________________
श. १: उ.८ः सू. ३५६-३७१
३८८
अष्टम उद्देशकः
गर्भवक्तव्यता सप्तमोद्देशकस्यान्ते उक्ता । गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बाले' त्ति तदभिधानाय चाष्टमोद्देशकः, तत्र च सूत्रम्
१ । ३५६. ‘एगंतबाले’इत्यादि 'एकान्तबालः' मिथ्यादृष्टिरविरतो वा एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति । यच्चैकान्तबालत्वे समानेऽपि नानाविधायुर्बन्धनं तन्महारम्भाद्युन्मार्गदेशनादितनुकषायत्वादि अकामनिर्जरादि तद्धेतुविशेषवशादिति, अत एव बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति न शेषाणि । एकान्तबालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं, तत्र च
१ । ३६०. ‘एगंतपंडिए णं’ति एकान्तपण्डितः साधुः 'मणुस्से त्ति विशेषणं स्वरूपज्ञापनार्थमेव । ' अमनुष्यस्यैकान्तपण्डितत्वायोगात्, तदयोगश्च सर्वविरतेरन्यस्याभावादिति ।
'एत पंडिए णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ 'त्ति सम्यक्त्वसप्तके क्षपिते न बध्नात्यायुः साधुः, अर्वाक् पुनर्बध्नातीत्यत उच्यतेस्याठाकरोतीत्यादि ।
१ । ३६१. 'केवलमेव दो गईओ पन्नायंति त्ति केवलशब्दः सकलार्थस्तेन साकल्येनैव द्वे गती 'प्रज्ञायेते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति । 'अंतकिरिय'त्ति निर्वाणं 'कप्पोववत्तिय'त्ति कल्पेषु अनुत्तरविमानान्तदेवलोकेषूपपत्तिरुत्पत्तिः सैव कल्पोपत्तिका । इह च कल्पशब्दः सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति ।
एकान्तपण्डितद्वितीयस्थानवर्त्तित्वाद् बालपण्डितस्य अतो बालपण्डितसूत्रं, तत्र च
१ । ३६२. 'बालपंडिए णं 'ति श्रावकः ।
भगवती वृत्ति
१ । ३६ ३ . ‘देसं उवरमइ’त्ति विभक्तिविपरिणामाद्देशात्' 'उपरमते' विरतो भवति, ततो 'देसं' स्थूलं प्राणातिपातादिकं 'प्रत्याख्याति' वर्जनीयतया प्रतिजानीते । आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पञ्च, तत्र—
१ । ३६४. ‘कच्छंसि व'त्ति 'कच्छे' नदीजलपरिवेष्टिते वृक्षादिमति प्रदेशे, 'दहंसि वत्ति हदे प्रतीते, 'उदगंसि व 'त्ति उदके — जलाश्रयमात्रे 'दवियंसि व 'त्ति ‘द्रविके’ तृणादिद्रव्यसमुदाये, ‘वलयंसि वत्ति वलये वृत्ताकारनद्याद्युदककुटिलगतियुक्तप्रदेशे 'नूमंसि वत्ति नूमे अवतमसे 'गहणंसि व ग वृक्षवल्लीलतावितानवीरुत्समुदाये 'गहणविदुग्गंसि वत्ति 'गहनविदुर्गे' पर्वतैकदेशावस्थितवृक्षवल्ल्यादिसमुदाये 'पव्वयंसि वत्ति पर्वते 'पव्वयविदुग्गंसि वत्ति पर्वतसमुदाये 'वर्णसि वत्ति वने एकजातीयवृक्षसमुदाये, 'वणविदुग्गंसि वति नानाविधवृक्षसमूहे 'मिगवित्तीए' "त्ति मृगैः – हरिणैर्वृत्तिः – जीविका यस्य स मृगवृत्तिकः स च मृगरक्षकोऽपि स्यादित्यत आह- 'मियसंकप्पे त्ति मृगेषु संकल्पो - वधाध्यवसायः छेदनं वा यस्यासौ मृगसंकल्पः, स च चलचित्ततयाऽपि भवतीत्यत आह- ' मियपणिहाणे 'त्ति मृगवधैकाग्रचित्तः 'मिगवहाए 'त्ति मृगवधाय 'गंत'त्ति गत्वा कच्छादाविति योगः । 'कूडपासं' ति कूटं च मृगग्रहणकारणं गर्त्तादि पाशश्च - तद्बन्धनमिति कूटपाशम् 'उद्दाइ'त्ति मृगवधायोद्ददाति रचयतीत्यर्थः । 'तओ णं'त्ति ततः कूटपाशकरणात् 'कइकिरिए त्ति कतिक्रियः ? क्रियाश्च कायिक्यादिकाः ।
१ । ३६५. 'जे भविए 'त्ति यो भव्यो योग्यः कर्त्तेतियावत् 'जावं च ण'मिति शेषः यावन्तं कालमित्यर्थः कस्याः कर्त्ता इत्याह- ' उद्दवणयाए 'त्ति कूटपाशधारणतायाः ताप्रत्ययश्चेह स्वार्थिकः 'तावं च णं'त्ति तावन्तं कालं 'काइयाए त्ति गमनादिकायचेष्टारूपया 'अहिगरणियाए 'त्ति अधिकरणेन - कूटपाशरूपेण निर्वृत्ता या सा तया तथा 'पाउसियाए 'ति प्रद्वेषो मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तया 'तिहिं किरियाहिं' ति क्रियन्त इति क्रियाः--चेाविशेषाः, 'पारितावणियाए 'त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति । प्राणातिपातक्रिया च घातिते इति ।
१ । ३६६. ‘ऊसविए’त्ति उत्सर्पः ऊसिक्किऊणेत्यर्थः ऊर्ध्वकृत्येति वा 'निसिरइ'त्ति निसृजति — क्षिपति यावदिति शेषः ।
१ । ३६८. 'उसुं'ति बाणम् ।
१ । ३७०.‘आयंयकण्णायतं’ति कर्णं यावदायतः - आकृष्टः कर्णायतः आयतं प्रयत्नवद् यथा भवतीत्येवं कर्णायत आयतकर्णायतस्तम् 'आयामेत्त' त्ति आयम्य आकृष्य 'मग्गओ' त्ति पृष्ठतः 'सयपाणिण 'त्ति 'स्वकपाणिना' स्वकहस्तेन' 'पुव्वायामणयाए 'त्ति पूर्वाकर्षणेन ' से णं भंते! पुरिसेत्ति 'सः' शिरश्छेत्ता पुरुषः 'मियवेरेणं' ति इह वैरं वैरहेतुत्वाद् वधः पापं वा वैरं वैरहेतुत्वादिति ।
अथ शिरश्छेतृपुरुषहेतुकत्वादिषु निपातस्य कथं धनुर्द्धरपुरुषो मृगवधेन स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राह
१ । ३७१.क्रियमाणं धनुःकाण्डादि कृतमिति व्यपदिश्यते ? युक्तिस्तु प्राग्वत्, तथा सन्धीयमानं - प्रत्यञ्वायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यञ्चं 'सन्धितं' कृतसन्धानं भवति ?, तथा 'निर्वृत्त्यमानं' नितरां वर्त्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वृत्तितं-वृत्तीकृतं मण्डलाकारं कृतं भवति ? तथा ‘निसृज्यमानं' निक्षिप्यमाणं काण्डं निसृष्टं भवति ? यदा च निकृष्टं तदा निसृज्यमानताया धनुद्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव मारितः, ततश्चोच्यते- 'जे मियं मारेइ' इत्यादीति ।
इह च क्रियाः प्रक्रान्ताः ताश्चानन्तरोक्ते मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह - 'अन्तो छण्ह' मित्यादि, षण्मासानू यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमितिकृत्वा षण्मासादूर्ध्वं प्राणातिपातक्रिया न स्यादिति हृदयम्, एतच्च व्यवहारनयापेक्षया
१. ज्ञानार्थमिव ख. घ. छ.
२. परिणामादेशात् ख. ग. घ. च. छ.
३. मिगवत्तए क. ख. घ. छ.
Jain Education International
४. करणताया ख. च. छ.
५. तथा तथा क. च. छ.
६. स्वहस्तेन ग. घ. च. छ.
For Private & Personal Use Only
www.jainelibrary.org