________________
२ । ३.
२ । ४.
२ । २. 'जे इमे' इत्यादि, यद्यप्येकेन्द्रियाणामागमादिप्रमाणाज्जीवत्वं प्रतीयते तथाऽपि तदुच्छ्रवासादीनां साक्षादनुपलम्भाज्जीवशरीरस्य च निरुच्छ्वासादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छ्वासादिविषया शंका स्यादिति तन्निरासाय तेषामुच्छ्वासादिकमस्तीत्येतस्यागमप्रमाणप्रसिद्धस्यप्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति ।
उच्छ्वासाद्यधिकाराज्जीवादिषु पञ्चविंशतौ पदेषूच्छ्वासादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन्नाह
'किण्णं भंते ! जीवेत्यादि, किमित्यस्य सामान्यनिर्देशत्वात् 'कानि' किंविधानि द्रव्याणीत्यर्थः ।
'आहारगमो नेयव्वो 'त्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम् – 'दुवन्नाई तिवण्णाई जाव पंचवण्णाइंपि । जाई वन्नओ कालाई ताई किं एगगुणकालाई जाव अणंतगुणकालाइंपि' इत्यादिरिति ।
व्याख्यातं प्रथमं शतमथ द्वितीयं व्याख्यायते । तत्रापि प्रथमोद्देशकः, तस्य चायमभिसम्बन्धः - प्रथमशतान्तिमोद्देशकान्ते जीवानामुत्पादविरोऽभिहितः । इह तु तेषामेवोच्छ्वासादि चिन्त्यत इत्येवंसम्बन्धस्यास्येदमुपोद्घातसूत्रानन्तरसूत्रम्—
द्वितीयं शतकम्
प्रथम उद्देशकः
२ । ७. 'जीवा - एगिंदिए 'त्यादि, जीवा एकेन्द्रियाश्च 'वाघाया य निव्वाघाया य'त्ति मतुब्लोपाद् व्याघातनिर्व्याघातवन्तो भणितव्याः । इह चैवं पाठेऽपि निर्व्याघातशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात् । तत्र जीवा निर्व्याघाताः सव्याघाताः सूत्रे एव दर्शिताः, एकेन्द्रियास्त्वेवम्- 'पुढविक्काइया णं भंते! कइदिसं आणमंति ? गोयमा ! निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसि' मित्यादि । एवमप्कायादिष्वपि, तत्र निर्व्याघातेन षदिशम् । षदिशो यत्रानमनादौ तत्तथा व्याघातं प्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति४, यतस्तेषां लोकान्तवृत्तावलोकेन त्र्यादिदिक्षूच्छ्वासादिपुद्गलानां व्याघातः संभवतीति । 'सेसा नियमा छद्दिसिं 'ति शेषा नारकादित्रसाः षडूदिशमानमन्ति तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छ्वासादिपुद्गलग्रहोऽस्त्येवेति ।
२।६.
अथैकेन्द्रियाणामुच्छ्वासादिभावादुच्छ्वासादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छ्वासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन ? इत्याशंकायां प्रश्नयन्नाह—
२ । ८. 'वाउयाए ण' मित्यादि, अथोच्छ्वासस्यापि वायुत्वादन्येनोच्छ्वासवायुना भाव्यं तस्याप्यन्येनैवमनवस्था । नैवमचेतनत्वात्तस्य किंच योऽयमुच्छ्वासवायुः स वायुत्वेऽपि न वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीयपुद्गलानामानप्राणसंज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतयैतच्छरीरव्यपदेश्यत्वात् तथा च प्रत्युच्छ्वासादीनामभाव इति नानवस्था ।
'वाउकाए णं भंते ! 'इति, अयं च प्रश्नो वायुकायप्रस्तावाद् विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव सर्वेषामेषां कायस्थितेरसंख्याततयाऽनन्ततया चोक्तत्वात् यदाह
"अस्संखोसप्पिणीउस्सप्पिणीओ एगिंदियाण उ चउन्हं । ता चेव ऊ अनंता वणरसईए उ बोद्धव्या ॥"
तत्र वायुकायो वायुकाय एवानेकशतसहस्रकृत्वः 'उद्दाइत्त'त्ति अपद्रुत्य' मृत्वा 'तत्थेव 'त्ति वायुकाय एव 'पच्चाया 'त्ति 'प्रत्याजायते' उत्पद्यते ।
२ । १०. 'पुढे उद्दाइ' त्ति स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' म्रियते 'नो अपुट्ठे 'त्ति सोपक्रमापेक्षमिदम् । २।११. 'निक्खमइ'त्ति स्वकडेवरान्निःसरति । 'सिय ससरीरी त्ति स्यात् कथंचित्
२।१२. 'ओरालियवेउब्वियाइं विष्पजहायेत्यादि, अयमर्थः - औदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति । वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह—
२ । १३. 'मडाई णं भंते ! नियंठे' इत्यादि, मृतादी - प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्यं, 'निर्ग्रन्थः ' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः । किंविधः सन् ? इत्याह-'नो निरुद्धभवेत्ति अनिरुद्धाग्रेतनजन्मा चरमभवाप्राप्त इत्यर्थः । अयं च भवद्वयप्राप्तव्यमोक्षोऽपि स्यादित्याह - 'नो
३. अपहृत्य ख. घ. छ.
१. वर्तित्वात् ग.
२. व्यपदेशत्वात स्व गठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org