________________
३६७
भगवती वृत्ति
श.१: उ.७: सू.३४६-३५७ यतः 'पुत्तजीवं फुड'त्ति पुत्रजीवं स्पृष्टवती। इह च प्रतिबद्धता गाढसम्बन्धः,तदंशत्वात् । स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात् । अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृऐति, 'तम्हे ति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनादाहारयति । 'अवरावि यत्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती 'तम्ह त्ति यस्मादेवं तस्माच्चिनोति शरीरं, उक्तं च तन्त्रान्तरे
"पुत्रस्य नाभौ मातुच, हदि नाडी निबध्यते ।
ययाऽसौ पुष्टिमाप्रोति, केदार इव कुल्यया॥" इति। गर्भाधिकारादेवेदमाह११३५०. 'कइ ण'मित्यादि ‘माइअंग'त्ति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग'त्ति मस्तकभेज्जकम्, अन्ये त्वाहुः-मेदः फिप्फिसादि मस्तुलुंगमिति । १३५१. 'पेइयंगत्ति पैतृकांगानि शुक्रविकारबहुलानीत्यर्थः । 'अद्विमिंज'त्ति अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु
शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति। ११३५२. 'अम्मापिइए णं'ति अम्बापैतृकं शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानि मातापित्रंगानीत्यर्थः । 'जावइयं से कालं'ति यावन्तं कालं 'से'त्ति
तत् तस्य वा जीवस्य 'भवधारणीयं' भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकमित्यर्थः। 'अव्वावन्ने'त्ति अविनष्टम्, 'अहे 'ति उपचयान्तिमसमयादनन्तरमेतद् अम्बापतृकं शरीरं । 'वोक्कसिज्जमाणे'त्ति व्यवकृष्यमाणं हीयमानम् ।
गर्भाधिकारदेवापरं सूत्रम्११३५३. 'गब्भगए समाणे'त्ति गर्भगतः सन् मृत्वेति शेषः, 'एगइए'त्ति सगर्वराजादिगर्भरूपः । ११३५४. संज्ञित्वादिविशेषणानि च गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसंभवाभिधायकतयोक्तानि । वीर्यलब्ध्या वैक्रियलब्ध्या संग्रामयतीति योगः। अथवा
वीर्यलब्धिको वैक्रियलब्धिकश्च सन्निति, पराणीएणं'ति 'परानीकं' शत्रुसैन्यं 'सोच्च'त्ति आकर्ण्य 'निशम्य' मनसाऽवधार्य 'पएसे निच्छुभइ'त्ति गर्भदेशाद् बहिः क्षिपति 'समोहण्णइत्ति समवहन्ति समवहतो भवति तथाविधपुद्गलग्रहणार्थम् । 'संग्रामं संग्रामयति' युद्धं करोति । 'अत्यकामए'इत्यादि अर्थ-द्रव्ये कामो-वांछामात्रं यस्यासावर्थकामः, एवमन्यान्यपि विशेषणानि, नवरं राज्यं नृपत्वं, भोगा-गन्धरसस्पर्शाः, कामौ- शब्दरूपे, कांक्षा-गृद्धिः आसक्तिरित्यर्थः । अर्थे' कांक्षा संजाताऽस्येत्यर्थकांक्षितः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः । तच्चित्तेत्ति तत्र-अर्थादौ चित्तं-सामान्योपयोगरूपं यस्यासौ तच्चित्तः, 'तम्मणे'त्ति तत्रैव-अर्थादौ मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसे'त्ति लेश्या-आत्मपरिणामविशेषः, 'तदज्झवसिए'त्ति इहाध्यवसायोऽध्यवसितं, तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादावेवाध्यवसितंपरिभोगक्रियासंपादनविषयमस्येति तदध्यवसितः, 'तत्तिव्वज्झवसाणे'त्ति तस्मिन्नेव–अर्थादौ तीव्रम्-आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं-प्रयलविशेषलक्षणं यस्य स तथा, 'तदट्ठोवउत्ते' त्ति तदर्थम्-अर्थादिनिमित्तमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तदप्पियकरणे' त्ति तस्मिन्नेव–अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तथा, 'तब्भावणाभाविए'त्ति असकृदनादौ
संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तथा, 'एयंसि णं अतरंसि' त्ति एतस्मिन् संग्रामकरणावसरे कालं-मरणमिति । ११३५६. 'तहारूवस्स'त्ति तथाविधस्य उचितस्येत्यर्थः, 'श्रमणस्य' साधोः, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः ।
'माहणस्स'त्ति मा हन इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद्यः स माहनः । अथवा ब्रह्मणो ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमप्यास्तामनेकम् 'आर्यम्' आराद् यातं पापकर्मभ्य इत्यार्थम्, अत एव धार्मिकमिति, 'तओ'त्ति तदनन्तरमेव, 'संवेगजायसड्डि'त्ति संवेगेन-भवभयेन जाता श्रद्धा श्रद्धानं धर्मादिषु यस्य स तथा 'तिव्वधम्माणुरागरत्ति' ति तीव्रो यो धर्मानुरागो-धर्मबहुमानस्तेन रक्त इव यः स तथा।।
'धम्मकामए' त्ति धर्म:-श्रुतचारित्रलक्षणः, पुण्यं तत्फलभूतं शुभकर्मेति। १।३५७. 'अंबखुजए वत्ति आम्रफलवत्कुब्जः 'अच्छेजति आसीत सामान्यतः, एतदेव विशेषत उच्यते-'चिद्वेज'त्ति ऊर्ध्वस्थानेन 'निसीएजत्ति
निषदनस्थानेन, 'तुयटेज'त्ति शयीत, 'सममागच्छइ'त्ति, समं-अविषमं 'सम्मति पाठे 'सम्यग्' अनुपधातहेतुत्वादागच्छति-मातुरुदराद् योन्या निष्कामति । 'तिरियमागच्छइत्ति तिरश्चीनो भूत्वा जठरान्निर्गन्तुं प्रवर्तते यदि तदा 'विनिघातं' मरणमापद्यते, निर्गमाभावादिति। गर्भान्निर्गतस्य च यत्स्यात्तदाह-वण्णवज्झाणि यत्ति वर्ण:-श्लाघा वथ्यो–हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्बाह्यानि वर्णबाह्यानि अशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः । * 'से'त्ति तस्य गर्भनिर्गतस्य 'बद्धाइंति सामान्यतो बद्धानि 'पुट्ठाईति पोषितानि गाढतरबन्धतः 'निहत्ताइंति उदवर्त्तनापवर्तनकरणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् ? यतः पूर्वं स्पृथनीति, 'कडाइंति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, 'पट्टवियाईति मनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मसहोदयत्वेन व्यवस्थापितानीत्यर्थः, 'अभिनिविट्ठाईति तीव्रानुभावतया निविष्ठानि, 'अभिसमन्त्रागयाईति उदयाभिमुखीभूतानीति, ततश्च 'उदिनाई ति उदीर्णानि स्वतः उदीरणाकरणेन वोदितानि, व्यतिरेकमाह-'नो उवसंताईति अनिष्टादीनि व्याख्यातान्येवैकार्थानि वा, 'हीणस्सरे'त्ति अल्पस्वरः, 'दीणस्सरे' त्ति दीनस्येवदुःस्थितस्येव स्वरो यस्य स दीनस्वरः, 'अणादेयवयणे पञ्चायाए यावित्ति इहैवमक्षरघटना-प्रत्याजातश्चापि समुत्पन्नोऽपि चानादेयवचनो भवतीति। .
|| प्रथमशते सप्तमोद्देशकः ।।
१. अर्थ ख. ग. घ. च. छ. २. ब्राह्मणो ख. ग. घ. च. छ.
★ कस्याञ्चित् प्रतौ वाक्यालंकारत्वद्योतनार्थः इति उल्लिखितमस्ति, तदशुद्धं प्रतिभाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org