्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेष: 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थं चीवरखण्डं 'षड्नालकं' त्रिकाष्ठिका 'अंकुशकं' तरुपल्लवग्रहणार्थमंकुशाकृतिः 'पवित्रकम्' अंगुलीयकं 'गणेत्रिका' कलाचिकाSS भरणविशेषः 'धाउरत्ताओ' त्ति साटिका इति विशेषः, 'तिदंडे 'त्यादि त्रिदण्डकादीनि दश हस्ते गतानि स्थितानि यस्य स तथा, 'पहारेत्थ'त्ति 'प्रधारितवान्' संकल्पितवान् 'गमनाय' गंतुं । २ । ३२. 'गोयमाइ 'त्ति गोयम इति एवमामन्त्र्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । 'से काहे व 'त्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः 'किह व'त्ति केन वा प्रकारेण ? साक्षाद्दर्शनतः श्रवणतो 'केवच्चिरेण वत्ति कियतो वा कालात् ? 9. परम्पर ग., परंपरया क. २. कियचिरेण ग.घ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy