________________
भगवती वृत्ति
३८६
श. १: उ.८, ६ः सू. ३७१-३६३
प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्, अन्यथा यदा कदाऽप्यधिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रिया इति ।
१ । ३७२. 'सत्तीए 'त्ति शक्त्या - प्रहरणविशेषेण 'समभिधंसेज 'त्ति हन्यात् 'सयपाणिण 'त्ति स्वकहस्तेन ' से त्ति तस्य 'काइयाए 'त्ति 'कायिक्या' शरीरस्पन्दरूपया 'आधिकरणिक्या' शक्तिखड्गव्यापाररूपया, 'प्राद्वेषिक्या' मनोदुष्प्रणिधानेन 'पारितापनिक्या' परितापनरूपया ‘प्राणातिपातक्रियया’ मारणरूपया 'आसन्ने 'त्यादि शक्त्याऽभिध्वंसकः असिना वा शिरश्छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः, मारितपुरुषवैरभावेन' किम्भूतेनेत्याह--आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्नवधकेन भवति च वैराद् वध वधकस्य तमेव वध्यमाश्रित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा, यदाह
"वहमारण अब्भक्खाणदाणपरधणविलोवणाईणं । सव्वजत्रो उदओ दसगुणिओ एक्कसिकयाणं ।। " ति ।
‘चः’ समुच्चयेऽनवकांक्षणा–परप्राणनिरपेक्षा स्वगतापायपरिहारनिरपेक्षा वा वृत्तिः - वर्त्तनं यत्रैव वैरे तत्तथा तेनानवकांक्षणवृत्तिकेनेति । क्रियाधिकार एवेदमाह
१ । ३७३. ‘सरिसय'त्ति सदृशकौ कौशलप्रमाणादिना 'सरित्तय'त्ति 'सदृक्त्वचौ' सदृशच्छवी 'सरिव्वय' त्ति सदृग्वयसौ समानयौवनाद्यवस्थौ 'सरिसभंडमत्तोवगरण' ति भाण्डं - भाजनं मृन्मयादि, मात्रो - मात्रया युक्त उपधिः स च कांस्यभाजनादिभोजनभण्डिका, भाण्डमात्रा वा — गणिमादिद्रव्यरूपः परिच्छदः, उपकरणानि – अनेकधाऽऽवरणप्रहरणादीनि ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा । अनेन च समानविभूतिकत्वं तयोरभिहितं । 'सवीरिए' त्ति सवीर्यः ।
१ । ३७४. 'वीरियवज्झाइं ति वीर्यं वध्यं येषां तानि तथा ।
वीर्यप्रस्तावादिदमाह
१।३७५. 'जीवा णमित्यादि ।
१ । ३७६. ‘सिद्धा णं अवीरियत्ति सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसिपडिवन्नगा यत्ति शीलेशः - सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलेशी । शैलेशो वा — मेरुस्तस्येव याऽवस्था स्थिरतासाधर्म्यात् सा शैलेशी । सा च सर्वथा योगनिरोधे पञ्चह्नस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका ये ते तथा। 'लद्धिवीरिएणं सवीरिय’'त्ति वीर्यान्तरायक्षय क्षयोपशमतो या वीर्यस्य लब्धिः सैव तद्हेतुत्वाद् वीर्यं लब्धिवीर्यं तेन सवीर्याः । एतेषां च क्षायिकमेव लब्धिवीर्यं। 'करणवीरिएणं' ति लब्धिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीयें। 'करणवीरिएणं सवीरियावि अवीरियावित्ति तत्र 'सवीर्याः, उत्थानादिक्रियावन्तः अवीर्यास्तूत्थानादिक्रियाविकलाः, ते चापर्याप्त्यादिकालेऽवगन्तव्या इति ।
१ । ३८०. ‘नवरं सिद्धवज्जा भाणियव्व 'त्ति औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु ते नेति, मनुष्यदण्डके वीर्यं प्रति सिद्धस्वरूपं नाध्येयमिति । ।। प्रथमशते अष्टमोद्देशकः ॥
नवम उद्देशकः
अष्टमोद्देशकान्ते वीर्यमुक्तं, वीर्याच्च जीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा संग्रहण्यां यदुक्तं 'गरुए 'त्ति तव्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम्
१ । ३ ८४. ‘कहण्ण’मित्यादि, ‘गरुयत्तं'ति 'गुरुकत्वम्' अशुभकर्मोपचयरूपमधस्ताद्गमनहेतुभूतं 'लघुकत्वं' गौरवविपरीतम् ।
१ । ३ ८६ . ‘एवम् आउलीकरेंति त्ति इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः स चैवम् 'कहण्णं भंते ! जीवा संसारं आउलीकरेंति ? गोयमा ! पाणाइवाएण'मित्यादि, एवमुत्तरत्रापि, तत्र 'आउलीकरेति' प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः ।
१ । ३८७. 'परित्तीकरेंति' त्ति स्तोकं कुर्वन्ति कर्मभिरेव ।
१। ३८८. 'दीहीकरेंति 'त्ति दीर्घं प्रचुरकालमित्यर्थः ।
१ । ३८६. 'हस्सीकरेंति 'त्ति अल्पकालमित्यर्थः ।
१ । ३६०. 'अणुपरियट्टेति त्ति पौनःपुन्येन भ्रमन्तीत्यर्थः ।
१ । ३६१. 'वीइवयंति 'त्ति व्यतिव्रजन्ति व्यतिक्रामन्तीत्यर्थः ।
'पसत्था चत्तारि 'त्ति लघुत्वपरीतत्वह्रस्वत्वव्यतिव्रजनदण्डकाः प्रशस्ताः मोक्षांगत्वात्, 'अप्पसत्था चत्तारि 'त्ति गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्त्तनदण्डका अप्रशस्ताः अमोक्षांगत्वादिति ।
गुरुत्वलघुत्वाधिकारादिदमाह–
१ । ३६३. 'सत्तमे ण' मित्यादि, इह चेयं
१. वैरिभावेन क. ख. घ. छ.
Jain Education International
गुरुलघुव्यवस्था
"निच्छयओ सव्वगुरुं सब्बलहुं वा न विजए दव्वं । ववहारओ उ जुज्जइ बायरखंधेसु नऽण्णेसु । ”
२. यत्र ख. ग. च. छ.
For Private & Personal Use Only
www.jainelibrary.org