________________
३६१
भगवती वृत्ति
श.१: उ.६: सू.४२०-४२६ ११४२०. 'अण्णउत्थिए'इत्यादि, अन्ययूथं-विवक्षितसंघादपरः संघस्तदस्ति येषां तेऽन्ययूथिकाः, तीर्थान्तरीया इत्यर्थः । 'एवम्'इति वक्ष्यमाणं
'आइक्खंति'त्ति आख्यान्ति सामान्यतः, 'भासंति'त्ति विशेषत; 'पण्णवेंति'त्ति उपपत्तिभिः, 'परूवेति'ति भेदकथनतः। द्वयोर्जीवयोरेकस्य वा समयभेदेनायुद्धयकरणे नास्ति विरोध इत्युक्तम्-'एगे जीवे इत्यादि 'दो आउयाई पकरेइ' त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुःपर्याय करोति तदाऽन्यमपि करोति, स्वपर्यायत्वात्, ज्ञानसम्यक्त्वपर्यायवत् । स्वपर्यायकर्तृत्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पादप्रसंग इति भावः । उक्तार्थस्यैव भावनार्थमाह-'जमि'त्यादि विभक्तिविपरिणामाद्' यस्मिन् समये इहभवो-वर्तमानभवो यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम् । अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह–'जं समय' परभवियाउयमित्यादि, एवमेकसमयकार्यतां द्वयोरप्यभिधायैकक्रिया
कार्यतामाह-'इहभवियाउस्से'त्यादि ‘पकरणयाए'त्ति करणेन ‘एवं खलु'इत्यादि निगमनम्। १।४२१. 'जण्णं ते अपणउत्थिया एवमाइक्खंती'त्याद्यनुवादवाक्यस्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो दृश्यः । जे ते एवमाहंसु मिच्छं ते
एवमाहंसु'त्ति तत्र 'आहंसु' त्ति उक्तवन्तः यच्चार्य वर्तमाननिर्देशेऽधिकृतेऽतीतनिर्देशः स सर्वो वर्तमानः कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः । मिथ्यात्वं चास्यैवम्-एकनाध्यवसायेन विरुद्धयोरायुषोर्बन्धायोगात् । यच्चोच्यते-पर्यायान्तरकरणे पर्यायान्तरं करोति, स्वपर्यायत्वादिति । तदनैकान्तिकं सिद्धत्वकरणे संसारित्वाकरणादिति। टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति-वेदयते इत्यर्थः परभवायुस्तदा प्रकरोति बधातीत्यर्थः । इहभवायुरुपभोगेन परभवायुर्बध्नाति इत्यर्थः । मिथ्या चैतत्परमतं, यस्माजातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्बद्धं तदा दानाध्ययनादीनां वैयर्थ्यं स्यादिति । एतच्चायुर्बन्धकालादन्यत्रावसेयम् । अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयते परभवायुस्तु प्रकरीत्येवेति ।
अन्ययूथिकप्रस्तावादिदमाह११४२३. 'तेण मित्यादि, 'पासावच्चिज्जेत्ति पाश्र्थापत्यानां-पार्धजिनशिष्याणामयं पाश्र्थापत्यीयः । 'थेरे'त्ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः 'सामाइयंति
समभावरूपं 'न याणंति'त्ति न जानन्ति, सूक्ष्मत्वात्तस्य। 'सामाइयस्स अटुं'त्ति प्रयोजनं कर्मानुपादाननिर्जरणरूपम्। 'पञ्चक्खाणं'ति पौरुष्यादिनियम, तदर्थं च आश्रवद्वारनिरोधम् । 'संजमं'ति पृथिव्यादिसंरक्षणलक्षणं, तदर्थंच-अनाश्रवत्वं । 'संवरं' ति इन्द्रियनोइंद्रियनिवर्त्तनं,
तदर्थं तु अनाश्रवत्वमेव । 'विवेगं'ति विशिष्टबोधं, तदर्थं च-त्याज्यत्यागादिकं 'विउस्सग्गं'ति व्युत्सर्ग कायादीनां तदर्थं चानभिष्वंगताम् । ११४२४.अज्जो !'त्ति हे आर्य! ओकारांतता सम्बोधने प्राकृतत्वात् । १।४२५. किं भे'त्ति किं भवतामित्यर्थः। ११४२६. 'आया णे'त्ति आत्मा न:-अस्माकं मते सामायिकमिति, यदाह
"जीवो गुणपडिवण्णो नयस्स दबडियस्स सामाइयं" ति। सामायिकार्थोऽपि जीव एव, कर्मानुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । ११४२७. 'जइ भे अज्जो !'त्ति यदि भवतां हे आर्याः! स्थविराः सामाविकमात्मा तदा 'अवहट्टत्ति अपहृत्य त्यक्त्वा क्रोधादीन किमर्थं गर्हध्वे ? 'निन्दामि
गरिहामि अप्पाणं वोसिरामि'इति वचनात् क्रोधादीनेव अथवा 'अवज्ज'मिति गम्यते, अयमभिप्रायः यः सामायिकवान् त्यक्तक्रोधादिश्च स कथं
किमपि निन्दति ? निन्दा हि किल द्वेषसम्भवेति । अत्रोत्तरं-संयमार्थमिति, अवघे गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात् । तथा११४२८. गर्दा संयमः तद्हेतुत्वात्, न केवलमसौ गर्दा कर्मानुपादानहेतुत्वात्संयमो भवति, 'गरहावि' त्ति गर्दैव च सर्वं 'दोस' ति दोषं-रागादिकं पूर्वकृतं
पापं वा द्वेषं वा 'प्रविनयति' क्षपयति, किं कृत्वा ? इत्याह-सव्वं बालियं' ति बाल्यं-बालतां मिथ्यात्वमविरतिं च ‘परिण्णाए त्ति ‘परिज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति । इह च गर्हायास्तद्वतश्चाभेदादेककर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति। 'एवं खु' त्ति एवमेव 'णे' इत्यस्माकम् 'आया संजमे उवहिए'त्ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः 'उपहितः' प्राप्तो भवति । 'आया संजमे उवचिए' ति आत्मा संयमविषये पुष्टो भवति, आत्मरूपो वा संयम उपचितो भवति। 'उवहिए'त्ति 'उपस्थितः'
अत्यन्तावस्थायी। १।४२६. 'एएसि णं भंते ! पयाणं' इत्यस्य 'अदिवाण मित्यादिना सम्बन्धः । कथमदृष्टानामित्याह 'अन्नाणयाए'त्ति अज्ञानो-निनिस्तस्य भावोऽज्ञानता
तयाऽज्ञानतया स्वरूपेणानुपलम्भादित्यर्थः । एतदेव कथमित्याह–'असवणयाए'त्ति अश्रवण:-श्रुतिवर्जितस्तद्भावस्तत्ता तया, 'अबोहीए' त्ति अबोधिः-जिनधर्मानवाप्तिः, इह तु प्रक्रमान्महावीरजिनधर्मानवाप्तिस्तया, अथवौत्पत्तिक्यादिबुद्ध्यभावेन, 'अणभिगमेणं'ति विस्तारबोधाभावेन हेतुना, 'अदृष्टानां' साक्षात्स्वयमनुपलब्धानाम्, 'अश्रुतानाम्' अन्यतोऽनाकर्णितानाम्, 'अस्सुयाण'ति 'अस्मृतानां' दर्शनाकर्णनाभावेनाननुध्यातानाम्, अत एव 'अविज्ञातानां' विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह-'अब्बोकडाणं' ति अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, 'अव्वोच्छिण्णाणं'ति विपक्षादव्यवच्छेदितानाम्, 'अनिजूढाणं'ति महतो ग्रन्थात्सुखावबोधाय संक्षेपनिमित्तमनुग्रहपरगुरुभिरनुद्धतानाम्, अत एवास्माभिः 'अनुपधारितानाम्' अनवधारितानाम् 'एयमढे'त्ति एवं प्रकारोऽर्थः अथवाऽयमर्थः 'नो सद्दहिए'त्ति न द्धितः, 'नो पत्तिए'त्ति 'नो' नैव 'पत्तियं' ति प्रीतिरुच्यते तद्योगात् 'पत्तिए' प्रीतः-प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्ययितो वा हेतुभिः, 'नो रोइए'त्ति न चिकीर्षितः । 'एवमेयं से जहेयं तुब्मे वयह'त्ति अथ यथैतद्वस्तु यूयं वदथ एवमेतद्वस्त्विति भावः ।
३. प्रतीतः ग. च. छ.
१. परिणामात् ख. ग. घ. च. छ. २.प्रभवेति ग. च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org