________________
श. १: उ.६: सू. ३६३-४१६
१।३६८.
१ । ३६६.
१।४११.
१ । ४१२.
११४१३.
१।४१५.
१ । ४१७.
३६०
अगुरुलहू चउफासो अविदव्या य होंति नायव्वा । सेसा उ अट्ठफासा गुरुलहुया निच्छयणयस्स || "
१ । ४००-४०३. ‘धम्मत्थिकाए 'त्ति इह यावत्करणाद् 'अहम्मत्थिकाए आगासत्थिकाए त्ति दृश्यं 'चउत्थपएणं' ति एते 'अगुरुलहु' इत्यनेन पदेन वाच्याः । शेषाणां तु निषेधः कार्यो, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति ।
१।४१६.
'चउफास' त्ति सूक्ष्मपरिणामानि 'अट्ठफास 'त्ति बादराणि । गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति । व्यवहारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानि - गुरुर्लोष्टोऽधोगमानत्, लघुधूमः उर्ध्वगमनात्, गुरुलघुर्वायुस्तिर्यग्गमनात्, अगुरुलघ्वाकाशं तत्स्वभावत्वादिति ।
एतानि चावकाशान्तरादिसूत्राण्येतद्गाथाऽनुसारेणावगन्तव्यानि तद्यथा-
१ । ४०४,४०५. पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम्, एकान्तगुरुलघुनोस्तन्मतेनाभावात् । 'गुरुलहुयदव्वाइं' ति औदारिकादीनि चत्वारि 'अगुरुलहुयदव्वाई' ति कार्मणादीनि ।
१। ४०६,४०७. ‘समया कम्माणि य चउत्थपएणं ति समयाः - अमूर्त्ताः कर्माणि च - कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषां ।
9180€.
Jain Education International
“ओवासवायघणउदहीपुढविदीवा य सागरा वासा। नेरइयाई अत्थि य समया कम्माइ लेसाओ ||
दिट्टी दंसणणाणे सण्ण सरीरा य जोग उवओगे।
दब्बपएसा पज्जव तीयाआगामिसब्बद्ध || " त्ति ।
‘वेउव्वियतेयाइं पडुच्च’त्ति नारका वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव । यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव,
यदाह
भगवती वृत्ति
" ओरालियवेउब्वियाहारगतेय गुरुलहू दब्बं" त्ति ।
'जीवं च कम्मगं च पडुच 'त्ति जीवापेक्षया कार्मणशरीरापेक्षया च नारका अगुरुलघुका एव जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कार्मणवर्गणानां चागुरुलघुत्वात् आह च
"कम्मगमणमासाई एयाई अगुरुलहुयाई” ति ।
'णाणत्तं जाणियव्वं सरीरेहिं 'त्ति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयम् । तत्रासुरादिदेवा नारकववाच्याः, पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवो जीवं कार्मणं च प्रतीत्यागुरुलघवः इति । वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः। एवं पञ्चेन्द्रियतिर्यञ्चोऽपि । मनुष्यास्त्वौदारिकवैक्रियतैजसाहारकाणि प्रतीत्येति ।
'दव्वलेसं पडुच्च तइयपएणं' ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्णः औदारिकादिकं च गुरुलध्वितिकृत्वा गुरुलघु इति अनेन तृतीयविकल्पेन व्यपदेश्या । भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्त्तत्वादगुरुलध्वित्यनेन व्यपदेश इत्यत आह-'भावलेस पहुच चउत्थपदेणं 'ति । 'दिट्ठीदंसणे 'त्यादि दृष्ट्यादीनि जीवपर्यायत्वेनागुरुलघुत्वादगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि । अज्ञानपदं त्विह ज्ञानविपक्षत्वादधीतम्, अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते ।
'हेट्ठिल्लए’त्ति औदारिकादीनि 'तइयपणं 'ति गुरुलघुपदेन गुरुलघुवर्गणात्मकत्वात् । 'कम्मयं चउत्थपणं ति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणाम् ।
मनोयोगवाग्योगौ चतुर्थपदेन वाच्यौ तद्द्रव्याणामगुरुलघुत्वात् । काययोगः कार्मणवर्जस्तृतीयेन गुरुलघुत्वात्तद्द्रव्याणामिति । 'सव्वदव्वे'त्यादि 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'सर्वप्रदेशाः ' तेषामेव निर्विभागा अंशाः सर्वपर्यवाः वर्णोपयोगादयो द्रव्यधर्म्माः । एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेनागुरुलघुत्वेन चेत्यर्थः । यतः सूक्ष्माण्यमूर्त्तानि च द्रव्याण्यगुरुलघूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ।
गुरुलघुत्वाधिकारादिदमाह–
'से नूण' मित्यादि, 'लाघवियं ति लाघवमेव लाघविकम् - अल्पोपधिकम्, 'अपिच्छत्ति अल्पोऽभिलाष आहारादिषु 'अमुच्छ'त्ति उपधावसंरक्षणानुबन्ध:, 'अगेहि' त्ति भोजनादिषु परिभोगकालेऽनासक्तिः, अप्रतिबद्धता - स्वजनादिषु स्नेहाभाव इत्येतत्पंचकमिति गम्यम् । श्रमणानां निर्ग्रन्थानां 'प्रशस्तं' सुन्दरम् अथवा लाघविकं प्रशस्तं कथंभूतमित्याह - 'अप्पिच्छा' अल्पेच्छारूपमित्यर्थः एवमितराण्यपि पदानि ।
१. गुरुलघुका घ. च.
उक्ता लाघविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोषाभावाविनाभूतकांक्षाप्रदोषक्षयकार्याभिधानार्थं च क्रमेण सूत्रे, व्यक्ते च । नवरं—
कांक्षा — दर्शनान्तरग्रहो गृद्धिर्वा सैव प्रकृष्टो दोषः कांक्षाप्रदोषः कांक्षाप्रद्वेषं वा रागद्वेषावित्यर्थः । कांक्षाप्रदोषः प्रागुक्तः, प्रदोषत्वं च कांक्षायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह
२. स्वरूप ख. ग. च.
For Private & Personal Use Only
www.jainelibrary.org