________________
भगवती वृत्ति
३६३
श. १: उ.१०: सू.४४२-४४३
तथा - 'पुव्वं किरिए 'त्यादि, क्रिया कायिक्यादिका सा यावन्न क्रियते तावत् 'दुःख' ति दुःखहेतुः । 'कज्जमाणि' त्ति क्रियमाणा क्रिया 'न दुक्खा' न दुक्खहेतुः क्रियासमयव्यतिक्रान्तं च क्रियायाः क्रियमाणताव्यतिक्रमे च कृता सती क्रिया दुःखेति । इदमपि तन्मतमात्रमेव निरुपपत्तिकम् । अथवा पूर्वं क्रिया दुःखा, अनभ्यासात् । क्रियमाणा क्रिया न दुःखा, अभ्यासात् । कृता क्रिया दुःखा, अनुतापश्रमादेः । 'करणओ दुक्ख 'त्ति करणमाश्रित्य करणकाले कुर्वत इत्यर्थः । 'अकरणओ दुक्ख त्ति अकरणमाश्रित्याकुर्वत इति यावत् । 'नो खलु सा करणओ दुक्ख त्ति अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् । ' सेवं वत्तव्वं सिया' अथैवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वादस्येति ।
अथान्ययूथिकान्तरमतमाह-'अकृत्यम्' अनागतकालापेक्षयाऽनिर्वर्त्तनीयं जीवैरिति गम्यं 'दुक्खम्' असातं तत्कारणं वा कर्म, तथाऽकृतत्वादेवास्पृश्यम् — अबन्धनीयं तथा क्रियमाणं वर्त्तमानकाले कृतं चातीतकाले तन्निषेधादक्रियमाणकृतं । कालत्रयेऽपि कर्मणो बन्धनिषेधाद् अकृत्वाऽकृत्वा, आभीक्ष्ण्ये द्विर्वचनं, दुःखमिति प्रकृतमेव, के ? इत्याह-प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम्
"प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥ "
'वेयणं' ति शुभाशुभकर्म्मवेदनां पीडां वा 'वेदयन्ति' अनुभवन्ति इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, यादृच्छिकं हि सर्वं लोके सुखदुःखमिति, यदाह---
"अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् ।
काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृवाऽभिमानः ॥”
१ । ४४३. ‘से कहमेयं'ति अथ कथमेतद् भदन्त ! 'एवम् ?' अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः । 'जं णं अण्णउत्थिया' इत्याद्युत्तरं । व्याख्या चास्य प्राग्वत् । मिथ्या चैतदेवं यदि चलदेव प्रथमसमये चलितं न भवेत्तदा द्वितियादिष्वपि तदचलितमेवेति न कदाचनापि चलेत्, अत एव वर्त्तमानस्यापि विवक्षयाऽतीतत्वं न विरुध्दम् । एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते । यच्चोच्यते-चलितकार्याकरणादचलितमेवेति, तदयुक्तं, यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्यं न करोत्येव, असत्त्वाद् । अतो यदन्त्यसमयचलितं कार्यं विवक्षितं परेण तदाद्यसमयचलितं यदि न करोति तदा क इव दोषोऽत्र ? कारणानां स्वस्वकार्यकरणस्वभावत्वादिति ।
यच्चोक्तं- द्वौ परमाणू न संहन्येते, सूक्ष्मतया स्नेहाभावात्, तदयुक्तम्, एकस्यापि परमाणोः स्नेहसंभवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत उक्तम्- 'तिणि परमाणुपोग्गला एगयओ साहणंति ते भिमाणा दुहावि तहावि कजति, दुहा कजमाणा एगओ दिवडे त्ति, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः स्नेहाभावेन संघाताभाव इति ।
यच्चोक्तम् — एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरद्धकरणे परमाणुत्वाभावप्रसंगात् । तथा यदुक्तं - पंच पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसंगतं कर्मणोऽनन्तपरमाणुतयाऽनन्तस्कन्धरूपत्वात्, पञ्चाणुकस्य च स्कन्धमात्रत्वात्, तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसंख्यातप्रदेशात्मकं जीवमावृणुयादिति ।
तथा यदुक्तं कर्म च शाश्वतं तदपि असमीचीनं, कर्म्मणः शाश्वतत्वे क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसंगात् । दृश्यते च ज्ञानादिहानिवृद्धी । तथा यदुक्तं कर्म सदा चीयतेऽपचीयते चेति तदप्येकान्तशाश्वतत्वे नोपपद्यत इति ।
यच्चोक्तं- भाषणात्पूर्वं भाषा, तद्धेतुत्वाद्, तदयुक्तमेव, औपचारिकत्वात्, उपचारस्य च तत्त्वतोऽवस्तुत्वाद् । किं च- उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्त्विकी भाषाऽस्तीति सिद्धम् । यच्चोक्तं-भाष्यमाणाऽभाषा, वर्त्तमानसमयस्याव्यावहारिकत्वात् । तदप्यसम्यग् वर्तमानसमयस्यैवास्तित्वेन व्यवहारांगत्वाद् अतीतानागतयोश्च विनानुत्पन्नतयाऽसत्त्वेन व्यवहारानंगत्वादिति, यच्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाष्यमाणभाषाया अभावे भाषासमय इत्यस्याप्यभिलापस्याभावप्रसंगात् । यश्च प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः । तथा यदुक्तम्- अभाषकस्य भाषेति, तदसंगततरम्, एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसंग इति ।
एवं क्रियाऽपि वर्त्तमानकाल एव युक्ता, तस्यैव सत्त्वादिति । यच्चानभ्यासादिकं कारणमुक्तं तच्चानैकान्तिकम् । अनभ्यासादावपि यतः काचित्सुखादिरूपैव । तथा यदुक्तम्- अकरणतः क्रिया दुःखेति, तदपि प्रतीतिबाधितं यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः पूर्वं पश्चाद् वा तदसत्त्वादिति ।
तथा यदुक्तम्—'अकिच्चमित्यादि यदृच्छावादिमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेव कर्म दुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसंगः स्यात्, अभ्युपगतं च किंचित्पारलौकिकानुष्ठानं तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम् । उक्तं च वृद्धैः
1
"परतित्थियक्त्तव्वय पढमसए दसमयंमि उद्देसे । विभंगीणादेसा मइमेया वावि सा सव्वा ।।
सम्भूयमसब्भूय भंगा चत्तारि होंति विब्भंगे । उम्मत्तवायसरिसं तो अण्णाणंति निद्दि ।। "
सद्भूते - परमाणौ असद्भूतं - अर्धादि, असद्भूते - सर्वगात्मनि सद्भूतं चैतन्यं, सद्भूते - परमाणौ सद्भूतं निष्प्रदेशत्वम्, असद्भूते - सर्वगात्मनि असदुद्भूतं कर्तृत्वमिति ।
Jain Education International
'अहं पुण गोयमा ! एवमाइक्खामीत्यादि तु प्रतीतार्थमेवेति । नवरं 'दोहं परमाणुपोग्गलाणं अस्थि सिणेहकाए 'त्ति एकस्यापि परमाणोः शीतोष्णस्त्रिग्धरूक्षस्पर्शानामन्यतरदविरुद्धं स्पर्शद्वयमेकदैवास्ति ततो द्वयोरपि तयोः स्निग्धत्वभावात् सेहकायोऽस्त्येव । ततश्च तौ
For Private & Personal Use Only
www.jainelibrary.org