________________
भगवती वृत्ति
४१३
श.२: उ.१०. सू.१३६-१५३ दिविषये यो 'देशस्य व्यवहारो'यथा धर्मास्तिकायः स्वदेशेनोर्ध्वलोकाकाशं व्यापोतीत्यादिस्तदर्थम् । तथा परद्रव्येण-ऊर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोललोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति । 'अद्धासमय' त्ति अद्धा-कालस्तल्लक्षणः समय:-क्षणोऽद्धासमयः, स चैक एव वर्तमानक्षणलक्षणः अतीतानागतयोरसत्त्वादिति । कृतं लोकाकाशगतप्रश्नषट्कस्य निर्वचनम्, अथालोकाकाशं प्रति प्रश्नयन्नाह
२११४०
२११४१.
'पुच्छा तह चेव'त्ति यथा लोकप्रश्ने तथाहि-'अलोकाकासे णं भंते ! किं जीवा जीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवप्पएस'त्ति। निर्वचनं त्वेषां षण्णामपि निषेधः। तथा 'एगे अजीवदव्वदेसे'त्ति अलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् । 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अणंतेहिं अगरुयलहुयगुणेहिति 'अनन्तैः' स्वपर्यायपरपर्यायरूपैगुणैः, अगुरुलघुस्वभावैरित्यर्थः । 'सव्वागासे अणंतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति । अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह'केमहालए'त्ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किंमहत्त्वः ? 'लोए'त्ति लोकः लोकप्रमितत्वाल्लोकव्यपदेशाद् वा, उच्यते च-"पंचत्थिकायमइयं लोयं"इत्यादि। लोके चासौ वर्तते, इदं चाप्रश्नितमप्युक्तं, शिष्यहितत्वादाचार्यस्येति 'लोकमात्रः' लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, लोकप्रदेशप्रमाणत्वात्तप्रदेशानाम्। स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे'त्ति लोकेन-लोकाकाशेन सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्ट्वा तिष्ठतीति। पुद्गलास्तिकायो लोकं स्पृष्ट्वा तिष्ठतीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह'अहोलोए ण'मित्यादि 'सातिरेगं अद्धति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जप्रमाणत्वाच्चाधोलोकस्य ।
२११४६.
२|१४७. 'असंखेज्जइभाग'ति असंख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याथदशयोजनशतप्रमाणस्तिर्यग्लोकोऽसंख्यातभागवर्तीति तस्यासावसंख्येय
भागं स्पृशतीति। २।१४८. 'देसूणं अद्धं ति देशोनसप्तरज्जुप्रमाणत्वादूर्ध्वलोकस्येति । २११४६-१५२. 'इमा णं भंते !'इत्यादि इह प्रतिपृथिवि पंच सूत्राणि देवलोकसूत्राणि द्वादश, ग्रैवेयकसूत्राणि त्रीणि, अनुत्तरेषप्रागभारासूत्रे द्वे-एवं
द्विपञ्चाशत्सूत्राणि धर्मास्तिकायस्य किं संख्येयं भागं स्पृशन्तीत्याद्यभिलापेनावसेयानि । तत्रावकाशान्तराणि संख्येयभागं स्पृशन्ति, शेषास्त्व
संख्येयभागमिति निर्वचनम्। २।१५३. एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति । इहोक्तार्थसंग्रहगाथा भाविताथैवेति ।
॥द्वितीयशते दशमोद्देशकः ॥
श्रीपंचमांगे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगशवचोऽनुवृत्त्या ।। इति ।
।। इति श्री भगवतीवृत्तौ द्वितीयं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org