________________
श.१: उ.७: सू.३३४-३४६
३६६
भगवती वृत्ति ११३३४. नेरइएण'मित्यादि 'जहा पढमिल्लेणं'ति यथा देशेन, ननु देशस्य चार्धस्य च को विशेषः? उच्यते-देशस्त्रिभागादिरनेकधा, अर्द्ध त्वेकधैवेति ।
उत्पत्तिरुद्वर्त्तना च प्रायो गतिपूर्विका भवतीतिगतिसूत्राणि११३३५. 'विग्गहगइसमावन्नए'त्ति विग्रहो-वक्रं तत्प्रधाना गतिर्विग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविग्रहगतिसमा
पन्नस्तु ऋजुगतिकः स्थितो वा। विग्रहगतिनिषेधमात्राश्रयणात् । यदि चाविग्रहगतिसमापन्न ऋजुगतिक एवोच्यते तदा नारकादिपदेषु सर्वदैवाविग्रहगतिकानां यद् बहुत्वं वक्ष्यति तन्न स्याद् । एकादीनामपि तेषूत्पादश्रवणात् । टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न
ऋजुगतिक एव व्याख्यात इति। ११३३७. 'जीवा णं भंते !'इत्यादि प्रश्नः, तत्र जीवानामानन्त्यात् प्रतिसमयं विग्रहगतिमतां तन्निषेधवतां च बहूनां भावादाह-विग्गहगइ'इत्यादि ।
नारकाणां त्वल्पत्वेन विग्रहगतिमतां कदाचिदसंभवात् संभवेऽपि चैकादीनामपि तेषां भावाद् विग्रहगतिप्रतिषेधवतां च सदैव बहूनां भावात् आह'सव्वेवि ताव होज्ज अविग्गहे'त्यादि विकल्पत्रयम् । असुरादिषु एतदेवातिदेशत आह–'एव'मित्यादि जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्त्या विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भंगत्रयम् । तदन्येषु तु त्रयमेवेति 'तियभंगो'त्ति त्रिकरूपो भंगस्त्रिकभंगो भंगत्रयमित्यर्थः।
गत्यधिकाराच्यवनसूत्रम्११३३६. 'महिड्डिए'त्ति महर्द्धिको विमानपरिवाराद्यपेक्षया, 'महजुइए'त्ति महाद्युतिकः शरीराभरणाद्यपेक्षया 'महब्बले महाबलः शारीरप्राणापेक्षया
'महायसे'त्ति महायशाः बृहप्रख्यातिः 'महेसक्खे'त्ति महेशो-महेश्वर इत्याख्या-अभिधानं यस्यासौ महेशाख्यः ‘महासोक्खे'त्ति क्वचित्, 'महाणुभावे त्ति महानुभावः विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः, 'अविउक्कंतियं चयमाणे'त्ति च्यवमानता किलोत्पत्तिसमयेऽप्युच्यत इत्यत आह–व्युत्क्रान्तिः-उत्पत्तिस्तन्निषेधादव्युत्क्रान्तिकम् । अथवा व्यवक्रान्तिः–मरणं, तन्निषेधादव्यवक्रान्तिकं तद्यथा भवत्येवं च्यवमानो जीवमानो जीवन्नेव मरणकाल इत्यर्थः । 'अविउक्कंतियं चयं चयमाणे'त्ति क्वचिद् दृश्यते, तत्र च 'चर्य' शरीरं 'चयमाणे'त्ति त्यजन् 'किञ्चित्कालं'ति कियन्तमपि कालं यावन्नाहारयेदिति योगः । कुतः ? इत्याह–'हीप्रत्ययं' लज्जानिमित्तं, स हि च्यवनसमयेऽनुपक्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसदृशं पुरुषपरिभुज्यमानस्त्रीगर्भाशयरूपं जिह्वेति, ह्रिया च नाहारयति । तथा 'जुगुप्साप्रत्ययं' कुत्सानिमित्तं शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात् । 'परीसहवत्तियंति इह प्रक्रमात् परीषहशब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीषहनिमित्तं, दृश्यते चारतिप्रत्ययाल्लोकेप्याहारग्रहणवैमुख्यमिति । 'आहार' मनसा तथाविधपुद्गलोपादानरूपम् । 'अहे णं'ति अथ लज्जादिक्षणानन्तरमाहारयति बुभुक्षावेदनीयस्य चिरं सोढुमशक्यत्वादिति । 'आहारिजमाणे आहारिए' इत्यादौ भावार्थः प्रथमसूत्रवत् । अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीया55हारकालस्याल्पतोक्ता। तदनन्तरं च 'पहीणे य आउए भवइ'त्ति 'चः' समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादौ 'तमाउयंति तस्य मनुजत्वादेरायुस्तदायुः 'प्रतिसंवेदयति' अनुभवतीति? 'तिरिक्खजोणियाउयं वा' इत्यादौ देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति।
उत्पत्त्यधिकारादिदमाह११३४०. 'गब्मं वक्कममाणे'त्ति गर्ने व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः । ११३४१. 'दबिंदियाईति निर्वृत्त्युपकरणलक्षणानि, तानि हीन्द्रियपर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते। 'भाविंदियाईति लब्ध्युपयोगलक्षणानि,
तानि च संसारिणः सर्वावस्थाभावीनीति । ११३४२. 'ससरीरि'त्ति सह शरीरेणेति सशरीरी, इन्समासान्तभावात् 'असरीरि'त्ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमइ'त्ति व्युत्क्रामति,
उत्पद्यत इत्यर्थः। ११३४४. 'तप्पढमयाए'त्ति तस्य गर्भव्युत्क्रमणस्य प्रथमता तप्रथमता तया 'कि'मिति प्राकृतत्वात् कम् ? 'माउओयं' ति 'मातुरोजः' जनन्या आर्तवं,
शोणितमित्यर्थ, 'पिउसुक्कं' ति पितुः शुक्र, इह यदिति शेषः 'त'ति आहारमिति योगः। तदुभयसंसिटुं'ति तयोरुभयं तदुभयं द्वयं, तच्च
तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत् तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा। ११३४५. 'जं से'त्ति या तस्य गर्भसत्त्वस्य माता 'रसविगतीओ'त्ति रसरूपा विकृती:-दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणं'ति तासां रस
विकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारयतीति ।
'उच्चारेइ वत्ति उच्चारो-विष्ठा 'इति' उपप्रदर्शने 'वा' विकल्पे खेलो-निष्ठीवनं, 'सिंघाणति नासिकाश्लेष्मा। ११३४७. 'केसमंसुरोमनहत्ताए 'त्ति इह श्मश्रूणि-कूर्चकशाः रोमाणि-कक्षादिकेशाः। ११३४८. 'जीवे ण'मित्यादि । ११३४६. 'सव्वओ'त्ति सर्वात्मना 'अभिक्खणं'ति पुनः पुनः 'आहच्च'त्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वतः
आहार- यतीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहर्तुमिति भावः । अथ कथं सर्वत आहारयति ? इत्याह-'माउजीवरसहरणी'त्यादि रसो ह्रियते-आदीयते यया सा रसहरणी नाभिनालमित्यर्थः । मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह-'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात् कथमेवमित्याह-मातृजीवप्रतिबद्धता सती सा
१.x क. घ. च. छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org