________________
भगवती वृत्ति
श. १: उ.६, १०: सू.४३१-४४२
३६२
१। ४३१. 'चाउज्जामाउ'त्ति चतुर्महाव्रतातु पार्श्वनाथजिनस्य हि चत्वारि महाव्रतानि । नापरिगृहीता स्त्री भुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति । 'सपडिक्कमणं'ति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणादन्यथा त्वकरणात्। महावीरजिनस्य तु सप्रतिक्रमणः कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति । 'देवाणुप्पिय'त्ति प्रियामंत्रण 'मा पडिबंधं' ति मा व्याघातं कुरुष्वेति गम्यम् ।
१। ४३३. 'मुंडभावे 'त्ति मुंडभावो - दीक्षितत्वं, 'फलगसेज्जं त्ति प्रतलायतविष्कम्भवत् काष्ठरूपा, 'कट्टसेज्जं त्ति असंस्कृतकाष्ठशयनं, कष्टशय्या वाऽमनोज्ञा वसतिः, 'लद्धाबलद्धी 'त्ति लब्धं च - लाभोऽपलब्धिश्च - अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धि:, 'उच्चावय'त्ति उच्चावचाः अनुकूलप्रतिकूला असमंजसावा, 'गामकंटय'त्ति ग्रामस्य - इन्द्रियसमूहस्य कण्टका इव कण्टका - बाधकाः शत्रवो वा ग्रामकण्टकाः, क एते इत्याह-- ' बावीसं परीसहोवसग्ग'त्ति परीषहाः –— क्षुदादयस्त एवोपसर्गा - उपसर्जनात् धर्मभ्रंशनात् परीषहोपसर्गाः, अथवा द्वाविंशतिपरीषहाः, तथा उपसर्गादिव्यादयः ।
कालस्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम्
१। ४३४. ‘भंते’इत्यादि, तत्र ‘'भंते 'त्ति हे भदन्त ! 'इति' एवमामंत्र्येति शेषः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'सेट्ठियरस' त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स'त्ति दरिद्रस्य 'किवणस्स 'त्ति रंकस्य 'खत्तियस्स' त्ति राज्ञः 'अपच्चक्खाणकिरिय'त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्मबन्धः ।
१। ४३५. 'अविरइं'ति इच्छाया अनिवृत्तिः सा हि सर्वेषां समैवेति ।
अप्रत्याख्यानक्रियायाः हि प्रस्तावादिदमाह -
१ । ४३६. ‘आहाकम्म’मित्यादि आधया - साधुप्रणिधानेन यत् सचेतनमचेतनं क्रियते, अचेतनं वा पच्यते चीयते वा गृहादिकं व्यूयते' वा वस्त्रादिकं तदाधाकर्म 'किं बंधइ' त्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ' त्ति स्थितिबन्धापेक्षया बद्धावस्थापेक्षया वा 'किं चिणाइ'त्ति अनुभागबन्धापेक्षया निधत्तावस्थाsपेक्षया वा 'किं उवचिणाइ'त्ति प्रदेशबन्धापेक्षया निकाचनापेक्षया वेति ।
१। ४३७ 'आयाए'त्ति आत्मना धर्मं चारित्रधर्मं श्रुतधर्मं वा 'पुढविकायं नावकखइत्ति नापेक्षते, नानुकम्पत इत्यर्थः ।
१। ४३८. आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् ।
अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम्
१। ४४०. तत्र ‘अथिरे'त्ति अस्थासु द्रव्यं लोष्टादि 'प्रलोटति' परिवर्तते, अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्तेते । 'स्थिर' शिलादि न प्रलोटयति, अध्यात्मचिन्तायां तु स्थिरो जीवः, कर्मक्षयेऽपि तस्यावस्थितत्वात्, नासौ 'प्रलोटयति' उपयोगलक्षणस्वभावान्न परिवर्तते । तथा अस्थिरं भंगुरस्वभावं तृणादि 'भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिरं कर्म तद् भज्यते व्यपैति । तथा 'स्थिरं ' अभंगुरमयः शलाकादि न भज्यते, अध्यात्मचिन्तायां स्थिरो जीवः स च न भज्यते शाश्वतत्वादिति ।
जीवप्रस्तावादिदमाह--'सासए बालए 'त्ति बालको व्यवहारतः शिशुर्निश्चयतोऽसंयतो जीवः स च शाश्वतो द्रव्यत्वात्, 'बालियत्तं 'ति इहेकप्रत्ययस्य स्वार्थिकत्वाद् बालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वं तच्चाशाश्वतं पर्यायत्वादिति । एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण शास्त्रज्ञो जीवः निश्चयतस्तु संयत इति ॥
अनन्तरोद्देशकेऽस्थिरं कर्मेत्युक्तं, कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थः तथा संग्रहण्यां 'चलणाउ'त्ति यदुक्तं तत्प्रतिपादनार्थश्च दशमोद्देशको व्याख्यायते, तत्र च सूत्रम् —
॥ प्रथमशते नवमोद्देशकः ॥
दशम उद्देशकः
१ । ४४२. ‘अण्णउत्थिया ण’मित्यादि, 'चलमाणे अचलिए 'त्ति चलत्कर्माचलितं, चलता तेन चलितकार्याकरणात्, वर्त्तमानस्य चातीततया व्यपदेष्टुमशक्यत्वात्, एवमन्यत्रापि वाच्यमिति ।
'एगयओ न साहण्णंति'त्ति एकत एकत्वेनैकस्कन्धतयेत्यर्थः 'न संहन्येते' न संहतौ-मिलितौ स्याताम् । 'नत्थि सिणेहकाए 'त्ति स्नेहपर्यवराशिर्नास्ति, सूक्ष्मत्वात् त्र्यादियोगे तु स्थूलत्वात्सोऽस्ति । 'दुक्खत्ताए कञ्जति त्ति पञ्च पुद्गलाः संहत्य दुःखतया - कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽवि यति कर्मापि च 'सेत्ति तत् शाश्वतमनादित्वात् 'सय'त्ति सर्वदा 'समियं 'ति सम्यक् सपरिमाणं वा 'चीयते चयं याति ‘अपचीयते' अपचयं याति ।
तथा 'पुव्वं 'ति भाषणात् प्राक् 'भास' त्ति वाकद्रव्यसंहतिः 'भास'त्ति सत्यादिभाषा स्यात्, तत्कारणत्वात् विभंगज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थं गवेषणीया, एवं सर्वत्रापीति, तथा 'भासिजमाणी भासा अभास 'त्ति निसृज्यमाणवाद्रव्याणि अभाषा, वर्त्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारानङ्गत्वादिति, 'भासासमयविइक्कतं च णं ति इह क्तप्रत्ययस्य भावार्थत्वाद् विभक्तिविपरिणामाच्च' भाषासमयव्यतिक्रमे च 'भासिय'त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये' प्रत्ययोत्पादकत्वादिति, - 'अभासओ णं भास'त्ति अभाषमाणस्य भाषा भाषणात्पूर्वं पश्चाच्च तदभ्युपगमात्, 'नो खलु भासओ' त्ति भाष्यमाणायास्तस्या अनभ्युपगमादिति ।
१. X क. च.
२. ऊयते ख. ग. च. छ.
३. प्रलोटयति ग.
Jain Education International
४. परिणामाच्च ख. ग. घ. च. छ.
५. अभिधेये ख. ग. घ. छ.
For Private & Personal Use Only
www.jainelibrary.org