SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ३६७ श.२: उ.१: सू.१३-२७ निरुद्धभवपवंचे'त्ति प्राप्तव्यभवविस्तार इत्यर्थः। अयं च देवमनुष्यभवप्रपञ्चापेक्षयाऽपि स्यादित्यत आह–'णो पहीणसंसारे'त्ति अप्रहीणचतुगतिगमन इत्यर्थः । यत एवमत एव 'नो पहीणसंसारवेयणिज'त्ति अप्रक्षीणसंसारवेद्यका । अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादित्यत आह–'नो वोच्छिन्नसंसारे ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः । अत एव 'नो वोच्छिन्नसंसारवेयणिज्जे'त्ति 'नो' नैव व्यवच्छिन्नम्-अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा । अत एव 'नो निट्ठियटे'त्ति अनिष्ठितप्रयोजनः । अत एव 'नो निट्ठियट्ठकरणिजे'त्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स तथा । यत एवंविधोऽसावतः पुनरपीति अनादौ संसारे पूर्व प्राप्तमिदानीं पुनर्विशुद्धचरणावाप्तेः सकाशादसंभावनीयम् 'इत्थत्थं'ति इत्यर्थम् एतमर्थम्-अनेकशस्तिर्यङ्नरनाकिनारकगतिगमनलक्षणम् 'इत्यत्त'मिति पाठान्तरं तत्रानेन प्रकारेणेत्थं तद्भाव इत्थत्वं मनुष्यादित्वमिति भावः, अनुस्वारलोपश्च प्राकृतत्वात् 'हव्वं'ति शीघ्रम् आगच्छइ'त्ति प्राप्नोति । अभिधीयते च-कषायोदयात्प्रतिपतितचरणानां चारित्रवतां संसारसागरपरिभ्रमणं, यदाह "जइ उवसंतकसाओ लहइ अणंतं पुणोवि पडिवायं" ति । स च संसारचक्रगतो मुनिजीवः प्राणादिना नामषट्केन कालभेदेन युगपच्च वाच्यः स्यादिति बिभणिषुः प्रश्नयन्नाह२।१४. 'से णमि'त्यादि, तत्र 'सः' निर्ग्रन्थजीवः किंशब्दः प्रश्ने सामान्यवाचित्वाच्च नपुंसकलिंगेन निर्दिष्टः इति' एवमन्वर्थयुक्ततयेत्यर्थः वक्तव्यः स्यात् । प्राकृतत्वाच्च सूत्रे नपुंसकलिंगताऽस्येति । अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात् ? इति भावः । अत्रोत्तरं-'पाणेत्ति वत्तव्य'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छ्वासादिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते। एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया ।यदा तूच्छ्वासादिधर्मैयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात् । अथवा निगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति । २।१५. 'जम्हा जीवे इत्यादि, यस्मात् 'जीवः'आत्माऽसौ 'जीवति' प्राणान् धारयति तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति' अनुभवति तस्माज्जीव इति वक्तव्यं स्यादिति । 'जम्हा सत्ते सुभासुभेहिं कम्मेहिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासु चेष्टासु, अथवा सक्तः-संबद्धः शुभाशुभैः कर्मभिरिति । अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह २॥१७. 'मडाई'त्यादि 'पारगए'त्ति पारगतः संसारसागरस्य ‘भाविनिभूतवदि'त्युपचारादिति 'परंपरगए'त्ति परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः परम्परागतः । इहानन्तरं संयतस्य संसारवृद्धिहानी उक्ते सिद्धत्वं चेति, अधुना तु तेषामन्येषां चार्थानां व्युत्पादनार्थं स्कन्दकचरितं विवक्षुरिदमाह२।२२. 'उप्पण्णणाणदसणधरे' इह यावत्करणात् 'अरहा जिणे केवली सव्वण्णू सव्वदरिसी आगासगएणं छत्तेण'मित्यादि समवसरणान्तं वाच्यमिति। २।२३. 'गद्दभालस्स'त्ति गर्दभालाभिधानपरिव्राजकस्य । २१२४. 'रिउव्वेयजजुव्वेयसामवेयअथव्वणवेय'त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम्। इतिहासः-पुराणं स पंचमो येषां ते तथा तेषां 'चउण्हं वेयाणं'ति विशेष्यपदं 'निघंटुछटाणं'ति निघण्टो नामकोशः 'संगोवंगाणं'ति अंगानि-शिक्षादीनि षड़ उपांगानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः ‘सरहस्साणं'ति ऐदम्पर्ययुक्तानां, 'सारएत्ति सारकोऽध्यापनद्वारेण प्रवर्तकः, स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मरणात्, 'वारए'त्ति बारकोऽशुद्धपाठनिषेधात्, “धारए'त्ति क्वचित्पाठः तत्र धारकोऽधीतानामेषां धरणात्, “पारए'त्ति पारगामी, 'षडंगविदिति' षडंगानि-शिक्षादीनि वक्ष्यमाणानि, सांगोपांगानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्, अथवा षडंगविदित्यत्र तद्विचारकत्वं गृहीतं 'विद विचारणे' इति वचनादिति न पुनरुक्तत्वमिति । 'सद्वितंतविसारए'त्ति कापिलीयशास्त्रपण्डितः, तथा 'संखाणे'त्ति गणितस्कन्धे सुपरिनिष्ठित इति योगः। षडंगवेदकत्वमेव व्यनक्ति–'सिक्खाकप्पे'त्ति शिक्षा अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च-तथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे । 'वागरणे'त्ति शब्दशास्त्रे 'छंदे'त्ति पद्यलक्षणशास्त्रे 'निरुत्ते'त्ति शब्दव्युत्पत्तिकारकशास्त्रे । 'जोतिसामयणे'त्ति ज्योतिःशास्त्रे 'बंभण्णएसु' त्ति ब्राह्मणसंबन्धिषु 'परिवायएसु यत्ति परिव्राजकसत्केषु 'नयेषु'नीतिषु दर्शनेष्वित्यर्थः । २।२५. नियंठे'त्ति निर्ग्रन्थः श्रमण इत्यर्थः 'वेसालियसावए'त्ति विशाला–महावीरजननी तस्या अपत्यमिति वैशालिक:-भगवास्तस्य वचनं शृणोति तद्रसिकत्वादिति वैशालिकश्रावकः, तद्वचनामृतपाननिरत इत्यर्थः । २।२६. 'इणमक्खेवंति एनम् ‘आक्षेपं' प्रश्नं 'पुछे'त्ति पृष्टवान्, ‘मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हे मागध ! 'वड्डइ'त्ति संसारवर्धनात् 'हायइ'त्ति संसारपरिहान्येति। एतावतावे'त्यादि, एतावत् प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छ्यमानः, 'एवम्' अनेन प्रकारेण, एत स्मिन्नाख्याते पुनरन्यप्रक्ष्यामीति ह्रदयम् । २१२७. 'संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा ? इति संजातशंकः । इदमिहोत्तरं साधु इदं च न साधु अतः कथमत्रोत्तरं लप्स्ये? इत्युत्तरलाभाकांक्षावान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003593
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages458
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy